यो दद्यात्तद्व्यतीपाते पीतोर्णायुगसंयुतम् राजसूयसहस्रस्य फलमाप्नोति मानवः हेमधेन्वा युतं तच्च ब्रह्मलोकफलप्रदम्
चतुर्लक्षमिदं प्रोक्तं व्यासेनाद्भुतकर्मणा मत्पितुर्मम पित्रा च मया तुभ्यं निवेदितम्
इह लोकहितार्थाय संक्षिप्तं परमर्षिणा इदमद्यापि देवेषु शतकोटिप्रविस्तरम्
उपभेदान्प्रवक्ष्यामि लोके ये सम्प्रतिष्ठिताः पाद्मे पुराणे यत्रोक्तं नरसिंहोपवर्णनम् तच्चाष्टादशसाहस्रं नारसिंहमिहोच्यते
नन्दाया यत्र माहात्म्यं कार्त्तिकेयेन वर्ण्यते नन्दीपुराणं तल्लोकैर् आख्यातमिति कीर्त्यते
यत्र साम्बं पुरस्कृत्य भविष्यति कथानकम् प्रोच्यते तत्पुनर्लोके साम्बमेतन्मुनिव्रताः
पुरातनस्य कल्पस्य पुराणानि विदुर्बुधाः धन्यं यशस्यमायुष्यं पुराणानामनुक्रमम् एवमादित्यसंज्ञा च तत्रैव परिगद्यते
अष्टादशभ्यस्तु पृथक् पुराणं यत्प्रदिश्यते विजानीध्वं द्विजश्रेष्ठास् तदेतेभ्यो विनिर्गतम्
पञ्चाङ्गानि पुराणेषु आख्यानकमिति स्मृतम् सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च वंश्यानुचरितं चैव पुराणं पञ्चलक्षणम्
ब्रह्मविष्ण्वर्करुद्राणां माहात्म्यं भुवनस्य च ससंहारप्रदानां च पुराणे पञ्चवर्णके
धर्मश्चार्थश्च कामश्च मोक्षश्चैवात्र कीर्त्यते सर्वेष्वपि पुराणेषु तद्विरुद्धं च यत्फलम्
सात्त्विकेषु पुराणेषु माहात्म्यमधिकं हरेः राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः
तद्वदग्नेश्च माहात्म्यं तामसेषु शिवस्य च संकीर्णेषु सरस्वत्याः पितॄणां च निगद्यते
अष्टादश पुराणानि कृत्वा सत्यवतीसुतः भारताख्यानमखिलं चक्रे तदुपबृंहितम् लक्षेणैकेन यत्प्रोक्तं वेदार्थपरिबृंहितम्
वाल्मीकिना तु यत्प्रोक्तं रामोपाख्यानमुत्तमम् ब्रह्मणाभिहितं यच्च शतकोटिप्रविस्तरम्
आहृत्य नारदायैवं तेन वाल्मीकये पुनः वाल्मीकिना च लोकेषु धर्मकामार्थसाधनम् एवं सपादाः पञ्चैते लक्षा मर्त्ये प्रकीर्तिताः
पुरातनस्य कल्पस्य पुराणानि विदुर्बुधाः धन्यं यशस्यमायुष्यं पुराणानामनुक्रमम् यः पठेच्छृणुयाद्वापि स याति परमां गतिम्
इदं पवित्रं यशसो निधानम् इदं पितॄणामतिवल्लभं च इदं च देवेष्व् अमृतायितं च नित्यं त्विदं पापहरं च पुंसाम्
अतः परं प्रवक्ष्यामि दानधर्मानशेषतः व्रतोपवाससंयुक्तान् यथामत्स्योदितानिह
महादेवस्य संवादे नारदस्य च धीमतः यथावृत्तं प्रवक्ष्यामि धर्मकामार्थसाधकम्
कैलासशिखरासीनम् अपृच्छन्नारदः पुरा विनयनमनङ्गारिम् अनङ्गाङ्गहरं हरम्
भगवन्देवदेवेश ब्रह्मविष्ण्विन्द्रनायक श्रीमदारोग्यरूपायुर् भाग्यसौभाग्यसम्पदा संयुक्तस्तव विष्णोर्वा पुमान्भक्तः कथं भवेत्
नारी वा विधवा सर्वगुणसौभाग्यसंयुता क्रमान्मुक्तिप्रदं देव किंचिद्व्रतमिहोच्यताम्
सम्यक्पृष्टं त्वया ब्रह्मन् सर्वलोकहितावहम् श्रुतमप्यत्र यच्छान्त्यै तद्व्रतं शृणु नारद
नक्षत्रपुरुषं नाम व्रतं नारायणात्मकम् पादादि कुर्याद्विधिवद् विष्णुनामानुकीर्तनम्
प्रतिमां वासुदेवस्य मूलर्क्षादिषु चार्चयेत् चैत्रमासं समासाद्य कृत्वा ब्राह्मणवाचनम्
मूले नमो विश्वधराय पादौ गुल्फावनन्ताय च रोहिणीषु जङ्घे ऽभिपूज्ये वरदाय चैव द्वे जानुनी वाश्विकुमारऋक्षे
पूर्वोत्तराषाढयुगे तथोरू नमः शिवायेत्यभिपूजनीयौ पूर्वोत्तराफल्गुनियुग्मके च मेढ्रं नमः पञ्चशराय पूज्यम्
कटिं नमः शार्ङ्गधराय विष्णोः सम्पूजयेन्नारद कृत्तिकासु तथार्चयेद्भाद्रपदाद्वये च पार्श्वे नमः केशिनिषूदनाय
कुक्षिद्वयं नारद रेवतीषु दामोदरायेत्यभिपूजनीयम् ऋक्षे ऽनुराधासु च माधवाय नमस्तथोरःस्थलमेव पूज्यम्