य इच्छन्कीर्तिमाप्नोति प्रतिमासं नराधिप सौभाग्यारोग्यरूपायुर् वस्त्रालंकारभूषणैः न वियुक्तो भवेद्राजन् नवार्बुदशतत्रयम्
यस्तु द्वादश वर्षाणि सौभाग्यशयनव्रतम् करोति सप्त चाष्टौ वा श्रीकण्ठभवने ऽमरैः पूज्यमानो वसेत्सम्यग् यावत्कल्पायुतत्रयम्
नारी वा कुरुते वापि कुमारी वा नरेश्वर सापि तत्फलमाप्नोति देव्यनुग्रहलालिता
शृणुयादपि यश्चैव प्रदद्यादथवा मतिम् सो ऽपि विद्याधरो भूत्वा स्वर्गलोके चिरं वसेत्
इदमिह मदनेन पूर्वमिष्टं शतधनुषा कृतवीर्यसूनुना च कृतमथ वरुणेन नन्दिना वा किम् उ जननाथ ततो यदुद्भवः स्यात्
भूर्लोको ऽथ भुवर्लोकः स्वर्लोको ऽथ महर्जनः तपः सत्यं च सप्तैते देवलोकाः प्रकीर्तिताः
पर्यायेण तु सर्वेषाम् आधिपत्यं कथं भवेत् इह लोके शुभं रूपम् आयुः सौभाग्यमेव च लक्ष्मीश्च विपुला नाथ कथं स्यात्पुरसूदन
पुरा हुताशनः सार्धं मारुतेन महीतले आदिष्टः पुरुहूतेन विनाशाय सुरद्विषाम्
निर्दग्धेषु ततस्तेन दानवेषु सहस्रशः तारकः कमलाक्षश्च कालदंष्ट्रः परावसुः विरोचनश्च संग्रामाद् अपलायंस्तपोधन
अम्भः सामुद्रमाविश्य संनिवेशमकुर्वत अशक्या इति ते ऽप्यग्निमारुताभ्यामुपेक्षिताः
ततः प्रभृति ते देवान् मनुष्यान्सह जङ्गमान् संपीड्य च मुनीन्सर्वान् प्रविशन्ति पुनर्जलम्
एवं वर्षसहस्राणि वीराः पञ्च च सप्त च जलदुर्गबलाद्ब्रह्मन् पीडयन्ति जगत्त्रयम्
ततः परमथो वह्निमारुतावमराधिपः आदिदेश चिरादम्बुनिधिरेष विशोष्यताम्
यस्मादस्मद्द्विषामेष शरणं वरुणालयः तस्माद्भवद्भ्यामद्यैव क्षयमेष प्रणीयताम्
तावूचतुस्ततः शक्रम् उभौ शम्बरसूदनम् अधर्म एष देवेन्द्र सागरस्य विनाशनम्
यस्माज्जीवनिकायस्य महतः संक्षयो भवेत् तस्मान्न पापमद्यावां करवाव पुरंदर
अस्य योजनमात्रे ऽपि जीवकोटिशतानि च निवसन्ति सुरश्रेष्ठ स कथं नाशमर्हति
एवमुक्तः सुरेन्द्रस्तु कोपात् संरक्तलोचनः उवाचेदं वचो रोषान् निर्दहन्निव पावकम्
न धर्माधर्मसंयोगं प्राप्नुवन्त्यमराः क्वचित् भवतोस्तु विशेषेण माहात्म्यं चाधितिष्ठतोः
मदाज्ञालङ्घनं यस्मान् मारुतेन समं त्वया मुनिव्रतमहिंसादि परिगृह्य त्वया कृतम् धर्मार्थशास्त्ररहितं शत्रुं प्रति विभावसो
तस्मादेकेन वपुषा मुनिरूपेण मानुषे मारुतेन समं लोके तव जन्म भविष्यति
यदा च मानुषत्वे ऽपि त्वयागस्त्येन शोषितः भविष्यत्युदधिर्वह्ने तदा देवत्वमाप्स्यसि
इतीन्द्रशापात्पतितौ तत्क्षणात्तौ महीतले अवाप्तावेकदेहेन कुम्भाज्जन्म तपोधन
मित्रावरुणयोर्वीर्याद् वसिष्ठस्यानुजो ऽभवत् अगस्त्य इत्युग्रतपाः संबभूव पुनर्मुनिः
सम्भूतः स कथं भ्राता वसिष्ठस्याभवन्मुनिः कथं च मित्रावरुणौ पितरावस्य तौ स्मृतौ जन्म कुम्भादगस्त्यस्य कथं स्यात्पुरसूदन
पुरा पुराणपुरुषः कदाचिद्गन्धमादने भूत्वा धर्मसुतो विष्णुश् चचार विपुलं तपः
तपसा तस्य भीतेन विघ्नार्थं प्रेषितावुभौ शक्रेण माधवानङ्गाव् अप्सरोगणसंयुतौ
यदा न गीतवाद्येन नाङ्गरागादिना हरिः न काममाधवाभ्यां च विषयान्प्रति चुक्षुभे
तदा काममधुस्त्रीणां विषादम् अगमद्गणः संक्षोभाय ततस्तेषां स्वोरुदेशान्नराग्रजः नारीमुत्पादयामास त्रैलोक्यजनमोहिनीम्
संक्षुब्धास्तु तया देवास् तौ तु देववरावुभौ अप्सरोभिः समक्षं हि देवानामब्रवीद्धरिः