नीलो नाम महाराजः पाञ्चालाधिपतिर्वशी उग्रायुधस्य दायादः क्षेमो नाम महायशाः
क्षेमात्सुनीथः संजज्ञे सुनीथस्य नृपंजयः नृपंजयाच्च विरथ इत्येते पौरवाः स्तुताः
अजमीढस्य नीलिन्यां नीलः समभवन्नृपः नीलस्य तपसोग्रेण सुशान्तिरुदपद्यत
पुरुजानुः सुशान्तेस्तु पृथुस्तु पुरुजानुतः भद्राश्वः पृथुदायादो भद्राश्वतनयाञ्छृणु
मुद्गलश्च जयश्चैव राजा बृहदिषुस्तथा जवीनरश्च विक्रान्तः कपिलश्चैव पञ्चमः
पञ्चानां चैव पञ्चालान् एताञ्जनपदान्विदुः पञ्चालरक्षिणो ह्य् एते देशानामिति नः श्रुतम्
मुद्गलस्यापि मौद्गल्याः क्षत्रोपेता द्विजातयः एते ह्य् अङ्गिरसः पक्षं संश्रिताः काण्वमुद्गलाः
मुद्गलस्य सुतो जज्ञे ब्रह्मिष्ठः सुमहायशाः इन्द्रसेनः सुतस्तस्य विन्ध्याश्वस्तस्य चात्मजः
विन्ध्याश्वान्मिथुनं जज्ञे मेनकायामिति श्रुतिः दिवोदासश्च राजर्षिर् अहल्या च यशस्विनी
शरद्वतस्तु दायादम् अहल्या सम्प्रसूयत शतानन्दमृषिश्रेष्ठं तस्यापि सुमहातपाः
सुतः सत्यधृतिर्नाम धनुर्वेदस्य पारगः आसीत्सत्यधृतेः शुक्रम् अमोघं धार्मिकस्य तु
स्कन्नं रेतः सत्यधृतेर् दृष्ट्वा चाप्सरसं जले मिथुनं तत्र संभृतं तस्मिन्सरसि संभृतम्
ततः सरसि तस्मिंस्तु क्रममाणं महीपतिः दृष्ट्वा जग्राह कृपया शंतनुर्मृगयां गतः
एते शरद्वतः पुत्रा आख्याता गौतमा वराः अत ऊर्ध्वं प्रवक्ष्यामि दिवोदासस्य वै प्रजाः
दिवोदासस्य दायादो धर्मिष्ठो मित्रयुर्नृपः मैत्रायणावरः सो ऽथ मैत्रेयस्तु ततः स्मृतः
एते वंश्या यतेः पक्षाः क्षत्रोपेतास्तु भार्गवाः राजा चैद्यवरो नाम मैत्रेयस्य सुतः स्मृतः
अथ चैद्यवराद्विद्वान् सुदासस्तस्य चात्मजः अजमीढः पुनर्जातः क्षीणे वंशे तु सोमकः
सोमकस्य सुतो जन्तुर् हते तस्मिञ्छतं बभौ पुत्राणामजमीढस्य सोमकस्य महात्मनः
महिषी त्व् अजमीढस्य धूमिनी पुत्रवर्धिनी पुत्राभावे तपस्तेपे शतं वर्षाणि दुश्चरम्
हुत्वाग्निं विधिवत्सम्यक् पवित्रीकृतभोजना अग्निहोत्रक्रमेणैव सा सुष्वाप महाव्रता
तस्यां वै धूमवर्णायाम् अजमीढः समीयिवान् ऋक्षं सा जनयामास धूमवर्णं शताग्रजम्
ऋक्षात्संवरणो जज्ञे कुरुः संवरणात् ततः यः प्रयागमतिक्रम्य कुरुक्षेत्रमकल्पयत्
कृष्यतस्तु महाराजो वर्षाणि सुबहून्यथ कृष्यमाणस्ततः शक्रो भयात्तस्मै वरं ददौ
पुण्यं च रमणीयं च कुरुक्षेत्रं तु तत्स्मृतम् तस्यान्ववायः सुमहान् यस्य नाम्ना तु कौरवाः
कुरोस्तु दयिताः पुत्राः सुधन्वा जह्नुरेव च परीक्षिच्च महातेजाः प्रजनश्चारिमर्दनः
सुधन्वनस्तु दायादः पुत्रो मतिमतां वरः च्यवनस्तस्य पुत्रस्तु राजा धर्मार्थतत्त्ववित्
च्यवनस्य कृमिः पुत्र ऋक्षाज्जज्ञे महातपाः कृमेः पुत्रो महावीर्यः ख्यातस्त्विन्द्रसमो विभुः
चैद्योपरिचरो वीरो वसुर्नामान्तरिक्षगः चैद्योपरिचराज्जज्ञे गिरिका सप्त वै सुतान्
महारथो मगधराड् विश्रुतो यो बृहद्रथः प्रत्यश्रवाः कुशश्चैव चतुर्थो हरिवाहनः
पञ्चमश्च यजुश्चैव मत्स्यः काली च सप्तमी बृहद्रथस्य दायादः कुशाग्रो नाम विश्रुतः