तस्मिन्नहनि सा देवी किल विश्वात्मना सती पाणिग्रहणकैर् मन्त्रैर् उदूढा वरवर्णिनी
तया सहैव देवेशं तृतीयायाम् अथार्चयेत् फलैर्नानाविधैर्धूपैर् दीपनैवेद्यसंयुतैः
प्रतिमां पञ्चगव्येन तथा गन्धोदकेन तु स्नापयित्वार्चयेद् गौरीम् इन्दुशेखरसंयुताम्
नमो ऽस्तु पाटलायै तु पादौ देव्याः शिवस्य तु शिवायेति च संकीर्य जयायै गुल्फयोर् द्वयोः
त्रिगुणायेति रुद्राय भवान्यै जङ्घयोर्युगम् शिवां रुद्रेश्वरायै च विजयायेति जानुनी संकीर्त्य हरिकेशाय तथोरू वरदे नमः
ईशायै च कीटं देव्याः शंकरायेति शंकरम् कुक्षिद्वयं च कोटव्यै शूलिने शूलपाणये
मङ्गलायै नमस्तुभ्यम् उदरं चाभिपूजयेत् सर्वात्मने नमो रुद्रम् ईशान्यै च कुचद्वयम्
शिवं वेदात्मने तद्वद् रुद्राण्यै कण्ठमर्चयेत् त्रिपुरघ्नाय विश्वेशम् अनन्तायै करद्वयम्
त्रिलोचनाय च हरं बाहू कालानलप्रिये सौभाग्यभवनायेति भूषणानि सदार्चयेत् स्वाहास्वधायै च मुखम् ईश्वरायेति शूलिनम्
अशोकमधुवासिन्यै पूज्यावोष्ठौ च भूतिदौ स्थाणवे तु हरं तद्वद् धास्यं चन्द्रमुखप्रिये
नमो ऽर्धनारीशहरम् असिताङ्गीति नासिकाम् नम उग्राय लोकेशं ललितेति पुनर्भ्रुवौ
शर्वाय पुरहन्तारं वासव्यै तु तथालकान् नमः श्रीकण्ठनाथायै शिवकेशांस्ततो ऽर्चयेत् भीमोग्रसमरूपिण्यै शिरः सर्वात्मने नमः
शिवमभ्यर्च्य विधिवत् सौभाग्याष्टकमग्रतः स्थापयेद्धृतनिष्पावकुसुम्भक्षीरजीरकम्
रसराजं च लवणं कुस्तुम्बुरु तथाष्टकम् दत्तं सौभाग्यमित्यस्मात् सौभाग्याष्टकमित्यतः
एवं निवेद्य तत्सर्वम् अग्रतः शिवयोः पुनः रात्रौ शृङ्गोदकं प्राश्य तद्वद्भूमावरिंदम
पुनः प्रभाते तु तथा कृतस्नानजपः शुचिः संपूज्य द्विजदाम्पत्यं वस्त्रमाल्यविभूषणैः
सौभाग्याष्टकसंयुक्तं सुवर्णचरणद्वयम् प्रीयतामत्र ललिता ब्राह्मणाय निवेदयेत्
एवं संवत्सरं यावत् तृतीयायां सदा मनो कर्तव्यं विधिवद्भक्त्या सर्वसौभाग्यमीप्सुभिः
प्राशने दानमन्त्रे च विशेषो ऽयं निबोध मे शृङ्गोदकं चैत्रमासे वैशाखे गोमयं पुनः
ज्येष्ठे मन्दारकुसुमं बिल्वपत्त्रं शुचौ स्मृतम् श्रावणे दधि संप्राश्यं नभस्ये च कुशोदकम्
क्षीरमाश्वयुजे मासि कार्त्तिके पृषदाज्यकम् मार्गे मासे तु गोमूत्रं पौषे संप्राशयेद्घृतम्
माघे कृष्णतिलांस्तद्वत् पञ्चगव्यं च फाल्गुने ललिता विजया भद्रा भवानी कुमुदा शिवा
वासुदेवी तथा गौरी मङ्गला कमला सती उमा च दानकाले तु प्रीयतामिति कीर्तयेत्
मल्लिकाशोककमलं कदम्बोत्पलमालतीः कुब्जकं करवीरं च बाणमम्लानकुङ्कुमम्
सिन्धुवारं च सर्वेषु मासेषु क्रमशः स्मृतम् जपाकुसुम्भकुसुमं मालती शतपत्त्रिका
यथालाभं प्रशस्तानि करवीरं च सर्वदा एवं संवत्सरं यावद् उपोष्य विधिवन्नरः
स्त्री भक्ता वा कुमारी वा शिवमभ्यर्च्य भक्तितः व्रतान्ते शयनं दद्यात् सर्वोपस्करसंयुतम्
उमामहेश्वरं हैमं वृषभं च गवा सह स्थापयित्वाथ शयने ब्राह्मणाय निवेदयेत्
अन्यान्यपि यथाशक्ति मिथुनान्यम्बरादिभिः धान्यालंकारगोदानैर् अभ्यर्चेद्धनसंचयैः वित्तशाठ्येन रहितः पूजयेद्गतविस्मयः
एवं करोति यः सम्यक् सौभाग्यशयनव्रतम् सर्वान्कामानवाप्नोति पदमत्यन्तमश्नुते फलस्यैकस्य त्यागेन व्रतमेतत्समाचरेत्