उपवासे ऽप्यशक्तानां नक्तं भोजनमिष्यते यस्मिन्व्रते तदप्यत्र श्रूयतामक्षयं महत्
आदित्यशयनं नाम यथावच्छंकरार्चनम् येषु नक्षत्रयोगेषु पुराणज्ञाः प्रचक्षते
यदा हस्तेन सप्तम्याम् आदित्यस्य दिनं भवेत् सूर्यस्य चाथ संक्रान्तिस् तिथिः सा सार्वकामिकी
उमामहेश्वरस्यार्चाम् अर्चयेत्सूर्यनामभिः सूर्यार्चां शिवलिङ्गे च प्रकुर्वन् पूजयेद्यतः
उमापते रवेर्वापि न भेदो दृश्यते क्वचित् यस्मात्तस्मान्मुनिश्रेष्ठ गृहे शम्भुं समर्चयेत्
हस्ते च सूर्याय नमो ऽस्तु पादाव् अर्काय चित्रासु च गुल्फदेशम् स्वातीषु जङ्घे पुरुषोत्तमाय धात्रे विशाखासु च जानुदेशम्
तथानुराधासु नमो ऽभिपूज्यम् ऊरुद्वयं चैव सहस्रभानोः ज्येष्ठास्वनङ्गाय नमो ऽस्तु गुह्यम् इन्द्राय सोमाय कटी च मूले
पूर्वोत्तराषाढयुगे च नाभिं त्वष्ट्रे नमः सप्ततरंगमाय तीक्ष्णांशवे च श्रवणे च कुक्षौ पृष्ठं धनिष्ठासु विकर्तनाय
चक्षुःस्थलं ध्वान्तविनाशनाय जलाधिपर्क्षे परिपूजनीयम् पूर्वोत्तराभाद्रपदाद्वये च बाहू नमश्चण्डकराय पूज्यौ
साम्नामधीशाय करद्वयं च संपूजनीयं द्विज रेवतीषु नखानि पूज्यानि तथाश्विनीषु नमो ऽस्तु सप्ताश्वधुरंधराय
कठोरधाम्ने भरणीषु कण्ठं दिवाकरायेत्यभिपूजनीया ग्रीवाग्निऋक्षे ऽधरमम्बुजेशे सम्पूजयेन्नारद रोहिणीषु
मृगोत्तमाङ्गे दशना मुरारेः संपूजनीया हरये नमस्ते नमः सवित्रे रसनां शंकरे च नासाभिपूज्या च पुनर्वसौ च
ललाटमम्भोरुहवल्लभाय पुष्ये ऽलका वेदशरीरधारिणे सार्पे ऽथ मौलिं विबुधप्रियाय मघासु कर्णाविति गोगणेशे
पूर्वासु गोब्राह्मणवन्दनाय नेत्राणि संपूज्यतमानि शम्भोः अथोत्तराफल्गुनिभे भ्रुवौ च विश्वेश्वरायेति च पूजनीये
नमो ऽस्तु पाशाङ्कुशशूलपद्मकपालसर्पेन्दुधनुर्धराय गजासुरानङ्गपुरान्धकादिविनाशमूलाय नमः शिवाय
इत्यादि चास्त्राणि च पूज्य नित्यं विश्वेश्वरायेति शिवो ऽभिपूज्यः भोक्तव्यमत्रैवमतैलशाकम् अमांसमक्षारमभुक्तशेषम्
इत्येवं द्विज नक्तानि कृत्वा दद्यात् पुनर्वसौ शालेयतण्डुलप्रस्थम् औदुम्बरमये घृतम्
संस्थाप्य पात्रे विप्राय सहिरण्यं निवेदयेत् सप्तमे वस्त्रयुग्मं च पारणे त्वधिकं भवेत्
चतुर्दशे तु सम्प्राप्ते पारणे नारदाब्दिके ब्राह्मणान्भोजयेद्भक्त्या गुडक्षीरघृतादिभिः
कृत्वा तु काञ्चनं पद्मम् अष्टपत्त्रं सकर्णिकम् शुद्धमष्टाङ्गुलं तच्च पद्मरागदलान्वितम्
शय्यां विलक्षणां कृत्वा विरुद्धग्रन्थिवर्जिताम् सोपधानकविश्रामस्वास्तरव्यजनानि च
भाजनोपानहछत्त्रचामरासनदर्पणैः भूषणैरपि संयुक्तां फलवस्त्रानुलेपनैः
तस्यां विधाय तत्पद्मम् अलंकृत्य गुणान्वितम् कपिलां वस्त्रसंयुक्तां सुशीलां च पयस्विनीम्
रौप्यखुरीं हेमशृङ्गीं सवत्सां कांस्यदोहनाम् दद्यान्मन्त्रेण पूर्वाह्णे न चैनामभिलङ्घयेत्
यथैवादित्यशयनम् अशून्यं तव सर्वदा कान्त्या धृत्या श्रिया रत्या तथा मे सन्तु सिद्धयः
यथा न देवाः श्रेयांसं त्वदन्यमनघं विदुः तथा माम् उद्धराशेषदुःखसंसारसागरात्
ततः प्रदक्षिणीकृत्य प्रणिपत्य विसर्जयेत् शय्यागवादि तत्सर्वं द्विजस्य भवनं नयेत्
नैतद्विशीलाय न दाम्भिकाय कुतर्कदुष्टाय विनिन्दकाय प्रकाशनीयं व्रतमिन्दुमौलेर् यश्चापि निन्दामधिकां विधत्ते
भक्ताय दान्ताय च गुह्यमेतद् आख्येयम् आनन्दकरं शिवस्य इदं महापातकभिन् नराणाम् अप्यक्षरं वेदविदो वदन्ति
न बन्धुपुत्रेण धनैर्वियुक्तः पत्नीभिरानन्दकरः सुराणाम् नाभ्येति रोगं न च शोकदुःखं या वाथ नारी कुरुते ऽतिभक्त्या