जलाशयगतं विष्णुम् उवाच रविनन्दनः तडागारामकूपानां वापीषु नलिनीषु च
विधिं पृच्छामि देवेशे देवतायतनेषु च के तत्र चर्त्विजो नाथ वेदी वा कीदृशी भवेत्
दक्षिणावलयः कालः स्थानमाचार्य एव च द्रव्याणि कानि शस्तानि सर्वमाचक्ष्व तत्त्वतः
शृणु राजन्महाबाहो तडागादिषु यो विधिः पुराणेष्वितिहासो ऽयं पठ्यते वेदवादिभिः
प्राप्य पक्षं शुभं शुक्लम् अतीते चोत्तरायणे पुण्ये ऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम्
प्रागुदक्प्रवणे देशे तडागस्य समीपतः चतुर्हस्तां शुभां वेदीं चतुरस्रां चतुर्मुखाम्
तथा षोडशहस्तः स्यान् मण्डपश्च चतुर्मुखः वेद्याश्च परितो गर्ता रत्निमात्रास्त्रिमेखलाः
नव सप्ताथ वा पञ्च नातिरिक्ता नृपात्मज वितस्तिमात्रा योनिः स्यात् षट्सप्ताङ्गुलिविस्तृता
गर्ताश्च तत्र सप्त स्युस् त्रिपर्वोच्छ्रितमेखलाः सर्वतस्तु सवर्णाः स्युः पताकाध्वजसंयुताः
अश्वत्थोदुम्बरप्लक्षवटशाखाकृतानि तु मण्डपस्य प्रतिदिशं द्वाराण्येतानि कारयेत्
शुभास्तत्राष्ट होतारो द्वारपालास्तथाष्ट वै अष्टौ तु जापकाः कार्या ब्राह्मणा वेदपारगाः
सर्वलक्षणसम्पूर्णो मन्त्रविद्विजितेन्द्रियः कुलशीलसमायुक्तः पुरोधाः स्याद्द्विजोत्तमः
प्रतिगर्तेषु कलशी यज्ञोपकरणानि च व्यजनं चामरे शुभ्रे ताम्रपात्रे सुविस्तृते
ततस्त्वनेकवर्णाः स्युश् चरवः प्रतिदैवतम् आचार्यः प्रक्षिपेद्भूमाव् अनुमन्त्र्य विचक्षणः
त्र्यरत्निमात्रो यूपः स्यात् क्षारवृक्षविनिर्मितः यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता
हेमालंकारिणः कार्याः पञ्चविंशतिऋत्विजः कुण्डलानि च हैमानि केयूरकटकानि च
तथाङ्गुल्यः पवित्राणि वासांसि विविधानि च पूजयेत्तु समं सर्वान् आचार्यो द्विगुणं पुनः दद्याच्छयनसंयुक्तम् आत्मनश्चापि यत्प्रियम्
सौवर्णकूर्ममकरौ राजतौ मत्स्यदुन्दुभौ ताम्रौ कुलीरमण्डूकाव् आयसः शिशुमारकः एवमासाद्य तत्सर्वम् आदावेव विशां पते
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः सर्वौषध्युदकैस्तत्र स्नापितो वेदपारगैः
यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः पश्चिमं द्वारमासाद्य प्रविशेद्यागमण्डपम्
ततो मङ्गलशब्देन भेरीणां निःस्वनेन च अञ्जसा मण्डलं कुर्यात् पञ्चवर्णेन तत्त्ववित्
षोडशारं ततश्चक्रं पद्मगर्भं चतुर्मुखम् चतुरस्रं च परितो वृत्तं मध्ये सुशोभनम्
वेद्याश्चोपरि तत्कृत्वा ग्रहांल्लोकपतींस्ततः विन्यसेन्मन्त्रतः सर्वान् प्रतिदिक्षु विचक्षणः
कूर्मादि स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितः ब्रह्माणं च शिवं विष्णुं तत्रैव स्थापयेद्बुधः
विनायकं च विन्यस्य कमलामम्बिकां तथा शान्त्यर्थं सर्वलोकानां भूतग्रामं न्यसेत्ततः
पुष्पभक्ष्यफलैर्युक्तम् एवं कृत्वाधिवासनम् कुम्भान् सजलगर्भांस्तान् वासोभिः परिवेष्टयेत्
पुष्पगन्धैरलंकृत्य द्वारपालान्समन्ततः पठध्वमिति तान्ब्रूयाद् आचार्यस्त्वभिपूजयेत्
बह्वृचौ पूर्वतः स्थाप्यौ दक्षिणेन यजुर्विदौ सामगौ पश्चिमे तद्वद् उत्तरेण त्वथर्वणौ
उदङ्मुखो दक्षिणतो यजमान उपाविशेत् यजध्वमिति तान्ब्रूयाद् धौत्रिकान्पुनरेव तु
उत्कृष्टान्मन्त्रजापेन तिष्ठध्वमिति जापकान् एवमादिश्य तान्सर्वान् पर्युक्ष्याग्निं स मन्त्रवित्