इल्वलो नमुचिश्चैव श्वसृपश् चाजनस् तथा नरकः कालनाभश्च सरमाणस् तथैव च
कालवीयेश् च विख्यातो दनुवंशविवर्धनाः संह्रादस्य तु दैत्यस्य निवातकवचाः स्मृताः
अवध्याः सर्वदेवानां गन्धर्वोरगरक्षसाम् ये हता भर्गम् आश्रित्य त्व् अर्जुनेन रणाजिरे
षट्कन्या जनयामास ताम्रा मारीचबीजतः शुकी श्येनी च भासी च सुग्रीवी गृध्रिका शुचिः
शुकी शुकानुलूकांश्च जनयामास धर्मतः श्येनी श्येनांस्तथा भासी कुररानप्यजीजनत्
गृध्री गृध्रान्कपोतांश्च पारावतविहंगमान् हंससारसक्रौञ्चांश् च प्लवाञ्छुचिरजीजनत्
अजाश्वमेषोष्ट्रखरान् सुग्रीवी चाप्यजीजनत् एष ताम्रान्वयः प्रोक्तो विनतायां निबोधत
गरुडः पततां नाथः अरुणश्च पतत्रिणाम् सौदामनी तथा कन्या येयं नभसि विश्रुता
सम्पातिश् च जटायुश्च अरुणस्य सुताव् उभौ सम्पातिपुत्रो बभ्रुश्च शीघ्रगश्चापि विश्रुतः
जटायुषः कर्णिकारः शतगामी च विश्रुतौ सारसो रज्जुवालश्च भेरुण्डश्चापि तत्सुताः
तेषामनन्तमभवत् पक्षिणां पुत्रपौत्रकम् सुरसायाः सहस्रं तु सर्पाणाम् अभवत्पुरा
सहस्रशिरसां कद्रूः सहस्रं चापि सुव्रत प्रधानास्तेषु विख्याताः षड्विंशतिर् अरिंदम
शेषवासुकिकर्कोटशङ्खैरावतकम्बलाः धनंजयमहानीलपद्माश्वतरतक्षकाः
एलापत्त्रमहापद्मधृतराष्ट्रबलाहकाः शङ्खपालमहाशङ्खपुष्पदंष्ट्रशुभाननाः
शङ्कुरोमा च बहुलो वामनः पाणिनस्तथा कपिलो दुर्मुखश्चापि पतञ्जलिरिति स्मृताः
एषामनन्तमभवत् सर्वेषां पुत्रपौत्रकम् प्रायशो यत्पुरा दग्धं जनमेजयमन्दिरे
रक्षोगणं क्रोधवशा स्वनामानम् अजीजनत् दंष्ट्रिणां नियुतं तेषां भीमसेनादगात्क्षयम्
रुद्राणां च गणं तद्वद् गोमहिष्यो वराङ्गनाः सुरभिर्जनयामास कश्यपात्संयतव्रता
मुनिर्मुनीनां च गणं गणमप्सरसां तथा तथा किंनरगन्धर्वान् अरिष्टाजनयद् बहून्
तृणवृक्षलतागुल्मम् इरा सर्वम् अजीजनत् विश्वा तु यक्षरक्षांसि जनयामास कोटिशः
तत एकोनपञ्चाशन् मरुतः कश्यपाद्दितिः जनयामास धर्मज्ञान् सर्वानमरवल्लभान्
दितेः पुत्राः कथं जाता मरुतो देववल्लभाः देवैर्जग्मुश्च सापत्नैः कस्मात्ते सख्यमुत्तमम्
पुरा देवासुरे युद्धे हृतेषु हरिणा सुरैः पुत्रपौत्रेषु शोकार्ता गत्वा भूलोकमुत्तमम्
स्यमन्तपञ्चके क्षेत्रे सरस्वत्यास्तटे शुभे भर्तुर् आराधनपरा तप उग्रं चचार ह
तदा दितिर् दैत्यमाता ऋषिरूपेण सुव्रता फलाहारा तपस् तेपे कृच्छ्रं चान्द्रायणादिकम्
यावद्वर्षशतं साग्रं जराशोकसमाकुला ततः सा तपसा तप्ता वसिष्ठादीनपृच्छत
कथयन्तु भवन्तो मे पुत्रशोकविनाशनम् व्रतं सौभाग्यफलदम् इहलोके परत्र च
ऊचुर् वसिष्ठप्रमुखा मदनद्वादशीव्रतम् यस्याः प्रभावादभवत् सुतशोकविवर्जिता
श्रोतुमिच्छामहे सूत मदनद्वादशीव्रतम् सुतानेकोनपञ्चाशद् येन लेभे दितिः पुनः
यद्वसिष्ठादिभिः पूर्वं दितेः कथितमुत्तमम् विस्तरेण तदेवेदं मत्सकाशान्निबोधत