त्यक्त्वा विवक्षुर्नगरं कौशाम्ब्यां तु निवत्स्यति भविष्याष्टौ सुतास्तस्य महाबलपराक्रमाः
भूरिर्ज्येष्ठः सुतस्तस्य तस्य चित्ररथः स्मृतः शुचिद्रवश्चित्ररथाद् वृष्णिमांश्च शुचिद्रवात्
वृष्णिमतः सुषेणश्च भविष्यति शुचिर्नृपः तस्मात्सुषेणाद्भविता सुनीथो नाम पार्थिवः
नृपात्सुनीथाद्भविता नृचक्षुः सुमहायशाः नृचक्षुषस्तु दायादो भविता वै सुखीवलः
सुखीवलसुतश्चापि भावी राजा परिष्णवः परिष्णवसुतश्चापि भविता सुतपा नृपः
मेधावी तस्य दायादो भविष्यति न संशयः मेधाविनः सुतश्चापि भविष्यति पुरंजयः
उर्वो भाव्यः सुतस्तस्य तिग्मात्मा तस्य चात्मजः तिग्माद्बृहद्रथो भाव्यो वसुदामा बृहद्रथात्
वसुदाम्नः शतानीको भविष्योदयनस्ततः भविष्यते चोदयनाद् वीगे राजा वहीनरः
वहीनरात्मजश्चैव दण्डपाणिर्भविष्यति दण्डपाणेर्निरमित्रो निरमित्रात्तु क्षेमकः
अत्रानुवंशश्लोको ऽयं गीतो विप्रैः पुरातनैः ब्रह्मक्षत्रस्य यो योनिर् वंशो देवर्षिसत्कृतः क्षेमकं प्राप्य राजानं संस्थास्यति कलौ युगे
इत्येष पौरवो वंशो यथावदिह कीर्तितः धीमतः पाण्डुपुत्रस्य चार्जुनस्य महात्मनः
ये पूज्याः स्युर् द्विजातीनाम् अग्नयः सूत सर्वदा तानिदानीं समाचक्ष्व तद्वंशं चानुपूर्वशः
यो ऽसाव् अग्निरभीमानी स्मृतः स्वायम्भुवे ऽन्तरे ब्रह्मणो मानसः पुत्रस् तस्मात्स्वाहा व्यजीजनत्
पावकं पवमानं च शुचिरग्निश्च यः स्मृतः निर्मथ्यः पवमानो ऽग्निर् वैद्युतः पावकात्मजः
शुचिरग्निः स्मृतः सौरः स्थावराश्चैव ते स्मृताः पवमानात्मजो ह्य् अग्निर् हव्यवाहः स उच्यते
पावकः सहरक्षस्तु हव्यवाहमुखः शुचिः देवानां हव्यवाहो ऽग्निः प्रथमो ब्रह्मणः सुतः
सहरक्षः सुराणां तु त्रयाणां ते त्रयो ऽग्नयः एतेषां पुत्रपौत्राश्च चत्वारिंशत्तथैव च
प्रवक्ष्ये नामतस्तान्वै प्रविभागेन तान्पृथक् पावनो लौकिको ह्य् अग्निः प्रथमो ब्रह्मणश्च यः
ब्रह्मौदनाग्निस् तत्पुत्रो भरतो नाम विश्रुतः वैश्वानरो हव्यवाहो वहन्हव्यं ममार सः
स मृतो ऽथर्वणः पुत्रो मथितः पुष्करोदधिः यो ऽथर्वा लौकिको ह्य् अग्निर् दक्षिणाग्निः स उच्यते
भृगोः प्रजायताथर्वा ह्य् अङ्गिराथर्वणः स्मृतः तस्य ह्य् अलौकिको ह्य् अग्निर् दक्षिणाग्निः स वै स्मृतः
अथ यः पवमानस्तु निर्मथ्यो ऽग्निः स उच्यते स च वै गार्हपत्यो ऽग्निः प्रथमो ब्रह्मणः स्मृतः
ततः सभ्यावसथ्यौ च संशत्यास् तौ सुतावुभौ ततः षोडश नद्यस्तु चकमे हव्यवाहनः यः खल्वाहवनीयो ऽग्निर् अभिमानी द्विजैः स्मृतः
कावेरीं कृष्णवेणीं च नर्मदां यमुनां तथा गोदावरीं वितस्तां च चन्द्रभागामिरावतीम्
विपाशां कौशिकीं चैव शतद्रुं सरयूं तथा सीतां मनस्विनीं चैव ह्रादिनीं पावनां तथा
तासु षोडशधात्मानं प्रविभज्य पृथक्पृथक् तदा तु विहरंस्तासु धिष्ण्येच्छः स बभूव ह
स्वाभिधानस्थिता धिष्ण्यास् तासूत्पन्नाश्च धिष्णवः धिष्ण्येषु जज्ञिरे यस्मात् ततस्ते धिष्णवः स्मृताः
इत्येते वै नदीपुत्रा धिष्ण्येषु प्रतिपेदिरे तेषां विहरणीया ये उपस्थेयाश्च ताञ्शृणु विभुः प्रवाहणो ऽग्नीध्रस् तत्रस्था धिष्णवो ऽपरे
विहरति यथास्थानं पुण्याहे समुपक्रमे अनिर्देश्यानिवार्याणाम् अग्नीनां शृणुत क्रमम्
वासवो ऽग्निः कृशानुर्यो द्वितीयोत्तरवेदिकः सम्राडग्निसुतो ह्यष्टाव् उपतिष्ठन्ति तान्द्विजाः