इत्येते ह्यग्नयः प्रोक्ताः प्रणीता ये हि चाध्वरे समतीते तु सर्गे ये यामैः सह सुरोत्तमैः
स्वायम्भुवे ऽन्तरे पूर्वम् अग्नयस्ते ऽभिमानिनः एते विहरणीयेषु चेतनाचेतनेष्विह
स्थानाभिमानिनो ऽग्नीध्राः प्रागासन्हव्यवाहनाः काम्यनैमित्तिकाद्यास्ते ये ते कर्मस्ववस्थिताः
पूर्वे मन्वन्तरे ऽतीते शुक्रैर्यामैश्च तैः सह एते देवगणैः सार्धं प्रथमस्यान्तरे मनोः
इत्येता योनयो ह्यक्ताः स्थानाख्या जातवेदसाम् स्वारोचिषादिषु ज्ञेयाः सवर्णान्तेषु सप्तसु
तैरेवं तु प्रसंख्यातं साम्प्रतानागतेष्विह मन्वन्तरेषु सर्वेषु लक्षणं जातवेदसाम्
मन्वन्तरेषु सर्वेषु नानारूपप्रयोजनैः वर्तन्ते वर्तमानैश्च यामैर्देवैः सहाग्नयः
अनागतैः सुरैः सार्धं वत्स्यन्तो ऽनागतास्त्वथ इत्येष प्रचयो ऽग्नीनां मया प्रोक्तो यथाक्रमम् विस्तरेणानुपूर्व्या च किमन्यच्छ्रोतुमिच्छथ
इदानीं प्राह यद्विष्णुः पृष्टः परममुत्तमम् तदिदानीं समाचक्ष्व धर्माधर्मस्य विस्तरम्
एवमेकार्णवे तस्मिन् मत्स्यरूपी जनार्दनः विस्तारमादिसर्गस्य प्रतिसर्गस्य चाखिलम्
कथयामास विश्वात्मा मनवे सूर्यसूनवे कर्मयोगं च सांख्यं च यथावद्विस्तरान्वितम्
श्रोतुमिच्छामहे सूत कर्मयोगस्य लक्षणम् यस्मादविदितं लोके न किंचित्तव सुव्रत
कर्मयोगं च वक्ष्यामि यथा विष्णुविभाषितम् ज्ञानयोगसहस्राद्धि कर्मयोगः प्रशस्यते
कर्मयोगोद्भवं ज्ञानं तस्मात्तत्परमं पदम् कर्मज्ञानोद्भवं ब्रह्म न च ज्ञानमकर्मणः
तस्मात्कर्मणि युक्तात्मा तत्त्वमाप्नोति शाश्वतम् वेदो ऽखिलो धर्ममूलम् आचारश्चैव तद्विदाम्
अष्टावात्मगुणास् तस्मिन् प्रधानत्वेन संस्थिताः दया सर्वेषु भूतेषु क्षान्ती रक्षातुरस्य तु
अनसूया तथा लोके शौचमन्तर्बहिर्द्विजाः अनायासेषु कार्येषु माङ्गल्याचारसेवनम्
न च द्रव्येषु कार्पण्यम् आर्तेषूपार्जितेषु च तथास्पृहा परद्रव्ये परस्त्रीषु च सर्वदा
अष्टावात्मगुणाः प्रोक्ताः पुराणस्य तु कोविदैः अयमेव क्रियायोगो ज्ञानयोगस्य साधकः
कर्मयोगं विना ज्ञानं कस्यचिन् नेह दृश्यते श्रुतिस्मृत्युदितं धर्मम् उपतिष्ठेत्प्रयत्नतः
देवतानां पितॄणां च मनुष्याणां च सर्वदा कुर्यादहरहर्यज्ञैर् भूतर्षिगणतर्पणम्
स्वाध्यायैरर्चयेच्चर्षीन् होमैर्विद्वान्यथाविधि पितॄञ्छ्राद्धैर् अन्नदानैर् भूतानि बलिकर्मभिः
पञ्चैते विहिता यज्ञाः पञ्चसूनापनुत्तये कण्डनी पेषणी चुल्ली जलकुम्भी प्रमार्जनी
पञ्च सूना गृहस्थस्य तेन स्वर्गं न गच्छति तत्पापनाशनायामी पञ्च यज्ञाः प्रकीर्तिताः
द्वाविंशतिस्तथाष्टौ च ये संस्काराः प्रकीर्तिताः तद्युक्तो ऽपि न मोक्षाय यस्त्वात्मगुणवर्जितः
तस्मादात्मगुणोपेतः श्रुतिकर्म समाचरेत् गोब्राह्मणानां वित्तेन सर्वदा भद्रमाचरेत्
गोभूहिरण्यवासोभिर् गन्धमाल्योदकेन च पूजयेद्ब्रह्मविष्ण्वर्करुद्रवस्वात्मकं शिवम्
व्रतोपवासैर् विधिवच्छ्रद्धया च विमत्सरः यो ऽसाव् अतीन्द्रियः शान्तः सूक्ष्मो ऽव्यक्तः सनातनः वासुदेवो जगन्मूर्तिस् तस्य सम्भूतयो ह्य् अमी
ब्रह्मा विष्णुश्च भगवान् मार्तण्डो वृषवाहनः अष्टौ च वसवस्तद्वद् एकादश गणाधिपाः लोकपालाधिपाश्चैव पितरो मातरस्तथा
इमा विभूतयः प्रोक्ताश् चराचरसमन्विताः ब्रह्माद्याश् चतुरो मूलम् अव्यक्ताधिपतिः स्मृतः