कश्यपो व्रतमाहात्म्याद् आगत्य परया मुदा चकार कर्कशां भूयो रूपयौवनशालिनीम्
वरैर् आछन्दयामास सा तु वव्रे ततो वरम् पुत्रं शक्रवधार्थाय समर्थममितौजसम्
वरयामि महात्मानं सर्वामरनिषूदनम् उवाच कश्यपो वाक्यम् इन्द्रहन्तारम् ऊर्जितम्
प्रदास्याम्यहमेवेह किं त्व् एतत् क्रियतां शुभे आपस्तम्बः करोत्विष्टिं पुत्रीयामद्य सुव्रते
विधास्यामि ततो गर्भम् इन्द्रशत्रुनिषूदनम् आपस्तम्बस्ततश्चक्रे पुत्रेष्टिं द्रविणाधिकाम्
इन्द्रशत्रुर् भवस्वेति जुहाव च सविस्तरम् देवा मुमुदिरे दैत्या विमुखाः स्युश्च दानवाः
दित्यां गर्भम् अथाधत्त कश्यपः प्राह तां पुनः त्वया यत्नो विधातव्यो ह्य् अस्मिन्गर्भे वरानने
संवत्सरशतं त्व् एकम् अस्मिन्न् एव तपोवने संख्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि
न स्थातव्यं न गन्तव्यं वृक्षमूलेषु सर्वदा नोपस्करेषूपविशेन् मुसलोलूखलादिषु
जले च नावगाहेत शून्यागारं च वर्जयेत् वल्मीकायां न तिष्ठेत न चोद्विग्नमना भवेत्
विलिखेन्न नखैर्भूमिं नाङ्गारेण न भस्मना न शयालुः सदा तिष्ठेद् व्यायामं च विवर्जयेत्
न तुषाङ्गारभस्मास्थिकपालेषु समाविशेत् वर्जयेत्कलहं लोकैर् गात्रभङ्गं तथैव च
न मुक्तकेशा तिष्ठेत नाशुचिः स्यात्कदाचन न शयीतोत्तरशिरा न चापरशिराः क्वचित्
न वस्त्रहीना नोद्विग्ना न चार्द्रचरणा सती नामङ्गल्यां वदेद्वाचं न च हास्याधिका भवेत्
कुर्यात्तु गुरुशुश्रूषां नित्यं माङ्गल्यतत्परा सर्वौषधीभिः कोष्णेन वारिणा स्नानमाचरेत्
कृतरक्षा सुभूषा च वास्तुपूजनतत्परा तिष्ठेत्प्रसन्नवदना भर्तुः प्रियहिते रता
दानशीला तृतीयायां पार्वण्यं नक्तमाचरेत् इतिवृत्ता भवेन्नारी विशेषेण तु गर्भिणी
यस्तु तस्या भवेत्पुत्रः शीलायुर्वृद्धिसंयुतः अन्यथा गर्भपतनम् अवाप्नोति न संशयः
तस्मात्त्वमनया वृत्त्या गर्भे ऽस्मिन्यत्नमाचर स्वस्त्यस्तु ते गमिष्यामि तथेत्युक्तस्तया पुनः
पश्यतां सर्वभूतानां तत्रैवान्तरधीयत ततः सा कश्यपोक्तेन विधिना समतिष्ठत
अथ भीतस्तथेन्द्रो ऽपि दितेः पार्श्वमुपागमत् विहाय देवसदनं तच्छुश्रूषुरवस्थितः
दितेश्छिद्रान्तरप्रेप्सुर् अभवत्पाकशासनः विनीतो ऽभवद् अव्यग्रः प्रशान्तवदनो बहिः
अजानन्किल तत्कार्यम् आत्मनः शुभमाचरन् ततो वर्षशतान्ते सा न्यूने तु दिवसैस् त्रिभिः
मेने कृतार्थमात्मानं प्रीत्या विस्मितमानसा अकृत्वा पादयोः शौचं प्रसुप्ता मुक्तमूर्धजा
निद्राभरसमाक्रान्ता दिवापरशिराः क्वचित् ततस्तदन्तरं लब्ध्वा प्रविष्टस्तु शचीपतिः
वज्रेण सप्तधा चक्रे तं गर्भं त्रिदशाधिपः ततः सप्तैव ते जाताः कुमाराः सूर्यवर्चसः
रुदन्तः सप्त ते बाला निषिद्धा गिरिदारिणा भूयो ऽपि रुदतश्चैतान् एकैकं सप्तधा हरिः
चिछेद वृत्रहन्ता वै पुनस्तदुदरे स्थितः एवमेकोनपञ्चाशद् भूत्वा ते रुरुदुर्भृशम्
इन्द्रो निवारयामास मां रोदिष्ट पुनः पुनः ततः स चिन्तयामास किमेतदिति वृत्रहा
धर्मस्य कस्य माहात्म्यात् पुनः संजीवितास्त्वमी विदित्वा ध्यानयोगेन मदनद्वादशीफलम्