उपतिष्ठ स्वलंकृत्य मैथुनाय च मां शुभे एवमुक्ताब्रवीदेनं स्वयमेव बृहस्पतिम्
गर्भः परिणतश्चायं ब्रह्म व्याहरते गिरा अमोघरेतास्त्वं चापि धर्मं चैवं विगर्हितम्
एवमुक्तो ऽब्रवीदेनां स्वयमेव बृहस्पतिः नोपदेष्टव्यो विनयस् त्वया मे वरवर्णिनि
धर्षमाणः प्रसह्यैनां मैथुनायोपचक्रमे ततो बृहस्पतिं गर्भो धर्षमाणमुवाच ह
संनिविष्टो ह्य् अहं पूर्वम् इह नाम बृहस्पते अमोघरेताश्च भवान् नावकाश इह द्वयोः
एवमुक्तः स गर्भेण कुपितः प्रत्युवाच ह यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति अभिषेधसि तस्मात्त्वं तमो दीर्घं प्रवेक्ष्यसि
ततः कामं संनिवर्त्य तस्यानन्दाद्बृहस्पतेः तद्रेतस्त्वपतद्भूमौ निवृत्तं शिशुको ऽभवत्
सद्योजातं कुमारं तु दृष्ट्वा तं ममताब्रवीत् गमिष्यामि गृहं स्वं वै भरस्वैनं बृहस्पते
एवमुक्त्वा गता सा तु गतायां सो ऽपि तं त्यजत् मातापितृभ्यां त्यक्तं तु दृष्ट्वा तं मरुतः शिशुम् जगृहुस्तं भरद्वाजं मरुतः कृपया स्थिताः
तस्मिन्काले तु भरतो बहुभिर् ऋतुभिर्विभुः पुत्रनैमित्तिकैर्यज्ञैर् अयजत्पुत्रलिप्सया
यदा स यजमानस्तु पुत्रं नासादयत्प्रभुः ततः क्रतुं मरुत्सोमं पुत्रार्थे समुपाहरत्
तेन ते मरुतस्तस्य मरुत्सोमेन तुष्टुवुः उपनिन्युर्भरद्वाजं पुत्रार्थं भरताय वै
दायादो ऽङ्गिरसः सूनोर् औरसस्तु बृहस्पतेः संक्रामितो भरद्वाजो मरुद्भिर्भरतं प्रति
भरतस्तु भरद्वाजं पुत्रं प्राप्य विभुर् ब्रवीत् आदाव् आत्महिताय त्वं कृतार्थो ऽहं त्वया विभो
पूर्वं तु वितथे तस्मिन् कृते वै पुत्रजन्मनि ततस्तु वितथो नाम भरद्वाजो नृपो ऽभवत्
तस्मादपि भरद्वाजाद् ब्राह्मणाः क्षत्रिया भुवि द्व्यामुष्यायणकौलीनाः स्मृतास्ते द्विविधेन च
ततो जाते हि वितथे भरतश्च दिवं ययौ भरद्वाजो दिवं यातो ह्य् अभिषिच्य सुतमृषिः
दायादो वितथस्यासीद् भुवमन्युर् महायशाः महाभूतोपमाः पुत्राश् चत्वारो भुवमन्यवः
बृहत्क्षत्रो महावीर्यो नरो गर्गश्च वीर्यवान् नरस्य संकृतिः पुत्रस् तस्य पुत्रो महायशाः
गुरुधी रन्तिदेवश्च सत्कृत्यां ताव् उभौ स्मृतौ गर्गस्य चैव दायादः शिबिर्विद्वानजायत
स्मृताः शैब्यास्ततो गर्गाः क्षत्रोपेता द्विजातयः आहार्यतनयश्चैव धीमानासीद् उरुक्षवः
तस्य भार्या विशाला तु सुषुवे पुत्रकत्रयम् त्र्युषणं पुष्करिं चैव कविं चैव महायशाः
उरुक्षवाः स्मृता ह्य् एते सर्वे ब्राह्मणतां गताः काव्यानां तु वरा ह्य् एते त्रयः प्रोक्ता महर्षयः
गर्गाः संकृतयः काव्याः क्षत्रोपेता द्विजातयः संभृताङ्गिरसो दक्षा बृहत्क्षत्रस्य च क्षितिः
बृहत्क्षत्रस्य दायादो हस्तिनामा बभूव ह तेनेदं निर्मितं पूर्वं पुरं तु गजसाह्वयम्
हस्तिनश्चैव दायादास् त्रयः परमकीर्तयः अजमीढो द्विमीढश्च पुरुमीढस्तथैव च
अजमीढस्य पत्न्यस्तु तिस्रः कुरुकुलोद्वहाः नीलिनी धूमिनी चैव केशिनी चैव विश्रुता
स तासु जनयामास पुत्रान्वै देववर्चसः तपसो ऽन्ते महातेजा जाता वृद्धस्य धार्मिकाः
भारद्वाजप्रसादेन विस्तरं तेषु मे शृणु आजमीढस्य केशिन्यां कण्वः समभवत्किल
मेधातिथिः सुतस्तस्य तस्मात्काण्वायना द्विजाः अजमीढस्य भूमिन्यां जज्ञे बृहदनुर् नृपः