सप्तैव लोकानाप्नोति सप्तार्घान् यः प्रयच्छति यावदायुश्च यः कुर्यात् परं ब्रह्माधिगच्छति
इह पठति शृणोति वा य एतद् युगलमुनिप्रभवार्घ्यसम्प्रदानम् मतिमपि च ददाति सो ऽपि विष्णोर् भवनगतः परिपूज्यते ऽमरौघैः
सौभाग्यारोग्यफलदम् अमुत्राक्षय्यकारकम् भुक्तिमुक्तिप्रदं देव तन्मे ब्रूहि जनार्दन
यदुमायाः पुरा देव उवाच पुरसूदनः कैलासशिखरासीनो देव्या पृष्टस्तदा किल
कथासु सम्प्रवृत्तासु धर्म्यासु ललितासु च तदिदानीं प्रवक्ष्यामि भुक्तिमुक्तिफलप्रदम्
शृणुष्वावहिता देवि तथैवानन्तपुण्यकृत् नराणामथ नारीणाम् आराधनमनुत्तमम्
नभस्ये वाथ वैशाखे पुण्यमार्गशिरस्य च शुक्लपक्षे तृतीयायां सुस्नातो गौरसर्षपैः
गोरोचनं सगोमूत्रम् उष्णं गोशकृतं तथा दधिचन्दनसम्मिश्रं ललाटे तिलकं न्यसेत् सौभाग्यारोग्यदं यस्मात् सदा च ललिताप्रियम्
प्रतिपक्षं तृतीयासु पुमानापीतवाससी धारयेदथ रक्तानि नारी चेदथ संयता
विधवा धातुरक्तानि कुमारी शुक्लवाससी देवीं तु पञ्चगव्येन ततः क्षीरेण केवलम् स्नापयेन्मधुना तद्वत् पुष्पगन्धोदकेन च
पूजयेच्छुक्लपुष्पैश्च फलैर्नानाविधैरपि धान्यकाजाजिलवणैर् गुडक्षीरघृतान्वितैः
शुक्लाक्षततिलैरर्च्यां ततो देवीं सदार्चयेत् पादाद्यभ्यर्चनं कुर्यात् प्रतिपक्षं वरानने
वरदायै नमः पादौ तथा गुल्फौ नमः श्रियै अशोकायै नमो जङ्घे पार्वत्यै जानुनी तथा
ऊरू मङ्गलकारिण्यै वामदेव्यै तथा कटिम् पद्मोदरायै जठरम् उरः कामश्रियै नमः
करौ सौभाग्यदायिन्यै बाहू हरमुखश्रियै मुखं दर्पणवासिन्यै स्मरदायै स्मितं नमः
गौर्यै नमस्तथा नासाम् उत्पलायै च लोचने तुष्ट्यै ललाटमलकान् कात्यायन्यै शिरस्तथा
नमो गौर्यै नमो धिष्ण्यै नमः कान्त्यै नमः श्रियै रम्भायै ललितायै च वासुदेव्यै नमो नमः
एवं सम्पूज्य विधिवद् अग्रतः पद्ममालिखेत् पत्त्रैर्द्वादशभिर्युक्तं कुङ्कुमेन सकर्णिकम्
पूर्वेण विन्यसेद्गौरीम् अपर्णां च ततः परम् भवानीं दक्षिणे तद्वद् रुद्राणीं च ततः परम्
विन्यसेत्पश्चिमे सौम्यां सदा मदनवासिनीम् वायव्ये पाटलामुग्राम् अन्तरेण ततो ऽप्युमाम्
मध्ये यथास्वं मांसाङ्गां मङ्गलां कुमुदां सतीम् रुद्रं च मध्ये संस्थाप्य ललितां कर्णिकोपरि कुसुमैरक्षतैर्वार्भिर् नमस्कारेण विन्यसेत्
गीतमङ्गलनिर्घोषान् कारयित्वा सुवासिनीः पूजयेद्रक्तवासोभी रक्तमाल्यानुलेपनैः सिन्दूरं स्नानचूर्णं च तासां शिरसि पातयेत्
सिन्दूरकुङ्कुमस्नानम् अतीवेष्टतमं यतः तथोपदेष्टारमपि पूजयेद्यत्नतो गुरुम् न पूज्यते गुरुर्यत्र सर्वास्तत्राफलाः क्रियाः
नभस्ये पूजयेद्गौरीम् उत्पलैरसितैः सदा बन्धुजीवैराश्वयुजे कार्त्तिके शतपत्त्रकैः
जातीपुष्पैर्मार्गशीर्षे पौषे पीतैः कुरण्टकैः कुन्दकुङ्कुमपुष्पैस्तु देवीं माघे तु पूजयेत् सिन्दुवारेण जात्या वा फाल्गुने ऽप्यर्चयेदुमाम्
चैत्रे तु मल्लिकाशोकैर् वैशाखे गन्धपाटलैः ज्येष्ठे कमलमन्दारैर् आषाढे च नवाम्बुजैः कदम्बैरथ मालत्या श्रावणे पूजयेत्सदा
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् बिल्वपत्त्रार्कपुष्पं च यवान्गोशृङ्गवारि च
पञ्चगव्यं च बिल्वं च प्राशयेत्क्रमशस्तदा एतद्भाद्रपदाद्यं तु प्राशनं समुदाहृतम्
प्रतिपक्षं च मिथुनं तृतीयायां वरानने पूजयित्वार्चयेद्भक्त्या वस्त्रमाल्यानुलेपनैः
पुंसः पीताम्बरे दद्यात् स्त्रियै कौसुम्भवाससी निष्पावाजाजिलवणम् इक्षुदण्डगुडान्वितम् तस्यै दद्यात्फलं पुष्पं सुवर्णोत्पलसंयुतम्