ततो मङ्गलशब्देन भेरीणां निःस्वनेन च अञ्जसा मण्डलं कुर्यात् पञ्चवर्णेन तत्त्ववित्
षोडशारं ततश्चक्रं पद्मगर्भं चतुर्मुखम् चतुरस्रं च परितो वृत्तं मध्ये सुशोभनम्
वेद्याश्चोपरि तत्कृत्वा ग्रहांल्लोकपतींस्ततः विन्यसेन्मन्त्रतः सर्वान् प्रतिदिक्षु विचक्षणः
कूर्मादि स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितः ब्रह्माणं च शिवं विष्णुं तत्रैव स्थापयेद्बुधः
विनायकं च विन्यस्य कमलामम्बिकां तथा शान्त्यर्थं सर्वलोकानां भूतग्रामं न्यसेत्ततः
पुष्पभक्ष्यफलैर्युक्तम् एवं कृत्वाधिवासनम् कुम्भान् सजलगर्भांस्तान् वासोभिः परिवेष्टयेत्
पुष्पगन्धैरलंकृत्य द्वारपालान्समन्ततः पठध्वमिति तान्ब्रूयाद् आचार्यस्त्वभिपूजयेत्
बह्वृचौ पूर्वतः स्थाप्यौ दक्षिणेन यजुर्विदौ सामगौ पश्चिमे तद्वद् उत्तरेण त्वथर्वणौ
उदङ्मुखो दक्षिणतो यजमान उपाविशेत् यजध्वमिति तान्ब्रूयाद् धौत्रिकान्पुनरेव तु
उत्कृष्टान्मन्त्रजापेन तिष्ठध्वमिति जापकान् एवमादिश्य तान्सर्वान् पर्युक्ष्याग्निं स मन्त्रवित्
जुहुयाद्वारुणैर्मन्त्रैर् आज्यं च समिधस्तथा ऋत्विग्भिश्चाथ होतव्यं वारुणैरेव सर्वतः
ग्रहेभ्यो विधिवद्धुत्वा तथेन्द्रायेश्वराय च मरुद्भ्यो लोकपालेभ्यो विधिवद्विश्वकर्मणे
रात्रिसूक्तं च रौद्रं च पावमानं सुमङ्गलम् जपेयुः पौरुषं सूक्तं पूर्वतो बह्वृचः पृथक्
शाक्रं रौद्रं च सौम्यं च कूष्माण्डं जातवेदसम् सौरसूक्तं जपेन्मन्त्रं दक्षिणेन यजुर्विदः
वैराज्यं पौरुषं सूक्तं सौवर्णं रुद्रसंहिताम् शैशवं पञ्चनिधनं गायत्रं ज्येष्ठसाम च
वामदेव्यं बृहत्साम रौरवं सरथंतरम् गवां व्रतं च काण्वं च रक्षोघ्नं वयसस्तथा गायेयुः सामगा राजन् पश्चिमं द्वारमाश्रिताः
अथर्वणश्चोत्तरतः शान्तिकं पौष्टिकं तथा जपेयुर्मनसा देवम् आश्रित्य वरुणं प्रभुम्
पूर्वेद्युरमितो रात्राव् एवं कृत्वाधिवासनम् गजाश्वरथ्यावल्मीकात् संगमाद्ध्रदगोकुलात् मृदमादाय कुम्भेषु प्रक्षिपेच्चत्वरात्तथा
रोचनां च ससिद्धार्थां गन्धं गुग्गुलमेव च स्नपनं तस्य कर्तव्यं पञ्चगव्यसमन्वितम्
प्रत्येकं तु महामन्त्रैर् एव कृत्वा विधानतः एवं क्षपातिवाह्याथ विधियुक्तेन कर्मणा
ततः प्रभाते विमले संजाते ऽथ शतं गवाम् ब्राह्मणेभ्यः प्रदातव्यम् अष्टषष्टिश्च वा पुनः पञ्चाशद्वाथ षट्त्रिंशत् पञ्चविंशतिरप्यथ
ततः सांवत्सरप्रोक्ते शुभे लग्ने सुशोभने वेदशब्दैश्च गान्धर्वैर् वाद्यैश्च विविधैः पुनः
कनकालंकृतां कृत्वा जले गामवतारयेत् सामगाय च सा देया ब्राह्मणाय विशां पते
पात्रीमादाय सौवर्णीं पञ्चरत्नसमन्विताम् ततो निक्षिप्य मकरमत्स्यादींश्चैव सर्वशः धृतां चतुर्विधैर् विप्रैर् वेदवेदाङ्गपारगैः
महानदीजलोपेतां दध्यक्षतसमन्विताम् उत्तराभिमुखीं धेनुं जलमध्ये तु कारयेत्
अथर्वणेन संस्नातां पुनर्मामेत्यथेति च आपो हि ष्ठेति मन्त्रेण क्षिप्त्वागत्य च मण्डपम्
पूजयित्वा सरस्तत्र बलिं दद्यात्समन्ततः पुनर्दिनानि होतव्यं चत्वारि मुनिसत्तमाः
चतुर्थीकर्म कर्तव्यं देया तत्रापि शक्तितः दक्षिणा राजशार्दूल वरुणक्ष्मापणं ततः
कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च ऋत्विग्भ्यस्तु समं दत्त्वा मण्डपं विभजेत्पुनः हेमपात्रीं च शय्यां च स्थापकाय निवेदयेत्
ततः सहस्रं विप्राणाम् अथवाष्टशतं तथा भोजनीयं यथाशक्ति पञ्चाशद्वाथ विंशतिः एवमेष पुराणेषु तडागविधिरुच्यते