इत्येष पौरवो वंशो यथावदिह कीर्तितः धीमतः पाण्डुपुत्रस्य चार्जुनस्य महात्मनः
ये पूज्याः स्युर् द्विजातीनाम् अग्नयः सूत सर्वदा तानिदानीं समाचक्ष्व तद्वंशं चानुपूर्वशः
यो ऽसाव् अग्निरभीमानी स्मृतः स्वायम्भुवे ऽन्तरे ब्रह्मणो मानसः पुत्रस् तस्मात्स्वाहा व्यजीजनत्
पावकं पवमानं च शुचिरग्निश्च यः स्मृतः निर्मथ्यः पवमानो ऽग्निर् वैद्युतः पावकात्मजः
शुचिरग्निः स्मृतः सौरः स्थावराश्चैव ते स्मृताः पवमानात्मजो ह्य् अग्निर् हव्यवाहः स उच्यते
पावकः सहरक्षस्तु हव्यवाहमुखः शुचिः देवानां हव्यवाहो ऽग्निः प्रथमो ब्रह्मणः सुतः
सहरक्षः सुराणां तु त्रयाणां ते त्रयो ऽग्नयः एतेषां पुत्रपौत्राश्च चत्वारिंशत्तथैव च
प्रवक्ष्ये नामतस्तान्वै प्रविभागेन तान्पृथक् पावनो लौकिको ह्य् अग्निः प्रथमो ब्रह्मणश्च यः
ब्रह्मौदनाग्निस् तत्पुत्रो भरतो नाम विश्रुतः वैश्वानरो हव्यवाहो वहन्हव्यं ममार सः
स मृतो ऽथर्वणः पुत्रो मथितः पुष्करोदधिः यो ऽथर्वा लौकिको ह्य् अग्निर् दक्षिणाग्निः स उच्यते
भृगोः प्रजायताथर्वा ह्य् अङ्गिराथर्वणः स्मृतः तस्य ह्य् अलौकिको ह्य् अग्निर् दक्षिणाग्निः स वै स्मृतः
अथ यः पवमानस्तु निर्मथ्यो ऽग्निः स उच्यते स च वै गार्हपत्यो ऽग्निः प्रथमो ब्रह्मणः स्मृतः
ततः सभ्यावसथ्यौ च संशत्यास् तौ सुतावुभौ ततः षोडश नद्यस्तु चकमे हव्यवाहनः यः खल्वाहवनीयो ऽग्निर् अभिमानी द्विजैः स्मृतः
कावेरीं कृष्णवेणीं च नर्मदां यमुनां तथा गोदावरीं वितस्तां च चन्द्रभागामिरावतीम्
विपाशां कौशिकीं चैव शतद्रुं सरयूं तथा सीतां मनस्विनीं चैव ह्रादिनीं पावनां तथा
तासु षोडशधात्मानं प्रविभज्य पृथक्पृथक् तदा तु विहरंस्तासु धिष्ण्येच्छः स बभूव ह
स्वाभिधानस्थिता धिष्ण्यास् तासूत्पन्नाश्च धिष्णवः धिष्ण्येषु जज्ञिरे यस्मात् ततस्ते धिष्णवः स्मृताः
इत्येते वै नदीपुत्रा धिष्ण्येषु प्रतिपेदिरे तेषां विहरणीया ये उपस्थेयाश्च ताञ्शृणु विभुः प्रवाहणो ऽग्नीध्रस् तत्रस्था धिष्णवो ऽपरे
विहरति यथास्थानं पुण्याहे समुपक्रमे अनिर्देश्यानिवार्याणाम् अग्नीनां शृणुत क्रमम्
वासवो ऽग्निः कृशानुर्यो द्वितीयोत्तरवेदिकः सम्राडग्निसुतो ह्यष्टाव् उपतिष्ठन्ति तान्द्विजाः
पर्जन्यः पवमानस्तु द्वितीयः सो ऽनुदृश्यते पावकोष्णः समूह्यस्तु वोत्तरे सो ऽग्निरुच्यते
हव्यसूदो ह्य् असंमृज्यः शामित्रः स विभाव्यते शतधामा सुधाज्योती रौद्रैश्वर्यः स उच्यते
ब्रह्मज्योतिर् वसुधामा ब्रह्मस्थानीय उच्यते अजैकपादुपस्थेयः स वै शालामुखो यतः
अनिर्देश्यो ह्यहिर्बुध्न्यो बहिरन्ते तु दक्षिणौ पुत्रा ह्येते तु सर्वस्य उपस्थेया द्विजैः स्मृताः
ततो विहरणीयांस्तु वक्ष्याम्यष्टौ तु तान्सुतान् हौत्रियस्य सुतो ह्यग्निर् बर्हिषो हव्यवाहनः
प्रशंस्यो ऽग्निः प्रचेतास्तु द्वितीयः संसहायकः सुतो ह्यग्नेर् विश्ववेदा ब्राह्मणाच्छंसिरुच्यते
अपां योनिः स्मृतः स्वाम्भः सेतुर्नाम विभाव्यते धिष्ण्य आहरणा ह्येते सोमेनेज्यन्त वै द्विजैः
ततो यः पावको नाम्ना यः सद्भिर्योग उच्यते अग्निः सो ऽवभृथो ज्ञेयो वरुणेन सहेज्यते
हृदयस्य सुतो ह्यग्नेर् जठरे ऽसौ नृणां पचन् मन्युमाञ्जठरश्चाग्निर् विद्धाग्निः सततं स्मृतः
परस्परोत्थितो ह्यग्निर् भूतानीह विभुर्दहन् अग्नेर्मन्युमतः पुत्रो घोरः संवर्तकः स्मृतः