कठोरधाम्ने भरणीषु कण्ठं दिवाकरायेत्यभिपूजनीया ग्रीवाग्निऋक्षे ऽधरमम्बुजेशे सम्पूजयेन्नारद रोहिणीषु
मृगोत्तमाङ्गे दशना मुरारेः संपूजनीया हरये नमस्ते नमः सवित्रे रसनां शंकरे च नासाभिपूज्या च पुनर्वसौ च
ललाटमम्भोरुहवल्लभाय पुष्ये ऽलका वेदशरीरधारिणे सार्पे ऽथ मौलिं विबुधप्रियाय मघासु कर्णाविति गोगणेशे
पूर्वासु गोब्राह्मणवन्दनाय नेत्राणि संपूज्यतमानि शम्भोः अथोत्तराफल्गुनिभे भ्रुवौ च विश्वेश्वरायेति च पूजनीये
नमो ऽस्तु पाशाङ्कुशशूलपद्मकपालसर्पेन्दुधनुर्धराय गजासुरानङ्गपुरान्धकादिविनाशमूलाय नमः शिवाय
इत्यादि चास्त्राणि च पूज्य नित्यं विश्वेश्वरायेति शिवो ऽभिपूज्यः भोक्तव्यमत्रैवमतैलशाकम् अमांसमक्षारमभुक्तशेषम्
इत्येवं द्विज नक्तानि कृत्वा दद्यात् पुनर्वसौ शालेयतण्डुलप्रस्थम् औदुम्बरमये घृतम्
संस्थाप्य पात्रे विप्राय सहिरण्यं निवेदयेत् सप्तमे वस्त्रयुग्मं च पारणे त्वधिकं भवेत्
चतुर्दशे तु सम्प्राप्ते पारणे नारदाब्दिके ब्राह्मणान्भोजयेद्भक्त्या गुडक्षीरघृतादिभिः
कृत्वा तु काञ्चनं पद्मम् अष्टपत्त्रं सकर्णिकम् शुद्धमष्टाङ्गुलं तच्च पद्मरागदलान्वितम्
शय्यां विलक्षणां कृत्वा विरुद्धग्रन्थिवर्जिताम् सोपधानकविश्रामस्वास्तरव्यजनानि च
भाजनोपानहछत्त्रचामरासनदर्पणैः भूषणैरपि संयुक्तां फलवस्त्रानुलेपनैः
तस्यां विधाय तत्पद्मम् अलंकृत्य गुणान्वितम् कपिलां वस्त्रसंयुक्तां सुशीलां च पयस्विनीम्
रौप्यखुरीं हेमशृङ्गीं सवत्सां कांस्यदोहनाम् दद्यान्मन्त्रेण पूर्वाह्णे न चैनामभिलङ्घयेत्
यथैवादित्यशयनम् अशून्यं तव सर्वदा कान्त्या धृत्या श्रिया रत्या तथा मे सन्तु सिद्धयः
यथा न देवाः श्रेयांसं त्वदन्यमनघं विदुः तथा माम् उद्धराशेषदुःखसंसारसागरात्
ततः प्रदक्षिणीकृत्य प्रणिपत्य विसर्जयेत् शय्यागवादि तत्सर्वं द्विजस्य भवनं नयेत्
नैतद्विशीलाय न दाम्भिकाय कुतर्कदुष्टाय विनिन्दकाय प्रकाशनीयं व्रतमिन्दुमौलेर् यश्चापि निन्दामधिकां विधत्ते
भक्ताय दान्ताय च गुह्यमेतद् आख्येयम् आनन्दकरं शिवस्य इदं महापातकभिन् नराणाम् अप्यक्षरं वेदविदो वदन्ति
न बन्धुपुत्रेण धनैर्वियुक्तः पत्नीभिरानन्दकरः सुराणाम् नाभ्येति रोगं न च शोकदुःखं या वाथ नारी कुरुते ऽतिभक्त्या
इदं वसिष्ठेन पुरार्जुनेन कृतं कुबेरेण पुरंदरेण यत्कीर्तनेनाप्यखिलानि नाशम् आयान्ति पापानि न संशयो ऽस्ति
कृष्णाष्टमीमथो वक्ष्ये सर्वपापप्रणाशिनीम् शान्तिर्मुक्तिश्च भवति जयः पुंसां विशेषतः
शंकरं मार्गशिरसि शम्भुं पौषे ऽभिपूजयेत् माघे महेश्वरं देवं महादेवं च फाल्गुने
स्थाणुं चैत्रे शिवं तद्वद् वैशाखे त्वर्चयेन्नरः ज्येष्ठे पशुपतिं चार्चेद् आषाढे उग्रमर्चयेत्
पूजयेच्छ्रावणे शर्वं नभस्ये त्र्यम्बकं तथा हरमाश्वयुजे मासि तथेशानं च कार्त्तिके
कृष्णाष्टमीषु सर्वासु शक्तः सम्पूजयेद्द्विजान् गोभूहिरण्यवासोभिः शिवभक्तानुपोषितः
गोमूत्रघृतगोक्षीरतिलान् यवकुशोदकम् गोशृङ्गोदशिरीषार्कबिल्वपत्त्रदधीनि च पञ्चगव्यं च संप्राश्य शंकरं पूजयेन्निशि
अश्वत्थं च वटं चैवो-दुम्बरं प्लक्षमेव च पलाशं जम्बुवृक्षं च विदुः षष्ठं महर्षयः
मार्गशीर्षाषाढमासाभ्यां द्वाभ्यां द्वाभ्यामितिक्रमात् एकैकं दन्तपवनं वृक्षेष्वेतेषु भक्षयेत्
देवाय दद्यादर्घ्यं च कृष्णां गां कृष्णवाससम् दद्यात्समाप्ते दध्यन्नं वितानध्वजचामरम्