यत्राग्निलिङ्गमध्यस्थः प्राह देवो महेश्वरः धर्मार्थकाममोक्षार्थम् आग्नेयमधिकृत्य च
कल्पान्ते लैङ्गमित्युक्तं पुराणं ब्रह्मणा स्वयम् तदेकादशसाहस्रं फाल्गुन्यां यः प्रयच्छति तिलधेनुसमायुक्तं स याति शिवसाम्यताम्
महावराहस्य पुनर् माहात्म्यमधिकृत्य च विष्णुनाभिहितं क्षोण्यै तद्वाराहम् इहोच्यते
मानवस्य प्रसङ्गेन कल्पस्य मुनिसत्तमाः चतुर्विंशत्सहस्राणि तत्पुराणमिहोच्यते
काञ्चनं गरुडं कृत्वा तिलधेनुसमन्वितम् पौर्णमास्यां मधौ दद्याद् ब्राह्मणाय कुटुम्बिने वराहस्य प्रसादेन पदमाप्नोति वैष्णवम्
यत्र माहेश्वरान्धर्मान् अधिकृत्य च षण्मुखः कल्पे तत्पुरुषं वृत्तं चरितैरुपबृंहितम्
स्कान्दं नाम पुराणं च ह्य् एकाशीतिर्निगद्यते सहस्राणि शतं चैकम् इति मर्त्येषु गद्यते
परिलिख्य च यो दद्याद् धेमशूलसमन्वितम् शैवं पदमवाप्नोति मीने चोपागते रवौ
त्रिविक्रमस्य माहात्म्यम् अधिकृत्य चतुर्मुखः त्रिवर्गमभ्यधात्तच्च वामनं परिकीर्तितम्
पुराणं दशसाहस्रं कूर्मकल्पानुगं शिवम् यः शरद्विषुवे दद्याद् वैष्णवं यात्यसौ पदम्
यत्र धर्मार्थकामानां मोक्षस्य च रसातले माहात्म्यं कथयामास कूर्मरूपी जनार्दनः
इन्द्रद्युम्नप्रसङ्गेन ऋषिभ्यः शक्रसंनिधौ अष्टादश सहस्राणि लक्ष्मीकल्पानुषङ्गिकम्
यो दद्यादयने कूर्मं हेमकूर्मसमन्वितम् गोसहस्रप्रदानस्य फलं सम्प्राप्नुयान्नरः
श्रुतीनां यत्र कल्पादौ प्रवृत्त्यर्थं जनार्दनः मत्स्यरूपेण मनवे नरसिंहोपवर्णनम्
अधिकृत्याब्रवीत्सप्तकल्पवृत्तं मुनीश्वराः तन्मात्स्यमिति जानीध्वं सहस्राणि चतुर्दश
विषुवे हेममत्स्येन धेन्वा चैव समन्वितम् यो दद्यात्पृथिवी तेन दत्ता भवति चाखिला
यदा च गारुडे कल्पे विश्वाण्डाद्गरुडोद्भवम् अधिकृत्याब्रवीत्कृष्णो गारुडं तदिहोच्यते
तद् अष्टादशकं चैकं सहस्राणीह पठ्यते सौवर्णहंससंयुक्तं यो ददाति पुमानिह स सिद्धिं लभते मुख्यां शिवलोके च संस्थितिम्
ब्रह्मा ब्रह्माण्डमाहात्म्यम् अधिकृत्याब्रवीत्पुनः तच्च द्वादशसाहस्रं ब्रह्माण्डं द्विशताधिकम्
भविष्याणां च कल्पानां श्रूयते यत्र विस्तरः तद्ब्रह्माण्डपुराणं च ब्रह्मणा समुदाहृतम्
यो दद्यात्तद्व्यतीपाते पीतोर्णायुगसंयुतम् राजसूयसहस्रस्य फलमाप्नोति मानवः हेमधेन्वा युतं तच्च ब्रह्मलोकफलप्रदम्
चतुर्लक्षमिदं प्रोक्तं व्यासेनाद्भुतकर्मणा मत्पितुर्मम पित्रा च मया तुभ्यं निवेदितम्
इह लोकहितार्थाय संक्षिप्तं परमर्षिणा इदमद्यापि देवेषु शतकोटिप्रविस्तरम्
उपभेदान्प्रवक्ष्यामि लोके ये सम्प्रतिष्ठिताः पाद्मे पुराणे यत्रोक्तं नरसिंहोपवर्णनम् तच्चाष्टादशसाहस्रं नारसिंहमिहोच्यते
नन्दाया यत्र माहात्म्यं कार्त्तिकेयेन वर्ण्यते नन्दीपुराणं तल्लोकैर् आख्यातमिति कीर्त्यते
यत्र साम्बं पुरस्कृत्य भविष्यति कथानकम् प्रोच्यते तत्पुनर्लोके साम्बमेतन्मुनिव्रताः
पुरातनस्य कल्पस्य पुराणानि विदुर्बुधाः धन्यं यशस्यमायुष्यं पुराणानामनुक्रमम् एवमादित्यसंज्ञा च तत्रैव परिगद्यते
अष्टादशभ्यस्तु पृथक् पुराणं यत्प्रदिश्यते विजानीध्वं द्विजश्रेष्ठास् तदेतेभ्यो विनिर्गतम्
पञ्चाङ्गानि पुराणेषु आख्यानकमिति स्मृतम् सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च वंश्यानुचरितं चैव पुराणं पञ्चलक्षणम्
ब्रह्मविष्ण्वर्करुद्राणां माहात्म्यं भुवनस्य च ससंहारप्रदानां च पुराणे पञ्चवर्णके