देवापिः शंतनुश्चैव वाह्लीकश्चैव ते त्रयः वाह्लीकस्य तु दायादाः सप्त वाह्लीश्वरा नृपाः देवापिस्तु ह्य् अपध्यातः प्रजाभिरभवन्मुनिः
प्रजाभिस्तु किमर्थं वै ह्य् अपध्यातो जनेश्वरः को दोषो राजपुत्रस्य प्रजाभिः समुदाहृतः
किलासीद्राजपुत्रस्तु कुष्ठी तं नाभ्यपूजयन् कार्यं चैव तु देवानां क्षत्रं प्रति द्विजोत्तमाः भविष्यं कीर्तयिष्यामि शंतनोस्तु निबोधत
शंतनुस्त्वभवद्राजा विद्वान्स वै महाभिषक् इदं चोदाहरन्त्यत्र श्लोकं प्रति महाभिषक्
यं यं कराभ्यां स्पृशति जीर्णं रोगिणमेव च पुनर्युवा च भवति तस्मात्तं शंतनुं विदुः
तत्तस्य शंतनुत्वं हि प्रजाभिरिह कीर्त्यते ततो ऽवृणुत भार्यार्थं शंतनुर्जाह्नवीं नृप
तस्यां देवव्रतं नाम कुमारं जनयद्विभुः काली विचित्रवीर्यं तु दाशेयी जनयत्सुतम्
शंतनोर्दयितं पुत्रं शान्तात्मानमकल्मषम् कृष्णद्वैपायनो नाम क्षेत्रे वैचित्रविर्यके
धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् धृतराष्ट्रस्तु गान्धार्यां पुत्रानजनयच्छतम्
तेषां दुर्योधनः श्रेष्ठः सर्वक्षत्रस्य वै प्रभुः माद्री कुन्ती तथा चैव पाण्डोर्भार्ये बभूवतुः
देवदत्ताः सुताः पञ्च पाण्डोरर्थे ऽभिजज्ञिरे धर्माद्युधिष्ठिरो जज्ञे मारुताच्च वृकोदरः
इन्द्राद्धनंजयश्चैव इन्द्रतुल्यपराक्रमः नकुलं सहदेवं च माद्र्यश्विभ्यामजीजनत्
पञ्चैते पाण्डवेभ्यस्तु द्रौपद्यां जज्ञिरे सुताः द्रौपद्यजनयच्छ्रेष्ठं प्रतिविन्ध्यं युधिष्ठिरात्
श्रुतसेनं भीमसेनाच् छ्रुतकीर्तिं धनंजयात् चतुर्थं श्रुतकर्माणं सहदेवाद् अजायत
नकुलाच्च शतानीकं द्रौपदेयाः प्रकीर्तिताः तेभ्यो ऽपरे पाण्डवेयाः षडेवान्ये महारथाः
हैडम्बो भीमसेनात्तु पुत्रो जज्ञे घटोत्कचः काशी बलधराद्भीमाज् जज्ञे वै सर्वगं सुतम्
सुहोत्रं तनयं माद्री सहदेवादसूयत करेणुमत्यां चैद्यायां निरमित्रस्तु नाकुलिः
सुभद्रायां रथी पार्थाद् अभिमन्युरजायत यौधेयं देवकी चैव पुत्रं जज्ञे युधिष्ठिरात्
अभिमन्योः परीक्षित्तु पुत्रः परपुरजयः जनमेजयः परीक्षितः पुत्रः परमधार्मिकः
ब्रह्माणं कल्पयामास स वै वाजसनेयकम् स वैशम्पायनेनैव शप्तः किल महर्षिणा
न स्थास्यतीह दुर्बुद्धे तवैतद्वचनं भुवि यावत्स्थास्यसि त्वं लोके तावदेव प्रपत्स्यति
क्षत्रस्य विजयं ज्ञात्वा ततःप्रभृति सर्वशः अभिगम्य स्थिताश्चैव नृपं च जनमेजयम्
ततःप्रभृति शापेन क्षत्रियस्य तु याजिनः उत्सन्ना याजिनो यज्ञे ततःप्रभृति सर्वशः
क्षत्रस्य याजिनः केचिच् छापात्तस्य महात्मनः पौर्णमासेन हविषा इष्ट्वा तस्मिन्प्रजापतिम् स वैशम्पायनेनैव प्रविशन्वारितस्ततः
परीक्षितः सुतो ऽसौ वै पौरवो जनमेजयः द्विर् अश्वमेधमाहृत्य महावाजसनेयकः
प्रवर्तयित्वा तं सर्वम् ऋषिं वाजसनेयकम् विवादे ब्राह्मणैः सार्धम् अभिशप्तो वनं ययौ
जनमेजयाच्छतानीकस् तस्माज्जज्ञे स वीर्यवान् जनमेजयः शतानीकं पुत्रं राज्ये ऽभिषिक्तवान्
अथाश्वमेधेन ततः शतानीकस्य वीर्यवान् जज्ञे ऽधिसोमकृष्णाख्यः साम्प्रतं यो महायशाः
तस्मिञ्छासति राष्ट्रं तु युष्माभिरिदमाहृतम् दुरापं दीर्घसत्त्रं वै त्रीणि वर्षाणि पुष्करे वर्षद्वयं कुरुक्षेत्रे दृषद्वत्यां द्विजोत्तमाः
भविष्यं श्रोतुमिच्छामः प्रजानां लोमहर्षणे पुरा किल यदेतद्वै व्यतीतं कीर्तितं त्वया