तत एकोनपञ्चाशन् मरुतः कश्यपाद्दितिः जनयामास धर्मज्ञान् सर्वानमरवल्लभान्
दितेः पुत्राः कथं जाता मरुतो देववल्लभाः देवैर्जग्मुश्च सापत्नैः कस्मात्ते सख्यमुत्तमम्
पुरा देवासुरे युद्धे हृतेषु हरिणा सुरैः पुत्रपौत्रेषु शोकार्ता गत्वा भूलोकमुत्तमम्
स्यमन्तपञ्चके क्षेत्रे सरस्वत्यास्तटे शुभे भर्तुर् आराधनपरा तप उग्रं चचार ह
तदा दितिर् दैत्यमाता ऋषिरूपेण सुव्रता फलाहारा तपस् तेपे कृच्छ्रं चान्द्रायणादिकम्
यावद्वर्षशतं साग्रं जराशोकसमाकुला ततः सा तपसा तप्ता वसिष्ठादीनपृच्छत
कथयन्तु भवन्तो मे पुत्रशोकविनाशनम् व्रतं सौभाग्यफलदम् इहलोके परत्र च
ऊचुर् वसिष्ठप्रमुखा मदनद्वादशीव्रतम् यस्याः प्रभावादभवत् सुतशोकविवर्जिता
श्रोतुमिच्छामहे सूत मदनद्वादशीव्रतम् सुतानेकोनपञ्चाशद् येन लेभे दितिः पुनः
यद्वसिष्ठादिभिः पूर्वं दितेः कथितमुत्तमम् विस्तरेण तदेवेदं मत्सकाशान्निबोधत
चैत्रे मासि सिते पक्षे द्वादश्यां नियतव्रतः स्थापयेदव्रणं कुम्भं सिततण्डुलपूरितम्
नानाफलयुतं तद्वद् इक्षुदण्डसमन्वितम् सितवस्त्रयुगच्छन्नं सितचन्दनचर्चितम्
नानाभक्ष्यसमोपेतं सहिरण्यं तु शक्तितः ताम्रपात्रं गुडोपेतं तस्योपरि निवेशयेत्
तस्मादुपरि कामं तु कदलीदलसंस्थितम् कुर्याच्छर्करयोपेतां रतिं तस्य च वामतः
गन्धं धूपं ततो दद्याद् गीतं वाद्यं च कारयेत् तदभावे कथां कुर्यात् कामकेशवयोर्नरः
कामनाम्ना हरेरर्चां स्नापयेद्गन्धवारिणा शुक्लपुष्पाक्षततिलैर् अर्चयेन्मधुसूदनम्
कामाय पादौ सम्पूज्य जङ्घे सौभाग्यदाय च ऊरू स्मरायेति पुनर् मन्मथायेति वै कटिम्
स्वच्छोदरायेत्युदरम् अनङ्गायेत्युरो हरेः मुखं पद्ममुखायेति बाहू पञ्चशराय वै
नमः सर्वात्मने मौलिम् अर्चयेदिति केशवम् ततः प्रभाते तं कुम्भं ब्राह्मणाय निवेदयेत्
ब्राह्मणान्भोजयेद्भक्त्या स्वयं च लवणादृते भुक्त्या तु दक्षिणां दद्याद् इमं मन्त्रमुदीरयेत्
प्रीयताम् अत्र भगवान् कामरूपी जनार्दनः हृदये सर्वभूतानां य आनन्दो ऽभिधीयते
अनेन विधिना सर्वं मासि मासि व्रतं चरेत् उपवासी त्रयोदश्याम् अर्चयेद्विष्णुमव्ययम्
फलमेकं च संप्राश्य द्वादश्यां भूतले स्वपेत् ततस्त्रयोदशे मासि धृतधेनुसमन्विताम्
शय्यां दद्यादनङ्गाय सर्वोपस्करसंयुताम् काञ्चनं कामदेवं च शुक्लां गां च पयस्विनीम्
वासोभिर् द्विजदाम्पत्यं पूज्यं शक्त्या विभूषणैः शय्यागन्धादिकं दद्यात् प्रीयताम् इत्युदीरयेत्
होमः शुक्लतिलैः कार्यः कामनामानि कीर्तयेत् गव्येन हविषा तद्वत् पायसेन च धर्मवित्
विप्रेभ्यो भोजनं दद्याद् वित्तशाठ्यं विवर्जयेत् इक्षुदण्डानथो दद्यात् पुष्पमालाश् च शक्तितः
यः कुर्याद् विधिनानेन मदनद्वादशीमिमाम् स सर्वपापनिर्मुक्तः प्राप्नोति हरिसाम्यताम्
इहलोके वरान् पुत्रान् सौभाग्यफलम् अश्नुते यः स्मरः संस्मृतो विष्णुर् आनन्दात्मा महेश्वरः
सुखार्थी कामरूपेण स्मरेदङ्गजमीश्वरम् एतच्छ्रुत्वा चकारासौ दितिः सर्वमशेषतः