अप्सरा इति सामान्या देवानामब्रवीद्धरिः उर्वशीति च नाम्नेयं लोके ख्यातिं गमिष्यति
ततः कामयमानेन मित्रेणाहूय सोर्वशी उक्ता मां रमयस्वेति बाढम् इत्यब्रवीत्तु सा
गच्छन्ती चाम्बरं तद्वत् स्तोकमिन्दीवरेक्षणा वरुणेन धृता पश्चाद् वरुणं नाभ्यनन्दत
मित्रेणाहं वृता पूर्वम् अद्य भार्या न ते विभो उवाच वरुणश्चित्तं मयि संन्यस्य गम्यताम्
गतायां बाढमित्युक्त्वा मित्रः शापमदात्तदा तस्यै मानुषलोके त्वं गच्छ सोमसुतात्मजम्
भजस्वेति यतो वेश्या धर्म एष त्वया कृतः जलकुम्भे ततो वीर्यं मित्रेण वरुणेन च प्रक्षिप्तमथ संजातौ द्वावेव मुनिसत्तमौ
निमिर्नाम सह स्त्रीभिः पुरा द्यूतमदीव्यत तत्रान्तरे ऽभ्याजगाम वसिष्ठो ब्रह्मसम्भवः
तस्य पूजामकुर्वन्तं शशाप स मुनिर्नृपम् विदेहस्त्वं भवस्वेति ततस्तेनाप्यसौ मुनिः
अन्योन्यशापाच्च तयोर् विगते इव चेतसी जग्मतुः शापनाशाय ब्रह्माणं जगतः पतिम्
अथ ब्रह्मण आदेशाल् लोचनेष्ववसन्निमिः निमेषाः स्युश्च लोकानां तद्विश्रामाय नारद
वसिष्ठो ऽप्यभवत्तस्मिञ् जलकुम्भे च पूर्ववत् ततः श्वेतश्चतुर्बाहुः साक्षसूत्रकमण्डलुः अगस्त्य इति शान्तात्मा बभूव ऋषिसत्तमः
मलयस्यैकदेशे तु वैखानसविधानतः सभार्यः संवृतो विप्रैस् तपश्चक्रे सुदुश्चरम्
ततः कालेन महता तारकाद् अतिपीडितम् जगद्वीक्ष्य स कोपेन पीतवान्वरुणालयम्
ततो ऽस्य वरदाः सर्वे बभूवुः शंकरादयः ब्रह्मा विष्णुश्च भगवान् वरदानाय जग्मतुः वरं वृणीष्व भद्रं ते यदभीष्टं च वै मुने
यावद्ब्रह्मसहस्राणां पञ्चविंशतिकोटयः वैमानिको भविष्यामि दक्षिणाचलवर्त्मनि
मद्विमानोदये कुर्याद् यः कश्चित्पूजनं मम स सप्तलोकाधिपतिः पर्यायेण भविष्यति
एवमस्त्विति ते ऽप्युक्त्वा जग्मुर्देवा यथागतम् तस्मादर्घः प्रदातव्यो ह्य् अगस्त्यस्य सदा बुधैः
कथमर्घप्रदानं तु कर्तव्यं तस्य वै विभो विधानं यदगस्त्यस्य पूजने तद्वदस्व मे
प्रत्यूषसमये विद्वान् कुर्यादस्योदये निशि स्नानं शुक्लतिलैस्तद्वच् छुक्लमाल्याम्बरो गृही
स्थापयेदव्रणं कुम्भं माल्यवस्त्रविभूषितम् पञ्चरत्नसमायुक्तं घृतपात्रसमन्वितम् नानाभक्ष्यफलैर्युक्तं ताम्रपात्रसमन्वितम्
अङ्गुष्ठमात्रं पुरुषं तथैव सौवर्णम् अत्यायतबाहुदण्डम् चतुर्मुखं कुम्भमुखे निधाय धान्यानि सप्ताम्बरसंयुतानि
सकांस्यपात्राक्षतशुक्तियुक्तं मन्त्रेण दद्याद्द्विजपुंगवाय उत्क्षिप्य लम्बोदरदीर्घबाहुम् अनन्यचेता यमदिङ्मुखः सन्
श्वेतां च दद्याद्यदि शक्तिरस्ति रौप्यैः खुरैर् हेममुखीं सवत्साम् धेनुं नरः क्षीरवतीं प्रणम्य सवत्सघण्टाभरणां द्विजाय
आ सप्तरात्रोदयम् एतदस्य दातव्यमेतत्सकलं नरेण यावत्समाः सप्त दशाथवा स्युर् अथोर्ध्वमप्यत्र वदन्ति केचित्
काशपुष्पप्रतीकाश वह्निमारुतसम्भव मित्रावरुणयोः पुत्र कुम्भयोने नमो ऽस्तु ते
विन्ध्यवृद्धिक्षयकर मेघतोयविषापह रत्नवल्लभ देवेश लङ्कावासिन्नमो ऽस्तु ते
वातापी भक्षितो येन समुद्रः शोषितः पुरा लोपामुद्रापतिः श्रीमान् यो ऽसौ तस्मै नमो नमः
राजपुत्रि महाभागे ऋषिपत्नि वरानने लोपामुद्रे नमस्तुभ्यम् अर्घो मे प्रतिगृह्यताम् प्रत्यब्दं तु फलत्यागम् एवं कुर्वन्न सीदति
होमं कृत्वा ततः पश्चाद् वर्जयेन्मानवः फलम् अनेन विधिना यस्तु पुमानर्घ्यं निवेदयेत्
इमं लोकं स चाप्नोति रूपारोग्यसमन्वितः द्वितीयेन भुवर्लोकं स्वर्गलोकं ततः परम्