पिबन्नपः स वसति समुद्रे वडवामुखे समुद्रवासिनः पुत्रः सहरक्षो विभाव्यते
सहरक्षस्तु वै कामान् गृहे स वसते नृणाम् क्रव्यादग्निः सुतस्तस्य पुरुषान्यो ऽत्ति वै मृतान्
इत्येते पावकस्याग्नेर् द्विजैः पुत्राः प्रकीर्तिताः ततः सुतास्तु सौवीर्याद् गन्धर्वैरसुरैर् हृताः
मथितो यस्त्वरण्यां तु सो ऽग्निराप समिन्धनम् आयुर् नाम्ना तु भगवान् पशौ यस्तु प्रणीयते
आयुषो महिमान्पुत्रो दहनस्तु ततः सुतः पाकयज्ञेष्व् अभीमानी हुतं हव्यं भुनक्ति यः
सर्वस्माद्देवलोकाच्च हव्यं कव्यं भुनक्ति यः पुत्रो ऽस्य सहितो ह्यग्निर् अद्भुतः स महायशाः
प्रायश्चित्तेष्वभीमानी हृतं हव्यं भुनक्ति यः अद्भुतस्य सुतो वीरो देवांशस्तु महान्स्मृतः
विविधाग्निस्ततस्तस्य तस्य पुत्रो महाकविः विविधाग्निसुतादर्काद् अग्नयो ऽष्टौ सुताः स्मृताः
काम्यास्विष्टिष्वभीमानी रक्षोहायतिकृच्च यः सुरभिर्वसुमान्नादो हर्यश्वश्चैव रुक्मवान्
प्रवर्ग्यः क्षेमवांश्चैव इत्यष्टौ च प्रकीर्तिताः शुच्यग्नेस्तु प्रजा ह्येषा अग्नयश्च चतुर्दश
इत्येते ह्यग्नयः प्रोक्ताः प्रणीता ये हि चाध्वरे समतीते तु सर्गे ये यामैः सह सुरोत्तमैः
स्वायम्भुवे ऽन्तरे पूर्वम् अग्नयस्ते ऽभिमानिनः एते विहरणीयेषु चेतनाचेतनेष्विह
स्थानाभिमानिनो ऽग्नीध्राः प्रागासन्हव्यवाहनाः काम्यनैमित्तिकाद्यास्ते ये ते कर्मस्ववस्थिताः
पूर्वे मन्वन्तरे ऽतीते शुक्रैर्यामैश्च तैः सह एते देवगणैः सार्धं प्रथमस्यान्तरे मनोः
इत्येता योनयो ह्यक्ताः स्थानाख्या जातवेदसाम् स्वारोचिषादिषु ज्ञेयाः सवर्णान्तेषु सप्तसु
तैरेवं तु प्रसंख्यातं साम्प्रतानागतेष्विह मन्वन्तरेषु सर्वेषु लक्षणं जातवेदसाम्
मन्वन्तरेषु सर्वेषु नानारूपप्रयोजनैः वर्तन्ते वर्तमानैश्च यामैर्देवैः सहाग्नयः
अनागतैः सुरैः सार्धं वत्स्यन्तो ऽनागतास्त्वथ इत्येष प्रचयो ऽग्नीनां मया प्रोक्तो यथाक्रमम् विस्तरेणानुपूर्व्या च किमन्यच्छ्रोतुमिच्छथ
इदानीं प्राह यद्विष्णुः पृष्टः परममुत्तमम् तदिदानीं समाचक्ष्व धर्माधर्मस्य विस्तरम्
एवमेकार्णवे तस्मिन् मत्स्यरूपी जनार्दनः विस्तारमादिसर्गस्य प्रतिसर्गस्य चाखिलम्
कथयामास विश्वात्मा मनवे सूर्यसूनवे कर्मयोगं च सांख्यं च यथावद्विस्तरान्वितम्
श्रोतुमिच्छामहे सूत कर्मयोगस्य लक्षणम् यस्मादविदितं लोके न किंचित्तव सुव्रत
कर्मयोगं च वक्ष्यामि यथा विष्णुविभाषितम् ज्ञानयोगसहस्राद्धि कर्मयोगः प्रशस्यते
कर्मयोगोद्भवं ज्ञानं तस्मात्तत्परमं पदम् कर्मज्ञानोद्भवं ब्रह्म न च ज्ञानमकर्मणः
तस्मात्कर्मणि युक्तात्मा तत्त्वमाप्नोति शाश्वतम् वेदो ऽखिलो धर्ममूलम् आचारश्चैव तद्विदाम्
अष्टावात्मगुणास् तस्मिन् प्रधानत्वेन संस्थिताः दया सर्वेषु भूतेषु क्षान्ती रक्षातुरस्य तु
अनसूया तथा लोके शौचमन्तर्बहिर्द्विजाः अनायासेषु कार्येषु माङ्गल्याचारसेवनम्
न च द्रव्येषु कार्पण्यम् आर्तेषूपार्जितेषु च तथास्पृहा परद्रव्ये परस्त्रीषु च सर्वदा
अष्टावात्मगुणाः प्रोक्ताः पुराणस्य तु कोविदैः अयमेव क्रियायोगो ज्ञानयोगस्य साधकः
कर्मयोगं विना ज्ञानं कस्यचिन् नेह दृश्यते श्रुतिस्मृत्युदितं धर्मम् उपतिष्ठेत्प्रयत्नतः