तस्यां वै धूमवर्णायाम् अजमीढः समीयिवान् ऋक्षं सा जनयामास धूमवर्णं शताग्रजम्
ऋक्षात्संवरणो जज्ञे कुरुः संवरणात् ततः यः प्रयागमतिक्रम्य कुरुक्षेत्रमकल्पयत्
कृष्यतस्तु महाराजो वर्षाणि सुबहून्यथ कृष्यमाणस्ततः शक्रो भयात्तस्मै वरं ददौ
पुण्यं च रमणीयं च कुरुक्षेत्रं तु तत्स्मृतम् तस्यान्ववायः सुमहान् यस्य नाम्ना तु कौरवाः
कुरोस्तु दयिताः पुत्राः सुधन्वा जह्नुरेव च परीक्षिच्च महातेजाः प्रजनश्चारिमर्दनः
सुधन्वनस्तु दायादः पुत्रो मतिमतां वरः च्यवनस्तस्य पुत्रस्तु राजा धर्मार्थतत्त्ववित्
च्यवनस्य कृमिः पुत्र ऋक्षाज्जज्ञे महातपाः कृमेः पुत्रो महावीर्यः ख्यातस्त्विन्द्रसमो विभुः
चैद्योपरिचरो वीरो वसुर्नामान्तरिक्षगः चैद्योपरिचराज्जज्ञे गिरिका सप्त वै सुतान्
महारथो मगधराड् विश्रुतो यो बृहद्रथः प्रत्यश्रवाः कुशश्चैव चतुर्थो हरिवाहनः
पञ्चमश्च यजुश्चैव मत्स्यः काली च सप्तमी बृहद्रथस्य दायादः कुशाग्रो नाम विश्रुतः
कुशाग्रस्यात्मजश्चैव वृषभो नाम वीर्यवान् वृषभस्य तु दायादः पुण्यवान्नाम पार्थिवः
पुण्यः पुण्यवतश्चैव राजा सत्यधृतिस्ततः दायादस्तस्य धनुषस् तस्मात्सर्वश्च जज्ञिवान्
सर्वस्य सम्भवः पुत्रस् तस्माद्राजा बृहद्रथः द्वे तस्य शकले जाते जरया संधितश् च सः
जरया संधितो यस्माज् जरासंधस्ततः स्मृतः जेता सर्वस्य क्षत्रस्य जरासंधो महाबलः
जरासंधस्य पुत्रस्तु सहदेवः प्रतापवान् सहदेवात्मजः श्रीमान् सोमवित् स महातपाः
श्रुतश्रवास्तु सोमादेर् मागधाः परिकीर्तिताः जह्नुस्त्वजनयत्पुत्रं सुरथं नाम भूमिपम्
सुरथस्य तु दायादो वीरो राजा विदूरथः विदूरथसुतश्चापि सार्वभौम इति स्मृतः
सार्वभौमाज्जयत्सेनो रुचिरस्तस्य चात्मजः रुचिरात्तु ततो भौमस् त्वरितायुस्ततो ऽभवत्
अक्रोधनस् त्व् आयुसुतस् तस्माद्देवातिथिः स्मृतः देवातिथेस्तु दायादो दक्ष एव बभूव ह
भीमसेनस्ततो दक्षाद् दिलीपस् तस्य चात्मजः दिलीपस्य प्रतीपस्तु तस्य पुत्रास् त्रयः स्मृताः
देवापिः शंतनुश्चैव वाह्लीकश्चैव ते त्रयः वाह्लीकस्य तु दायादाः सप्त वाह्लीश्वरा नृपाः देवापिस्तु ह्य् अपध्यातः प्रजाभिरभवन्मुनिः
प्रजाभिस्तु किमर्थं वै ह्य् अपध्यातो जनेश्वरः को दोषो राजपुत्रस्य प्रजाभिः समुदाहृतः
किलासीद्राजपुत्रस्तु कुष्ठी तं नाभ्यपूजयन् कार्यं चैव तु देवानां क्षत्रं प्रति द्विजोत्तमाः भविष्यं कीर्तयिष्यामि शंतनोस्तु निबोधत
शंतनुस्त्वभवद्राजा विद्वान्स वै महाभिषक् इदं चोदाहरन्त्यत्र श्लोकं प्रति महाभिषक्
यं यं कराभ्यां स्पृशति जीर्णं रोगिणमेव च पुनर्युवा च भवति तस्मात्तं शंतनुं विदुः
तत्तस्य शंतनुत्वं हि प्रजाभिरिह कीर्त्यते ततो ऽवृणुत भार्यार्थं शंतनुर्जाह्नवीं नृप
तस्यां देवव्रतं नाम कुमारं जनयद्विभुः काली विचित्रवीर्यं तु दाशेयी जनयत्सुतम्
शंतनोर्दयितं पुत्रं शान्तात्मानमकल्मषम् कृष्णद्वैपायनो नाम क्षेत्रे वैचित्रविर्यके
धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् धृतराष्ट्रस्तु गान्धार्यां पुत्रानजनयच्छतम्
तेषां दुर्योधनः श्रेष्ठः सर्वक्षत्रस्य वै प्रभुः माद्री कुन्ती तथा चैव पाण्डोर्भार्ये बभूवतुः