स्मृताः शैब्यास्ततो गर्गाः क्षत्रोपेता द्विजातयः आहार्यतनयश्चैव धीमानासीद् उरुक्षवः
तस्य भार्या विशाला तु सुषुवे पुत्रकत्रयम् त्र्युषणं पुष्करिं चैव कविं चैव महायशाः
उरुक्षवाः स्मृता ह्य् एते सर्वे ब्राह्मणतां गताः काव्यानां तु वरा ह्य् एते त्रयः प्रोक्ता महर्षयः
गर्गाः संकृतयः काव्याः क्षत्रोपेता द्विजातयः संभृताङ्गिरसो दक्षा बृहत्क्षत्रस्य च क्षितिः
बृहत्क्षत्रस्य दायादो हस्तिनामा बभूव ह तेनेदं निर्मितं पूर्वं पुरं तु गजसाह्वयम्
हस्तिनश्चैव दायादास् त्रयः परमकीर्तयः अजमीढो द्विमीढश्च पुरुमीढस्तथैव च
अजमीढस्य पत्न्यस्तु तिस्रः कुरुकुलोद्वहाः नीलिनी धूमिनी चैव केशिनी चैव विश्रुता
स तासु जनयामास पुत्रान्वै देववर्चसः तपसो ऽन्ते महातेजा जाता वृद्धस्य धार्मिकाः
भारद्वाजप्रसादेन विस्तरं तेषु मे शृणु आजमीढस्य केशिन्यां कण्वः समभवत्किल
मेधातिथिः सुतस्तस्य तस्मात्काण्वायना द्विजाः अजमीढस्य भूमिन्यां जज्ञे बृहदनुर् नृपः
बृहदनोर् बृहन्तो ऽथ बृहन्तस्य बृहन्मनाः बृहन्मनःसुतश्चापि बृहद्धनुरिति श्रुतः
बृहद्धनोर् बृहदिषुः पुत्रस्तस्य जयद्रथः अश्वजित्तनयस्तस्य सेनजित् तस्य चात्मजः
अथ सेनजितः पुत्राश् चत्वारो लोकविश्रुताः रुचिराश्वश्च काव्यश्च राजा दृढरथस्तथा
वत्सश्चावर्तको राजा यस्यैते परिवत्सकाः रुचिराश्वस्य दायादः पृथुसेनो महायशाः
पृथुसेनस्य पौरस्तु पौरान्नीपो ऽथ जज्ञिवान् नीपस्यैकशतं त्व् आसीत् पुत्राणाम् अमितौजसाम्
नीपा इति समाख्याता राजानः सर्व एव ते तेषां वंशकरः श्रीमान् नीपानां कीर्तिवर्धनः
काव्याच्च समरो नाम सदेष्टसमरो ऽभवत् समरस्य पारसम्पारौ सदश्व इति ते त्रयः
पुत्राः सर्वगुणोपेता जाता वै विश्रुता भुवि पारपुत्रः पृथुर्जातः पृथोस्तु सुकृतो ऽभवत्
जज्ञे सर्वगुणोपेतो विभ्राजस्तस्य चात्मजः विभ्राजस्य तु दायादस् त्व् अणुहो नाम वीर्यवान्
बभूव शुकजामाता कृत्वीभर्ता महायशाः अणुहस्य तु दायादो ब्रह्मदत्तो महीपतिः
युगदत्तः सुतस्तस्य विष्वक्सेनो महायशाः विभ्राजः पुनर् आजातः सुकृतेनेह कर्मणा
विष्वक्सेनस्य पुत्रस्तु उदक्सेनो बभूव ह भल्लाटस्तस्य पुत्रस्तु तस्यासीज्जनमेजयः उग्रायुधेन तस्यार्थे सर्वे नीपाः प्रणाशिताः
उग्रायुधः कस्य सुतः कस्य वंशे स कथ्यते किमर्थं तेन ते नीपाः सर्वे चैव प्रणाशिताः
उग्रायुधः सूर्यवंश्यस् तपस्तेपे वराश्रमे स्थाणुभूतो ऽष्टसाहस्रं तं भेजे जनमेजयः
तस्य राज्यं प्रतिश्रुत्य नीपान् आजघ्निवान् प्रभुः उवाच सान्त्वं विविधं जघ्नुस्ते वै ह्य् उभाव् अपि
हन्यमानागतान् ऊचे यस्माद्धेतोर्न मे वचः शरणागतरक्षार्थं तस्मादेवं शपामि वः
यदि मे ऽस्ति तपस्तप्तं सर्वान्नयतु वो यमः ततस्तान् कृप्यमाणांस्तु यमेन पुरतः स तु
कृपया परयाविष्टो जनमेजयम् ऊचिवान् गतानेतानिमान्वीरांस् त्वं मे रक्षितुमर्हसि
अरे पापा दुराचारा भवितारो ऽस्य किंकराः तथेत्युक्तस्ततो राजा यमेन युयुधे चिरम्
व्याधिभिर्नारकैर्घोरैर् यमेन सह तान्बलात् विजित्य मुनये प्रादात् तदद्भुतमिवाभवत्