यथा न देवि देवेशस् त्वां परित्यज्य गच्छति तथा माम् उद्धराशेषदुःखसंसारसागरात्
कुमुदा विमलानन्ता भवानी च सुधा शिवा ललिता कमला गौरी सती रम्भाथ पार्वती
नभस्यादिषु मासेषु प्रीयतामित्युदीरयेत् व्रतान्ते शयनं दद्यात् सुवर्णकमलान्वितम्
मिथुनानि चतुर्विंशद् दश द्वो च समर्चयेत् अष्टौ षड्वाप्यथ पुनश् चानुमासं समर्चयेत्
पूर्वं दत्त्वा तु गुरवे शेषानप्यर्चयेद्बुधः उक्तानन्ततृतीयैषा सदानन्तफलप्रदा
सर्वपापहरां देवि सौभाग्यारोग्यवर्धिनीम् न चैनां वित्तशाठ्येन कदाचिदपि लङ्घयेत् नरो वा यदि वा नारी वित्तशाठ्यात् पतत्यधः
गर्भिणी सूतिका नक्तं कुमारी वाथ रोगिणी यद्यशुद्धा तदान्येन वारयेत्प्रयता स्वयम्
इमामनन्तफलदां यस्तृतीयां समाचरेत् कल्पकोटिशतं साग्रं शिवलोके महीयते
वित्तहीनो ऽपि कुरुते वर्षत्रयमुपोषणैः पुष्पमन्त्रविधानेन सो ऽपि तत्फलमाप्नुयात्
नारी वा कुरुते या तु कुमारी विधवाथवा सापि तत्फलमाप्नोति गौर्यनुग्रहलालिता
इति पठति शृणोति वा य इत्थं गिरितनयाव्रतम् इन्द्रवाससंस्थः मतिमपि च ददाति सो ऽपि देवैर् अमरवधूजनकिंनरैश्च पूज्यः
अथान्यामपि वक्ष्यामि तृतीयां पापनाशिनीम् रसकल्याणिनीमेतां पुराकल्पविदो विदुः
माघमासे तु सम्प्राप्ते तृतीयां शुक्लपक्षतः प्रातर्गव्येन पयसा तिलैः स्नानं समाचरेत्
स्नापयेन्मधुना देवीं तथैवेक्षुरसेन च गन्धोदकेन तु पुनर् लेपयेत्कुङ्कुमेन तु दक्षिणाङ्गानि सम्पूज्य ततो वामानि पूजयेत्
ललितायै नमो देव्याः पादौ गुल्फौ ततो ऽर्चयेत् जङ्घां जानुं तथा शान्त्यै तथैवोरुं श्रियै नमः
मदालसायै तु कटिम् अमलायै तथोदरम् स्तनौ मदनवासिन्यै कुमुदायै च कन्दराम्
भुजं भुजाग्रं माधव्यै कमलायै मुखस्मिते भूललाटं च रुद्राण्यै शंकरायै तथालकान्
मुकुटं विश्ववासिन्यै शिरः कान्त्यै तथार्चयेत् मदनायै ललाटं तु मोहनायै पुनर्भ्रुवौ
नेत्रे चन्द्रार्धधारिण्यै तुष्ट्यै च वदनं पुनः उत्कण्ठिन्यै नमः कण्ठम् अमृतायै नमः स्तनौ
रम्भायै वामकुक्षिं च विशोकायै नमः कटिम् हृदयं मन्मथाधिष्ण्यै पाटलायै तथोदरम्
कटिं सुरतवासिन्यै तथोरुं चम्पकप्रिये जानुजङ्घे नमो गौर्यै गायत्र्यै घुटिके नमः
धराधरायै पादौ तु विश्वकायै नमः शिरः नमो भवान्यै कामिन्यै कामदेव्यै जगत्प्रिये
आनन्दायै सुनन्दायै सुभद्रायै नमो नमः एवं सम्पूज्य विधिवद् द्विजदाम्पत्यम् अर्चयेत् भोजयित्वान्नपानेन मधुरेण विमत्सरः
जलपूरितं तथा कुम्भं शुक्लाम्बरयुगद्वयम् दत्त्वा सुवर्णकमलं गन्धमाल्यैः समर्चयेत्
प्रीयतामत्र कुमुदा गृह्णीयाल्लवणव्रतम् अनेन विधिना देवी मासि मासि सदार्चयेत्
लवणं वर्जयेन्माघे फाल्गुने च गुडं पुनः तैलं राजिं तथा चैत्रे वर्ज्यं च मधु माधवे
पानकं ज्येष्ठमासे तु आषाढे चाथ जीरकम् श्रावणे वर्जयेत्क्षीरं दधि भाद्रपदे तथा
घृतमाश्वयुजे तद्वद् ऊर्जे वर्ज्यं च माक्षिकम् धान्यकं मार्गशीर्षे तु पौषे वर्ज्या च शर्करा
व्रतान्ते करकं पूर्णम् एतेषां मासि मासि च दद्याद्द्विकालवेलायां पूर्णपात्रेण संयुतम्
लड्डुकाञ्छ्वेतवर्णांश्च संयावमथ पूरिकाः घारिकान् अप्यपूपांश्च पिष्टापूपांश्च मण्डकान्