देवदत्ताः सुताः पञ्च पाण्डोरर्थे ऽभिजज्ञिरे धर्माद्युधिष्ठिरो जज्ञे मारुताच्च वृकोदरः
इन्द्राद्धनंजयश्चैव इन्द्रतुल्यपराक्रमः नकुलं सहदेवं च माद्र्यश्विभ्यामजीजनत्
पञ्चैते पाण्डवेभ्यस्तु द्रौपद्यां जज्ञिरे सुताः द्रौपद्यजनयच्छ्रेष्ठं प्रतिविन्ध्यं युधिष्ठिरात्
श्रुतसेनं भीमसेनाच् छ्रुतकीर्तिं धनंजयात् चतुर्थं श्रुतकर्माणं सहदेवाद् अजायत
नकुलाच्च शतानीकं द्रौपदेयाः प्रकीर्तिताः तेभ्यो ऽपरे पाण्डवेयाः षडेवान्ये महारथाः
हैडम्बो भीमसेनात्तु पुत्रो जज्ञे घटोत्कचः काशी बलधराद्भीमाज् जज्ञे वै सर्वगं सुतम्
सुहोत्रं तनयं माद्री सहदेवादसूयत करेणुमत्यां चैद्यायां निरमित्रस्तु नाकुलिः
सुभद्रायां रथी पार्थाद् अभिमन्युरजायत यौधेयं देवकी चैव पुत्रं जज्ञे युधिष्ठिरात्
अभिमन्योः परीक्षित्तु पुत्रः परपुरजयः जनमेजयः परीक्षितः पुत्रः परमधार्मिकः
ब्रह्माणं कल्पयामास स वै वाजसनेयकम् स वैशम्पायनेनैव शप्तः किल महर्षिणा
न स्थास्यतीह दुर्बुद्धे तवैतद्वचनं भुवि यावत्स्थास्यसि त्वं लोके तावदेव प्रपत्स्यति
क्षत्रस्य विजयं ज्ञात्वा ततःप्रभृति सर्वशः अभिगम्य स्थिताश्चैव नृपं च जनमेजयम्
ततःप्रभृति शापेन क्षत्रियस्य तु याजिनः उत्सन्ना याजिनो यज्ञे ततःप्रभृति सर्वशः
क्षत्रस्य याजिनः केचिच् छापात्तस्य महात्मनः पौर्णमासेन हविषा इष्ट्वा तस्मिन्प्रजापतिम् स वैशम्पायनेनैव प्रविशन्वारितस्ततः
परीक्षितः सुतो ऽसौ वै पौरवो जनमेजयः द्विर् अश्वमेधमाहृत्य महावाजसनेयकः
प्रवर्तयित्वा तं सर्वम् ऋषिं वाजसनेयकम् विवादे ब्राह्मणैः सार्धम् अभिशप्तो वनं ययौ
जनमेजयाच्छतानीकस् तस्माज्जज्ञे स वीर्यवान् जनमेजयः शतानीकं पुत्रं राज्ये ऽभिषिक्तवान्
अथाश्वमेधेन ततः शतानीकस्य वीर्यवान् जज्ञे ऽधिसोमकृष्णाख्यः साम्प्रतं यो महायशाः
तस्मिञ्छासति राष्ट्रं तु युष्माभिरिदमाहृतम् दुरापं दीर्घसत्त्रं वै त्रीणि वर्षाणि पुष्करे वर्षद्वयं कुरुक्षेत्रे दृषद्वत्यां द्विजोत्तमाः
भविष्यं श्रोतुमिच्छामः प्रजानां लोमहर्षणे पुरा किल यदेतद्वै व्यतीतं कीर्तितं त्वया
येषु वै स्थास्यते क्षत्रम् उत्पत्स्यन्ते नृपाश्च ये तेषाम् आयुष्प्रमाणं च नामतश्चैव तान्नृपान्
कृतयुगप्रमाणं च त्रेताद्वापरयोस्तथा कलियुगप्रमाणं च युगदोषं युगक्षयम्
सुखदुःखप्रमाणं च प्रजादोषं युगस्य तु एतत्सर्वं प्रसंख्याय पृच्छतां ब्रूहि नः प्रभो
यथा मे कीर्तितं पूर्वं व्यासेनाक्लिष्टकर्मणा भाव्यं कलियुगं चैव तथा मन्वन्तराणि च
अनागतानि सर्वाणि ब्रुवतो मे निबोधत अत ऊर्ध्वं प्रवक्ष्यामि भविष्या ये नृपास्तथा
ऐडेक्ष्वाक्वन्वये चैव पौरवे चान्वये तथा येषु संस्थास्यते तच्च ऐडेक्ष्वाकुकुलं शुभम् तान्सर्वान्कीर्तयिष्यामि भविष्ये कथितान्नृपान्
तेभ्यो ऽपरे ऽपि ये त्व् अन्ये ह्य् उत्पत्स्यन्ते नृपाः पुनः क्षत्राः पारशवाः शूद्रास् तथान्ये ये बहिश्चराः
अन्धाः शकाः पुलिन्दाश्च चूलिका यवनास्तथा कैवर्ताभीरशबरा ये चान्ये म्लेच्छसम्भवाः पर्यायतः प्रवक्ष्यामि नामतश्चैव तान्नृपान्
अधिसोमकृष्णश् चैतेषां प्रथमं वर्तते नृपः तस्यान्ववाये वक्ष्यामि भविष्ये कथितान्नृपान्
अधिसोमकृष्णपुत्रस्तु विवक्षुर्भविता नृपः गङ्गया तु हृते तस्मिन् नगरे नागसाह्वये