ततः प्रभृति ते देवान् मनुष्यान्सह जङ्गमान् संपीड्य च मुनीन्सर्वान् प्रविशन्ति पुनर्जलम्
एवं वर्षसहस्राणि वीराः पञ्च च सप्त च जलदुर्गबलाद्ब्रह्मन् पीडयन्ति जगत्त्रयम्
ततः परमथो वह्निमारुतावमराधिपः आदिदेश चिरादम्बुनिधिरेष विशोष्यताम्
यस्मादस्मद्द्विषामेष शरणं वरुणालयः तस्माद्भवद्भ्यामद्यैव क्षयमेष प्रणीयताम्
तावूचतुस्ततः शक्रम् उभौ शम्बरसूदनम् अधर्म एष देवेन्द्र सागरस्य विनाशनम्
यस्माज्जीवनिकायस्य महतः संक्षयो भवेत् तस्मान्न पापमद्यावां करवाव पुरंदर
अस्य योजनमात्रे ऽपि जीवकोटिशतानि च निवसन्ति सुरश्रेष्ठ स कथं नाशमर्हति
एवमुक्तः सुरेन्द्रस्तु कोपात् संरक्तलोचनः उवाचेदं वचो रोषान् निर्दहन्निव पावकम्
न धर्माधर्मसंयोगं प्राप्नुवन्त्यमराः क्वचित् भवतोस्तु विशेषेण माहात्म्यं चाधितिष्ठतोः
मदाज्ञालङ्घनं यस्मान् मारुतेन समं त्वया मुनिव्रतमहिंसादि परिगृह्य त्वया कृतम् धर्मार्थशास्त्ररहितं शत्रुं प्रति विभावसो
तस्मादेकेन वपुषा मुनिरूपेण मानुषे मारुतेन समं लोके तव जन्म भविष्यति
यदा च मानुषत्वे ऽपि त्वयागस्त्येन शोषितः भविष्यत्युदधिर्वह्ने तदा देवत्वमाप्स्यसि
इतीन्द्रशापात्पतितौ तत्क्षणात्तौ महीतले अवाप्तावेकदेहेन कुम्भाज्जन्म तपोधन
मित्रावरुणयोर्वीर्याद् वसिष्ठस्यानुजो ऽभवत् अगस्त्य इत्युग्रतपाः संबभूव पुनर्मुनिः
सम्भूतः स कथं भ्राता वसिष्ठस्याभवन्मुनिः कथं च मित्रावरुणौ पितरावस्य तौ स्मृतौ जन्म कुम्भादगस्त्यस्य कथं स्यात्पुरसूदन
पुरा पुराणपुरुषः कदाचिद्गन्धमादने भूत्वा धर्मसुतो विष्णुश् चचार विपुलं तपः
तपसा तस्य भीतेन विघ्नार्थं प्रेषितावुभौ शक्रेण माधवानङ्गाव् अप्सरोगणसंयुतौ
यदा न गीतवाद्येन नाङ्गरागादिना हरिः न काममाधवाभ्यां च विषयान्प्रति चुक्षुभे
तदा काममधुस्त्रीणां विषादम् अगमद्गणः संक्षोभाय ततस्तेषां स्वोरुदेशान्नराग्रजः नारीमुत्पादयामास त्रैलोक्यजनमोहिनीम्
संक्षुब्धास्तु तया देवास् तौ तु देववरावुभौ अप्सरोभिः समक्षं हि देवानामब्रवीद्धरिः
अप्सरा इति सामान्या देवानामब्रवीद्धरिः उर्वशीति च नाम्नेयं लोके ख्यातिं गमिष्यति
ततः कामयमानेन मित्रेणाहूय सोर्वशी उक्ता मां रमयस्वेति बाढम् इत्यब्रवीत्तु सा
गच्छन्ती चाम्बरं तद्वत् स्तोकमिन्दीवरेक्षणा वरुणेन धृता पश्चाद् वरुणं नाभ्यनन्दत
मित्रेणाहं वृता पूर्वम् अद्य भार्या न ते विभो उवाच वरुणश्चित्तं मयि संन्यस्य गम्यताम्
गतायां बाढमित्युक्त्वा मित्रः शापमदात्तदा तस्यै मानुषलोके त्वं गच्छ सोमसुतात्मजम्
भजस्वेति यतो वेश्या धर्म एष त्वया कृतः जलकुम्भे ततो वीर्यं मित्रेण वरुणेन च प्रक्षिप्तमथ संजातौ द्वावेव मुनिसत्तमौ
निमिर्नाम सह स्त्रीभिः पुरा द्यूतमदीव्यत तत्रान्तरे ऽभ्याजगाम वसिष्ठो ब्रह्मसम्भवः
तस्य पूजामकुर्वन्तं शशाप स मुनिर्नृपम् विदेहस्त्वं भवस्वेति ततस्तेनाप्यसौ मुनिः
अन्योन्यशापाच्च तयोर् विगते इव चेतसी जग्मतुः शापनाशाय ब्रह्माणं जगतः पतिम्
अथ ब्रह्मण आदेशाल् लोचनेष्ववसन्निमिः निमेषाः स्युश्च लोकानां तद्विश्रामाय नारद