ॐ ॐ ब्रह्मणा चाथ सूर्येण विष्णुनाथ शिवेन वा अभेदात्पूजितेन स्यात् पूजितं सचराचरम्
ब्रह्मादीनां परं धाम त्रयाणामपि संस्थितिः वेदमूर्ताव् अतः पूषा पूजनीयः प्रयत्नतः
तस्मादग्निद्विजमुखान् कृत्वा सम्पूजयेदिमान् दानैर्व्रतोपवासैश्च जपहोमादिना नरः
इति क्रियायोगपरायणस्य वेदान्तशास्त्रस्मृतिवत्सलस्य विकर्मभीतस्य सदा न किंचित् प्राप्तव्यमस्तीह परे च लोके
पुराणसंख्यामाचक्ष्व सूत विस्तरशः क्रमात् दानधर्ममशेषं तु यथावदनुपूर्वशः
इदमेव पुराणेषु पुराणपुरुषस्तदा यदुक्तवान्स विश्वात्मा मनवे तन्निबोधत
पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिर्गताः
पुराणमेकमेवासीत् तदा कल्पान्तरे ऽनघ त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम्
निर्दग्धेषु च लोकेषु वाजिरूपेण वै मया अङ्गानि चतुरो वेदान् पुराणं न्यायविस्तरम्
मीमांसां धर्मशास्त्रं च परिगृह्य मया कृतम् मत्स्यरूपेण च पुनः कल्पादावुदकार्णवे
अशेषम् एतत्कथितम् उदकान्तर्गतेन च श्रुत्वा जगाद च मुनीन् प्रति देवांश्चतुर्मुखः
प्रवृत्तिः सर्वशास्त्राणां पुराणस्याभवत्ततः कालेनाग्रहणं दृष्ट्वा पुराणस्य ततो नृप
व्यासरूपमहं कृत्वा संहरामि युगे युगे चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा
तथाष्टादशधा कृत्वा भूर्लोके ऽस्मिन्प्रकाश्यते अद्यापि देवलोके ऽस्मिञ् छतकोटिप्रविस्तरम्
तदर्थो ऽत्र चतुर्लक्षं संक्षेपेण निवशितः पुराणानि दशाष्टौ च साम्प्रतं तदिहोच्यते
नामतस्तानि वक्ष्यामि शृणुध्वं मुनिसत्तमाः ब्रह्मणाभिहितं पूर्वं यावन्मात्रं मरीचये
ब्राह्मं त्रिदशसाहस्रं पुराणं परिकीर्त्यते लिखित्वा तच्च यो दद्याज् जलधेनुसमन्वितम् वैशाखपूर्णिमायां च ब्रह्मलोके महीयते
एतदेव यदा पद्मम् अभूद्धैरण्मयं जगत् तद्वृत्तान्ताश्रयं तद्वत् पाद्ममित्युच्यते बुधैः पाद्मं तत्पञ्चपञ्चाशत्सहस्राणीह कथ्यते
तत्पुराणं च यो दद्यात् सुवर्णकमलान्वितम् ज्येष्ठे मासि तिलैर्युक्तम् अश्वमेधफलं लभेत्
वाराहकल्पवृत्तान्तम् अधिकृत्य पराशरः यत्प्राह धर्मानखिलांस् तद्युक्तं वैष्णवं विदुः
तदाषाढे च यो दद्याद् घृतधेनुसमन्वितम् पौर्णमास्यां विपूतात्मा स पदं याति वारुणम् त्रयोविंशतिसाहस्रं तत्प्रमाणं विदुर्बुधाः
श्वेतकल्पप्रसङ्गेन धर्मान्वायुरिहाब्रवीत् यत्र तद्वायवीयं स्याद् रुद्रमाहात्म्यसंयुतम् चतुर्विंशसहस्राणि पुराणं तदिहोच्यते
श्रावण्यां श्रावणे मासि गुडधेनुसमन्वितम् यो दद्याद्वृषसंयुक्तं ब्राह्मणाय कुटुम्बिने शिवलोके स पूतात्मा कल्पमेकं वसेन्नरः
यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तरः वृत्रासुरवधोपेतं तद्भागवतमुच्यते
सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरोत्तमाः तद्वृत्तान्तोद्भवं लोके तद्भागवतमुच्यते
लिखित्वा तच्च यो दद्याद् धेमसिंहसमन्वितम् पौर्णमास्यां प्रौष्ठपद्यां स याति परमां गतिम् अष्टादश सहस्राणि पुराणं तत्प्रचक्षते
यत्राह नारदो धर्मान् बृहत्कल्पाश्रयाणि च पञ्चविंशत्सहस्राणि नारदीयं तदुच्यते
आश्विने पञ्चदश्यां तु दद्याद्धेनुसमन्वितम् परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम्
यत्राधिकृत्य शकुनीन् धर्माधर्मविचारणा व्याख्याता वै मुनिप्रश्ने मुनिभिर्धर्मचारिभिः
मार्कण्डेयेन कथितं तत्सर्वं विस्तरेण तु पुराणं नवसाहस्रं मार्कण्डेयम् इहोच्यते