सर्वौषध्युदकैः सिक्तान् पिष्टातकविभूषितान् वृक्षान्माल्यैरलंकृत्य वासोभिरभिवेष्टयेत्
सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनम् अञ्जनं चापि दातव्यं तद्वद्धेमशलाकया
फलानि सप्त चाष्टौ वा कालधौतानि कारयेत् प्रत्येकं सर्ववृक्षाणां वेद्यां तान्यधिवासयेत्
धूपो ऽत्र गुग्गुलः श्रेष्ठस् ताम्रपात्रैरधिष्ठितान् सप्तधान्यस्थितान्कृत्वा वस्त्रगन्धानुलेपनैः
कुम्भान्सर्वेषु वृक्षेषु स्थापयित्वा नरेश्वर सहिरण्यानशेषांस्तान् कृत्वा बलिनिवेदनम्
यथास्वं लोकपालानाम् इन्द्रादीनां विशेषतः वनस्पतेश्च विद्वद्भिर् होमः कार्यो द्विजातिभिः
ततः शुक्लाम्बरधरां सौवर्णकृतभूषणाम् सकांस्यदोहां सौवर्णशृङ्गाभ्याम् अतिशालिनीम् पयस्विनीं वृक्षमध्याद् उत्सृजेद्गामुदङ्मुखीम्
ततो ऽभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः ऋग्यजुःसाममन्त्रैश्च वारुणैरभितस्तथा तैरेव कुम्भैः स्नपनं कुर्याद्ब्राह्मणपुंगवः
स्नातः शुक्लाम्बरस्तद्वद् यजमानो ऽभिपूजयेत् गोभिर् विभवतः सर्वान् ऋत्विजस्तान्समाहितः
हेमसूत्रैः सकटकैर् अङ्गुलीयपवित्रकैः वासोभिः शयनीयैश्च तथोपस्करपादुकैः क्षीरेण भोजनं दद्याद् यावद्दिनचतुष्टयम्
होमश्च सर्षपैः कार्यो यवैः कृष्णतिलैस्तथा पलाशसमिधः शस्ताश् चतुर्थे ऽह्नि तथोत्सवः दक्षिणा च पुनस्तद्वद् देया तत्रापि शक्तितः
यद्यदिष्टतमं किंचित् तत्तद् दद्यादमत्सरी आचार्ये द्विगुणं दद्यात् प्रणिपत्य विसर्जयेत्
अनेन विधिना यस्तु कुर्याद्वृक्षोत्सवं बुधः सर्वान्कामानवाप्नोति फलं चानन्त्यमश्नुते
यश्चैकमपि राजेन्द्र वृक्षं संस्थापयेन्नरः सो ऽपि स्वर्गे वसेद्राजन् यावदिन्द्रायुतत्रयम्
भूतान्भव्यांश्च मनुजांस् तारयेद्द्रुमसंमितान् परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम्
य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः सो ऽपि सम्पूजितो देवैर् ब्रह्मलोके महीयते
तथैवान्यत्प्रवक्ष्यामि सर्वकामफलप्रदम् सौभाग्यशयनं नाम यत्पुराणविदो विदुः
पुरा दग्धेषु लोकेषु भूर्भुवःस्वर्महादिषु सौभाग्यं सर्वभूतानाम् एकस्थमभवत्तदा वैकुण्ठं स्वर्गमासाद्य विष्णोर् वक्षःस्थलस्थितम्
ततः कालेन महता पुनः सर्गविधौ नृप अहंकारावृते लोके प्रधानपुरुषान्विते
स्पर्धायां च प्रवृत्तायां कमलासनकृष्णयोः लिङ्गाकारा समुद्भूता वह्नेर्ज्वालातिभीषणा तयाभितप्तस्य हरेर् वक्षसस्तद्विनिःसृतम्
वक्षःस्थलं समाश्रित्य विष्णोः सौभाग्यमास्थितम् रसरूपं ततो यावत् प्राप्नोति वसुधातलम्
उत्क्षिप्तमन्तरिक्षे तद् ब्रह्मपुत्रेण धीमता दक्षेण पीतमात्रं तद् रूपलावण्यकारकम्
बलं तेजो महज्जातं दक्षस्य परमेष्ठिनः शेषं यदपतद्भूमाव् अष्टधा समजायत
ततो जनानां संजाताः सप्त सौभाग्यदायिकाः इक्षवो रसराजाश्च निष्पावाजाजिधान्यकम्
विकारवच्च गोक्षीरं कुसुम्भं कुङ्कुमं तथा लवणं चाष्टमं तद्वत् सौभाग्याष्टकमुच्यते
पीतं यद्ब्रह्मपुत्रेण योगज्ञानविदा पुनः दुहिता साभवत्तस्य या सतीत्यभिधीयते
लोकानतीत्य लालित्याल् ललिता तेन चोच्यते त्रैलोक्यसुन्दरीम् एनाम् उपयेमे पिनाकधृक्
या देवी सौभाग्यमयी भुक्तिमुक्तिफलप्रदा तामाराध्य पुमान्भक्त्या नारी वा किं न विन्दति
कथमाराधनं तस्या जगद्धात्र्या जनार्दन तद्विधानं जगन्नाथ तत्सर्वं च वदस्व मे
वसन्तमासमासाद्य तृतीयायां जनप्रिय शुक्लपक्षस्य पूर्वाह्णे तिलैः स्नानं समाचरेत्