बृहदनोर् बृहन्तो ऽथ बृहन्तस्य बृहन्मनाः बृहन्मनःसुतश्चापि बृहद्धनुरिति श्रुतः
बृहद्धनोर् बृहदिषुः पुत्रस्तस्य जयद्रथः अश्वजित्तनयस्तस्य सेनजित् तस्य चात्मजः
अथ सेनजितः पुत्राश् चत्वारो लोकविश्रुताः रुचिराश्वश्च काव्यश्च राजा दृढरथस्तथा
वत्सश्चावर्तको राजा यस्यैते परिवत्सकाः रुचिराश्वस्य दायादः पृथुसेनो महायशाः
पृथुसेनस्य पौरस्तु पौरान्नीपो ऽथ जज्ञिवान् नीपस्यैकशतं त्व् आसीत् पुत्राणाम् अमितौजसाम्
नीपा इति समाख्याता राजानः सर्व एव ते तेषां वंशकरः श्रीमान् नीपानां कीर्तिवर्धनः
काव्याच्च समरो नाम सदेष्टसमरो ऽभवत् समरस्य पारसम्पारौ सदश्व इति ते त्रयः
पुत्राः सर्वगुणोपेता जाता वै विश्रुता भुवि पारपुत्रः पृथुर्जातः पृथोस्तु सुकृतो ऽभवत्
जज्ञे सर्वगुणोपेतो विभ्राजस्तस्य चात्मजः विभ्राजस्य तु दायादस् त्व् अणुहो नाम वीर्यवान्
बभूव शुकजामाता कृत्वीभर्ता महायशाः अणुहस्य तु दायादो ब्रह्मदत्तो महीपतिः
युगदत्तः सुतस्तस्य विष्वक्सेनो महायशाः विभ्राजः पुनर् आजातः सुकृतेनेह कर्मणा
विष्वक्सेनस्य पुत्रस्तु उदक्सेनो बभूव ह भल्लाटस्तस्य पुत्रस्तु तस्यासीज्जनमेजयः उग्रायुधेन तस्यार्थे सर्वे नीपाः प्रणाशिताः
उग्रायुधः कस्य सुतः कस्य वंशे स कथ्यते किमर्थं तेन ते नीपाः सर्वे चैव प्रणाशिताः
उग्रायुधः सूर्यवंश्यस् तपस्तेपे वराश्रमे स्थाणुभूतो ऽष्टसाहस्रं तं भेजे जनमेजयः
तस्य राज्यं प्रतिश्रुत्य नीपान् आजघ्निवान् प्रभुः उवाच सान्त्वं विविधं जघ्नुस्ते वै ह्य् उभाव् अपि
हन्यमानागतान् ऊचे यस्माद्धेतोर्न मे वचः शरणागतरक्षार्थं तस्मादेवं शपामि वः
यदि मे ऽस्ति तपस्तप्तं सर्वान्नयतु वो यमः ततस्तान् कृप्यमाणांस्तु यमेन पुरतः स तु
कृपया परयाविष्टो जनमेजयम् ऊचिवान् गतानेतानिमान्वीरांस् त्वं मे रक्षितुमर्हसि
अरे पापा दुराचारा भवितारो ऽस्य किंकराः तथेत्युक्तस्ततो राजा यमेन युयुधे चिरम्
व्याधिभिर्नारकैर्घोरैर् यमेन सह तान्बलात् विजित्य मुनये प्रादात् तदद्भुतमिवाभवत्
यमस्तुष्टस्ततस्तस्मै मुक्तिज्ञानं ददौ परम् सर्वे यथोचितं कृत्वा जग्मुस्ते कृष्णमव्ययम्
येषां तु चरितं गृह्य हन्यते नापमृत्युभिः इह लोके परे चैव सुखमक्षय्यमश्नुते
अजमीढस्य धूमिन्यां विद्वाञ्जज्ञे यवीनरः धृतिमांस्तस्य पुत्रस्तु तस्य सत्यधृतिः स्मृतः अथ सत्यधृतेः पुत्रो दृढनेमिः प्रतापवान्
दृढनेमिसुतश्चापि सुधर्मा नाम पार्थिवः आसीत्सुधर्मतनयः सार्वभौमः प्रतापवान्
सार्वभौमेति विख्यातः पृथिव्याम् एकराड् बभौ तस्यान्ववाये महति महापौरवनन्दनः
महापौरवपुत्रस्तु राजा रुक्मरथः स्मृतः अथ रुक्मरथस्यासीत् सुपार्श्वो नाम पार्थिवः
सुपार्श्वतनयश्चापि सुमतिर्नाम धार्मिकः सुमतेरपि धर्मात्मा राजा संनतिमानपि
तस्यासीत्संनतिमतः कृतो नाम सुतो महान् हिरण्यनाभिनः शिष्यः कौशल्यस्य महात्मनः
चतुर्विंशतिधा येन प्रोक्ता वै सामसंहिताः स्मृतास्ते प्राच्यसामानः कार्ता नामेह सामगाः
कार्तिरुग्रायुधो ऽसौ वै महापौरववर्धनः बभूव येन विक्रम्य पृथुकस्य पिता हतः