द्विजानामुदकुम्भांश्च पञ्चरत्नसमन्वितान् गावः कृष्णाः सुवर्णं च वासांसि विविधानि च अशक्तस्तु पुनर्दद्याद् गामेकामपि शक्तितः
न वित्तशाठ्यं कुर्वीत कुर्वन्दोषमवाप्नुयात् कृष्णाष्टमीमुपोष्यैव सप्तकल्पशतत्रयम् पुमान्सम्पूजितो देवैः शिवलोके महीयते
दीर्घायुरारोग्यकुलाभिवृद्धियुक्तः पुमान्भूपकुलायुतः स्यात् मुहुर्मुहुर्जन्मनि येन सम्यग् व्रतं समाचक्ष्व तदिन्दुमौले
त्वया पृष्टमिदं सम्यग् उक्तं चाक्षय्यकारकम् रहस्यं तव वक्ष्यामि यत्पुराणविदो विदुः
रोहिणीचन्द्रशयनं नाम व्रतमिहोत्तमम् तस्मिन्नारायणस्यार्चाम् अर्चयद् इन्दुनामभिः
यदा सोमदिने शुक्ला भवेत्पञ्चदशी क्वचित् अथवा ब्रह्मनक्षत्रं पौर्णमास्यां प्रजायते
तदा स्नानं नरः कुर्यात् पञ्चगव्येन सर्षपैः आप्यायस्वेति तु जपेद् विद्वानष्टशतं पुनः
शूद्रो ऽपि परया भक्त्या पाषण्डालापवर्जितः सोमाय वरदायाथ विष्णवे च नमो नमः
कृतजप्यः स्वभवनम् आगत्य मधुसूदनम् पूजयेत्फलपुष्पैश्च सोमनामानि कीर्तयन्
सोमाय शान्ताय नमो ऽस्तु पादाव् अनन्तधाम्नेति च जानुजङ्घे ऊरुद्वयं चापि जलोदराय सम्पूजयेन्मेढ्रमनन्तबाहवे
नमो नमः कामसुखप्रदाय कटिः शशाङ्कस्य सदार्चनीया तथोदरं चाप्यमृतोदराय नाभिः शशाङ्काय नमो ऽभिपूज्या
नमो ऽस्तु चन्द्राय मुखं च पूज्यं दन्ता द्विजानामधिपाय पूज्याः हास्यं नमश्चन्द्रमसे ऽभिपूज्यम् ओष्ठौ कुमुद्वन्तवनप्रियाय
नासा च नाथाय वनौषधीनाम् आनन्दभूताय पुनर्भ्रुवौ च नेत्रद्वयं पद्मनिभं तथेन्दोर् इन्दीवरश्यामकराय शौरेः
नमः समस्ताध्वरवन्दिताय कर्णद्वयं दैत्यनिषूदनाय ललाटमिन्दोरुदधिप्रियाय केशाः सुषुम्नाधिपतेः प्रपूज्याः
शिरः शशाङ्काय नमो मुरारेर् विश्वेश्वरायेति नमः किरीटिने पद्मप्रिये रोहिणि नाम लक्ष्मीः सौभाग्यसौख्यामृतचारुकाये
देवीं च संपूज्य सुगन्धपुष्पैर् नैवेद्यधूपादिभिरिन्दुपत्नीम् सुप्त्वाथ भूमौ पुनरुत्थितेन स्नात्वा च विप्राय हविष्ययुक्तः
देयः प्रभाते सहिरण्यवारिकुम्भो नमः पापविनाशनाय संप्राश्य गोमूत्रममांसमन्नम् अक्षारमष्टावथ विंशतिं च ग्रासान्पयःसर्पिर्युतानुपोष्य भुक्त्वेतिहासं शृणुयान्मुहूर्तम्
कदम्बनीलोत्पलकेतकानि जाती सरोजं शतपत्त्रिका च अम्लानकुब्जान्यथ सिन्दुवारं पुष्पं पुनर्नारद मल्लिकायाः शुभ्रं च विष्णोः करवीरपुष्पं श्रीचम्पकं चन्द्रमसः प्रदेयम्
श्रावणादिषु मासेषु क्रमादेतानि सर्वदा यस्मिन्मासे व्रतादिः स्यात् तत्पुष्पैरर्चयेद्धरिम्
एवं संवत्सरं यावद् उपास्य विधिवन्नरः व्रतान्ते शयनं दद्याद् दर्पणोपस्करान्वितम्
रोहिणीचन्द्रमिथुनं कारयित्वाथ काञ्चनम् चन्द्रः षडङ्गुलः कार्यो रोहिणी चतुरङ्गुला
मुक्ताफलाष्टकयुतं सितनेत्रपटावृतम् क्षीरकुम्भोपरि पुनः कांस्यपात्राक्षतान्वितम् दद्यान्मन्त्रेण पूर्वाह्णे शालीक्षुफलसंयुतम्
श्वेतामथ सुवर्णास्यां खुरै रौप्यैः समन्विताम् सवस्त्रभाजनां धेनुं तथा शङ्खं च शोभनम्
भूषणैर्द्विजदाम्पत्यम् अलंकृत्य गुणान्वितम् चन्द्रो ऽयं द्विजरूपेण सभार्य इति कल्पयेत्
यथा न रोहिणी कृष्ण शय्यां संत्यज्य गच्छति सोमरूपस्य ते तद्वन् ममाभेदो ऽस्तु भूतिभिः
यथा त्वमेव सर्वेषां परमानन्दमुक्तिदः भुक्तिर्मुक्तिस्तथा भक्तिस् त्वयि चन्द्रास्तु मे सदा
इति संसारभीतस्य मुक्तिकामस्य चानघ रूपारोग्यायुषामेतद् विधायकमनुत्तमम्
इदमेव पितॄणां च सर्वदा वल्लभं मुने त्रैलोक्याधिपतिर्भूत्वा सप्तकल्पशतत्रयम् चन्द्रलोकमवाप्नोति विद्युद्भूत्वा तु मुच्यते
नारी वा रोहिणी चन्द्रशयनं या समाचरेत् सापि तत्फलमाप्नोति पुनरावृत्तिदुर्लभम्
इति पठति शृणोति वा य इत्थं मधुमथनार्चनम् इन्दुकीर्तनेन मतिमपि च ददाति सो ऽपि शौरेर् भवनगतः परिपूज्यते ऽमरौघैः