धर्मश्चार्थश्च कामश्च मोक्षश्चैवात्र कीर्त्यते सर्वेष्वपि पुराणेषु तद्विरुद्धं च यत्फलम्
सात्त्विकेषु पुराणेषु माहात्म्यमधिकं हरेः राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः
तद्वदग्नेश्च माहात्म्यं तामसेषु शिवस्य च संकीर्णेषु सरस्वत्याः पितॄणां च निगद्यते
अष्टादश पुराणानि कृत्वा सत्यवतीसुतः भारताख्यानमखिलं चक्रे तदुपबृंहितम् लक्षेणैकेन यत्प्रोक्तं वेदार्थपरिबृंहितम्
वाल्मीकिना तु यत्प्रोक्तं रामोपाख्यानमुत्तमम् ब्रह्मणाभिहितं यच्च शतकोटिप्रविस्तरम्
आहृत्य नारदायैवं तेन वाल्मीकये पुनः वाल्मीकिना च लोकेषु धर्मकामार्थसाधनम् एवं सपादाः पञ्चैते लक्षा मर्त्ये प्रकीर्तिताः
पुरातनस्य कल्पस्य पुराणानि विदुर्बुधाः धन्यं यशस्यमायुष्यं पुराणानामनुक्रमम् यः पठेच्छृणुयाद्वापि स याति परमां गतिम्
इदं पवित्रं यशसो निधानम् इदं पितॄणामतिवल्लभं च इदं च देवेष्व् अमृतायितं च नित्यं त्विदं पापहरं च पुंसाम्
अतः परं प्रवक्ष्यामि दानधर्मानशेषतः व्रतोपवाससंयुक्तान् यथामत्स्योदितानिह
महादेवस्य संवादे नारदस्य च धीमतः यथावृत्तं प्रवक्ष्यामि धर्मकामार्थसाधकम्
कैलासशिखरासीनम् अपृच्छन्नारदः पुरा विनयनमनङ्गारिम् अनङ्गाङ्गहरं हरम्
भगवन्देवदेवेश ब्रह्मविष्ण्विन्द्रनायक श्रीमदारोग्यरूपायुर् भाग्यसौभाग्यसम्पदा संयुक्तस्तव विष्णोर्वा पुमान्भक्तः कथं भवेत्
नारी वा विधवा सर्वगुणसौभाग्यसंयुता क्रमान्मुक्तिप्रदं देव किंचिद्व्रतमिहोच्यताम्
सम्यक्पृष्टं त्वया ब्रह्मन् सर्वलोकहितावहम् श्रुतमप्यत्र यच्छान्त्यै तद्व्रतं शृणु नारद
नक्षत्रपुरुषं नाम व्रतं नारायणात्मकम् पादादि कुर्याद्विधिवद् विष्णुनामानुकीर्तनम्
प्रतिमां वासुदेवस्य मूलर्क्षादिषु चार्चयेत् चैत्रमासं समासाद्य कृत्वा ब्राह्मणवाचनम्
मूले नमो विश्वधराय पादौ गुल्फावनन्ताय च रोहिणीषु जङ्घे ऽभिपूज्ये वरदाय चैव द्वे जानुनी वाश्विकुमारऋक्षे
पूर्वोत्तराषाढयुगे तथोरू नमः शिवायेत्यभिपूजनीयौ पूर्वोत्तराफल्गुनियुग्मके च मेढ्रं नमः पञ्चशराय पूज्यम्
कटिं नमः शार्ङ्गधराय विष्णोः सम्पूजयेन्नारद कृत्तिकासु तथार्चयेद्भाद्रपदाद्वये च पार्श्वे नमः केशिनिषूदनाय
कुक्षिद्वयं नारद रेवतीषु दामोदरायेत्यभिपूजनीयम् ऋक्षे ऽनुराधासु च माधवाय नमस्तथोरःस्थलमेव पूज्यम्
पृष्ठं धनिष्ठासु च पूजनीयम् अघौघविध्वंसकराय तच्च श्रीशङ्खचक्रासिगदाधराय नमो विशाखासु भुजाश्च पूज्याः
हस्ते तु हस्ता मधुसूदनाय नमो ऽभिपूज्या इति कैटभारेः पुनर्वसावङ्गुलिपूर्वभागाः साम्नामधीशाय नमो ऽभिपूज्याः
भुजंगनक्षत्रदिने नखानि सम्पूजयेन्मत्स्यशरीरभाजः कूर्मस्य पादौ शरणं व्रजामि ज्येष्ठासु कण्ठे हरिरर्चनीयः
श्रोत्रे वराहाय नमो ऽभिपूज्या जनार्दनस्य श्रवणेन सम्यक् पुष्ये मुखं दानवसूदनाय नमो नृसिंहाय च पूजनीयम्
नमो नमः कारणवामनाय स्वातीषु दन्ताग्रमथार्चनीयम् आस्यं हरेर्भार्गवनन्दनाय संपूजनीयं द्विज वारुणे तु
नमो ऽस्तु रामाय मघासु नासा संपूजनीया रघुनन्दनस्य मृगोत्तमाङ्गे नयने ऽभिपूज्ये नमो ऽस्तु ते राम विघूर्णिताक्ष
बुद्धाय शान्ताय नमो ललाटं चित्रासु संपूज्यतमं मुरारेः शिरो ऽभिपूज्यं भरणीषु विष्णोर् नमो ऽस्तु विश्वेश्वर कल्किरूपिणे
आर्द्रासु केशाः पुरुषोत्तमस्य संपूजनीया हरये नमस्ते उपोषितेनर्क्षदिनेषु भक्त्या संपूजनीया द्विजपुंगवाः स्युः
पूर्णे व्रते सर्वगुणान्विताय वाग्रूपशीलाय च सामगाय हैमीं विशालायतबाहुदण्डां मुक्ताफलेन्दूपलवज्रयुक्ताम्
जलस्य पूर्णे कलशे निविष्टाम् अर्चां हरेर्वस्त्रगवा सहैव शय्यां तथोपस्करभाजनादियुक्तां प्रदद्याद्द्विजपुंगवाय