रोहिणीचन्द्रमिथुनं कारयित्वाथ काञ्चनम् चन्द्रः षडङ्गुलः कार्यो रोहिणी चतुरङ्गुला
मुक्ताफलाष्टकयुतं सितनेत्रपटावृतम् क्षीरकुम्भोपरि पुनः कांस्यपात्राक्षतान्वितम् दद्यान्मन्त्रेण पूर्वाह्णे शालीक्षुफलसंयुतम्
श्वेतामथ सुवर्णास्यां खुरै रौप्यैः समन्विताम् सवस्त्रभाजनां धेनुं तथा शङ्खं च शोभनम्
भूषणैर्द्विजदाम्पत्यम् अलंकृत्य गुणान्वितम् चन्द्रो ऽयं द्विजरूपेण सभार्य इति कल्पयेत्
यथा न रोहिणी कृष्ण शय्यां संत्यज्य गच्छति सोमरूपस्य ते तद्वन् ममाभेदो ऽस्तु भूतिभिः
यथा त्वमेव सर्वेषां परमानन्दमुक्तिदः भुक्तिर्मुक्तिस्तथा भक्तिस् त्वयि चन्द्रास्तु मे सदा
इति संसारभीतस्य मुक्तिकामस्य चानघ रूपारोग्यायुषामेतद् विधायकमनुत्तमम्
इदमेव पितॄणां च सर्वदा वल्लभं मुने त्रैलोक्याधिपतिर्भूत्वा सप्तकल्पशतत्रयम् चन्द्रलोकमवाप्नोति विद्युद्भूत्वा तु मुच्यते
नारी वा रोहिणी चन्द्रशयनं या समाचरेत् सापि तत्फलमाप्नोति पुनरावृत्तिदुर्लभम्
इति पठति शृणोति वा य इत्थं मधुमथनार्चनम् इन्दुकीर्तनेन मतिमपि च ददाति सो ऽपि शौरेर् भवनगतः परिपूज्यते ऽमरौघैः
जलाशयगतं विष्णुम् उवाच रविनन्दनः तडागारामकूपानां वापीषु नलिनीषु च
विधिं पृच्छामि देवेशे देवतायतनेषु च के तत्र चर्त्विजो नाथ वेदी वा कीदृशी भवेत्
दक्षिणावलयः कालः स्थानमाचार्य एव च द्रव्याणि कानि शस्तानि सर्वमाचक्ष्व तत्त्वतः
शृणु राजन्महाबाहो तडागादिषु यो विधिः पुराणेष्वितिहासो ऽयं पठ्यते वेदवादिभिः
प्राप्य पक्षं शुभं शुक्लम् अतीते चोत्तरायणे पुण्ये ऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम्
प्रागुदक्प्रवणे देशे तडागस्य समीपतः चतुर्हस्तां शुभां वेदीं चतुरस्रां चतुर्मुखाम्
तथा षोडशहस्तः स्यान् मण्डपश्च चतुर्मुखः वेद्याश्च परितो गर्ता रत्निमात्रास्त्रिमेखलाः
नव सप्ताथ वा पञ्च नातिरिक्ता नृपात्मज वितस्तिमात्रा योनिः स्यात् षट्सप्ताङ्गुलिविस्तृता
गर्ताश्च तत्र सप्त स्युस् त्रिपर्वोच्छ्रितमेखलाः सर्वतस्तु सवर्णाः स्युः पताकाध्वजसंयुताः
अश्वत्थोदुम्बरप्लक्षवटशाखाकृतानि तु मण्डपस्य प्रतिदिशं द्वाराण्येतानि कारयेत्
शुभास्तत्राष्ट होतारो द्वारपालास्तथाष्ट वै अष्टौ तु जापकाः कार्या ब्राह्मणा वेदपारगाः
सर्वलक्षणसम्पूर्णो मन्त्रविद्विजितेन्द्रियः कुलशीलसमायुक्तः पुरोधाः स्याद्द्विजोत्तमः
प्रतिगर्तेषु कलशी यज्ञोपकरणानि च व्यजनं चामरे शुभ्रे ताम्रपात्रे सुविस्तृते
ततस्त्वनेकवर्णाः स्युश् चरवः प्रतिदैवतम् आचार्यः प्रक्षिपेद्भूमाव् अनुमन्त्र्य विचक्षणः
त्र्यरत्निमात्रो यूपः स्यात् क्षारवृक्षविनिर्मितः यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता
हेमालंकारिणः कार्याः पञ्चविंशतिऋत्विजः कुण्डलानि च हैमानि केयूरकटकानि च
तथाङ्गुल्यः पवित्राणि वासांसि विविधानि च पूजयेत्तु समं सर्वान् आचार्यो द्विगुणं पुनः दद्याच्छयनसंयुक्तम् आत्मनश्चापि यत्प्रियम्
सौवर्णकूर्ममकरौ राजतौ मत्स्यदुन्दुभौ ताम्रौ कुलीरमण्डूकाव् आयसः शिशुमारकः एवमासाद्य तत्सर्वम् आदावेव विशां पते
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः सर्वौषध्युदकैस्तत्र स्नापितो वेदपारगैः
यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः पश्चिमं द्वारमासाद्य प्रविशेद्यागमण्डपम्