ततः प्रभाते विमले संजाते ऽथ शतं गवाम् ब्राह्मणेभ्यः प्रदातव्यम् अष्टषष्टिश्च वा पुनः पञ्चाशद्वाथ षट्त्रिंशत् पञ्चविंशतिरप्यथ
ततः सांवत्सरप्रोक्ते शुभे लग्ने सुशोभने वेदशब्दैश्च गान्धर्वैर् वाद्यैश्च विविधैः पुनः
कनकालंकृतां कृत्वा जले गामवतारयेत् सामगाय च सा देया ब्राह्मणाय विशां पते
पात्रीमादाय सौवर्णीं पञ्चरत्नसमन्विताम् ततो निक्षिप्य मकरमत्स्यादींश्चैव सर्वशः धृतां चतुर्विधैर् विप्रैर् वेदवेदाङ्गपारगैः
महानदीजलोपेतां दध्यक्षतसमन्विताम् उत्तराभिमुखीं धेनुं जलमध्ये तु कारयेत्
अथर्वणेन संस्नातां पुनर्मामेत्यथेति च आपो हि ष्ठेति मन्त्रेण क्षिप्त्वागत्य च मण्डपम्
पूजयित्वा सरस्तत्र बलिं दद्यात्समन्ततः पुनर्दिनानि होतव्यं चत्वारि मुनिसत्तमाः
चतुर्थीकर्म कर्तव्यं देया तत्रापि शक्तितः दक्षिणा राजशार्दूल वरुणक्ष्मापणं ततः
कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च ऋत्विग्भ्यस्तु समं दत्त्वा मण्डपं विभजेत्पुनः हेमपात्रीं च शय्यां च स्थापकाय निवेदयेत्
ततः सहस्रं विप्राणाम् अथवाष्टशतं तथा भोजनीयं यथाशक्ति पञ्चाशद्वाथ विंशतिः एवमेष पुराणेषु तडागविधिरुच्यते
कूपवापीषु सर्वासु तथा पुष्करिणीषु च एष एव विधिर्दृष्टः प्रतिष्ठासु तथैव च
मन्त्रतस्तु विशेषः स्यात् प्रासादाद्यानभूमिषु अयं त्वशक्तावर्धेन विधिर्दृष्टः स्वयम्भुवा अल्पेष्वेकाग्निवत्कृत्वा वित्तशाठ्यादृते नृणाम्
प्रावृट्काले स्थिते तोये ह्य् अग्निष्टोमफलं स्मृतम् शरत्काले स्थितं यत्स्यात् तदुक्तफलदायकम् वाजपेयातिरात्राभ्यां हेमन्ते शिशिरे स्थितम्
अश्वमेधसमं प्राहुर् वसन्तसमये स्थितम् ग्रीष्मे ऽपि तत्स्थितं तोयं राजसूयाद्विशिष्यते
एतान्महाराज विशेषधर्मान् करोति यो ऽप्यागमशुद्धबुद्धिः स याति रुद्रालयमाशु पूतः कल्पाननेकान्दिवि मोदते च
अनेकलोकान्स महत्तमादीन् भुक्त्वा परार्धद्वयमङ्गनाभिः सहैव विष्णोः परमं पदं यत् प्राप्नोति तद्यागफलेन भूयः
पादपानां विधिं सूत यथावद्विस्तराद्वद विधिना केन कर्तव्यं पादपोद्यापनं बुधैः
ये च लोकाः स्मृतास्तेषां तानिदानीं वदस्व नः यत्फलं लभते प्रेत्य तत्सर्वं वक्तुमर्हसि
पादपानां विधिं वक्ष्ये तथैवोद्यानभूमिषु तडागविधिवत्सर्वम् आसाद्य जगदीश्वर
ऋत्विङ्मण्डपसम्भारश् चाचार्यश्चैव तद्विधः पूजयेद्ब्राह्मणांस्तद्वद् धेमवस्त्रानुलेपनैः
सर्वौषध्युदकैः सिक्तान् पिष्टातकविभूषितान् वृक्षान्माल्यैरलंकृत्य वासोभिरभिवेष्टयेत्
सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनम् अञ्जनं चापि दातव्यं तद्वद्धेमशलाकया
फलानि सप्त चाष्टौ वा कालधौतानि कारयेत् प्रत्येकं सर्ववृक्षाणां वेद्यां तान्यधिवासयेत्
धूपो ऽत्र गुग्गुलः श्रेष्ठस् ताम्रपात्रैरधिष्ठितान् सप्तधान्यस्थितान्कृत्वा वस्त्रगन्धानुलेपनैः
कुम्भान्सर्वेषु वृक्षेषु स्थापयित्वा नरेश्वर सहिरण्यानशेषांस्तान् कृत्वा बलिनिवेदनम्
यथास्वं लोकपालानाम् इन्द्रादीनां विशेषतः वनस्पतेश्च विद्वद्भिर् होमः कार्यो द्विजातिभिः
ततः शुक्लाम्बरधरां सौवर्णकृतभूषणाम् सकांस्यदोहां सौवर्णशृङ्गाभ्याम् अतिशालिनीम् पयस्विनीं वृक्षमध्याद् उत्सृजेद्गामुदङ्मुखीम्
ततो ऽभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः ऋग्यजुःसाममन्त्रैश्च वारुणैरभितस्तथा तैरेव कुम्भैः स्नपनं कुर्याद्ब्राह्मणपुंगवः
स्नातः शुक्लाम्बरस्तद्वद् यजमानो ऽभिपूजयेत् गोभिर् विभवतः सर्वान् ऋत्विजस्तान्समाहितः
हेमसूत्रैः सकटकैर् अङ्गुलीयपवित्रकैः वासोभिः शयनीयैश्च तथोपस्करपादुकैः क्षीरेण भोजनं दद्याद् यावद्दिनचतुष्टयम्