प्रतिलिख्य च यो दद्यात् सौवर्णकरिसंयुतम् कार्त्तिक्यां पुण्डरीकस्य यज्ञस्य फलभाग्भवेत्
यत् तद् ईशानकं कल्पं वृत्तान्तमधिकृत्य च वसिष्ठायाग्निना प्रोक्तम् आग्नेयं तत्प्रचक्षते
लिखित्वा तच्च यो दद्याद् धेमपद्मसमन्वितम् मार्गशीर्ष्यां विधानेन तिलधेनुसमन्वितम्
तच्च षोडशसाहस्रं सर्वक्रतुफलप्रदम् यः प्रदधन्नरः सो ऽथ स्वर्गलोके महीयते
यत्राधिकृत्य माहात्म्यम् आदित्यस्य चतुर्मुखः अघोरकल्पवृत्तान्तप्रसङ्गेन जगत्स्थितिम् मनवे कथयामास भूतग्रामस्य लक्षणम्
चतुर्दश सहस्राणि तथा पञ्च शतानि च भविष्यचरितप्रायं भविष्यं तदिहोच्यते
तत्पौषे मासि यो दद्यात् पौर्णमास्यां विमत्सरः गुडकुम्भसमायुक्तम् अग्निष्टोमफलं भवेत्
रथंतरस्य कल्पस्य वृत्तान्तमधिकृत्य च सावर्णिना नारदाय कृष्णमाहात्म्यमुत्तमम्
यत्र ब्रह्मवराहस्य चोदन्तं वर्णितं मुहुः तदष्टादशसाहस्रं ब्रह्मवैवर्तमुच्यते
पुराणं ब्रह्मवैवर्तं यो दद्यान्माघमासि च पौर्णमास्यां शुभदिने ब्रह्मलोके महीयते
यत्राग्निलिङ्गमध्यस्थः प्राह देवो महेश्वरः धर्मार्थकाममोक्षार्थम् आग्नेयमधिकृत्य च
कल्पान्ते लैङ्गमित्युक्तं पुराणं ब्रह्मणा स्वयम् तदेकादशसाहस्रं फाल्गुन्यां यः प्रयच्छति तिलधेनुसमायुक्तं स याति शिवसाम्यताम्
महावराहस्य पुनर् माहात्म्यमधिकृत्य च विष्णुनाभिहितं क्षोण्यै तद्वाराहम् इहोच्यते
मानवस्य प्रसङ्गेन कल्पस्य मुनिसत्तमाः चतुर्विंशत्सहस्राणि तत्पुराणमिहोच्यते
काञ्चनं गरुडं कृत्वा तिलधेनुसमन्वितम् पौर्णमास्यां मधौ दद्याद् ब्राह्मणाय कुटुम्बिने वराहस्य प्रसादेन पदमाप्नोति वैष्णवम्
यत्र माहेश्वरान्धर्मान् अधिकृत्य च षण्मुखः कल्पे तत्पुरुषं वृत्तं चरितैरुपबृंहितम्
स्कान्दं नाम पुराणं च ह्य् एकाशीतिर्निगद्यते सहस्राणि शतं चैकम् इति मर्त्येषु गद्यते
परिलिख्य च यो दद्याद् धेमशूलसमन्वितम् शैवं पदमवाप्नोति मीने चोपागते रवौ
त्रिविक्रमस्य माहात्म्यम् अधिकृत्य चतुर्मुखः त्रिवर्गमभ्यधात्तच्च वामनं परिकीर्तितम्
पुराणं दशसाहस्रं कूर्मकल्पानुगं शिवम् यः शरद्विषुवे दद्याद् वैष्णवं यात्यसौ पदम्
यत्र धर्मार्थकामानां मोक्षस्य च रसातले माहात्म्यं कथयामास कूर्मरूपी जनार्दनः
इन्द्रद्युम्नप्रसङ्गेन ऋषिभ्यः शक्रसंनिधौ अष्टादश सहस्राणि लक्ष्मीकल्पानुषङ्गिकम्
यो दद्यादयने कूर्मं हेमकूर्मसमन्वितम् गोसहस्रप्रदानस्य फलं सम्प्राप्नुयान्नरः
श्रुतीनां यत्र कल्पादौ प्रवृत्त्यर्थं जनार्दनः मत्स्यरूपेण मनवे नरसिंहोपवर्णनम्
अधिकृत्याब्रवीत्सप्तकल्पवृत्तं मुनीश्वराः तन्मात्स्यमिति जानीध्वं सहस्राणि चतुर्दश
विषुवे हेममत्स्येन धेन्वा चैव समन्वितम् यो दद्यात्पृथिवी तेन दत्ता भवति चाखिला
यदा च गारुडे कल्पे विश्वाण्डाद्गरुडोद्भवम् अधिकृत्याब्रवीत्कृष्णो गारुडं तदिहोच्यते
तद् अष्टादशकं चैकं सहस्राणीह पठ्यते सौवर्णहंससंयुक्तं यो ददाति पुमानिह स सिद्धिं लभते मुख्यां शिवलोके च संस्थितिम्
ब्रह्मा ब्रह्माण्डमाहात्म्यम् अधिकृत्याब्रवीत्पुनः तच्च द्वादशसाहस्रं ब्रह्माण्डं द्विशताधिकम्
भविष्याणां च कल्पानां श्रूयते यत्र विस्तरः तद्ब्रह्माण्डपुराणं च ब्रह्मणा समुदाहृतम्