अमूर्तरयसं वीरं त्रिवनं चैव धार्मिकम् गौरी कन्या तृतीया च मान्धातुर्जननी शुभा
इलिना तु यमस्यासीत् कन्या याजनयत्सुतान् ब्रह्मवादपराक्रान्ताञ् छुभदा त्व् इलिना ह्य् अभूत्
उपदानवी सुतांल्लेभे चतुरस्त्विलिनात्मजात् ऋष्यन्तमथ दुष्यन्तं प्रवीरम् अनधं तथा
चक्रवर्ती ततो यज्ञे दुष्यन्तात्समितिंजयः शकुन्तलायां भरतो यस्य नाम्ना च भारताः
दौष्यन्तीं प्रति राजानं वागूचे चाशरीरिणी माता भस्त्रा पितुः पुत्रो येन जातः स एव सः
भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम् रेतोधां नयते पुत्रः परेतं यमसादनात् त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला
भरतस्य विनष्टेषु तनयेषु पुरा किल पुत्राणां मातृकात् कोपात् सुमहान्संक्षयः कृतः
ततो मरुद्भिरानीय पुत्रः स तु बृहस्पतेः संक्रामितो भरद्वाजो मरुद्भिर्भरतस्य तु
भरतस्य भरद्वाजः पुत्रार्थं मारुतैः कथम् संक्रामितो महातेजास् तन्नो ब्रूहि यथातथम्
पत्न्यामापन्नसत्त्वायाम् उशिजः स स्थितो भुवि भ्रातुर्भार्यां स दृष्ट्वा तु बृहस्पतिरुवाच ह
उपतिष्ठ स्वलंकृत्य मैथुनाय च मां शुभे एवमुक्ताब्रवीदेनं स्वयमेव बृहस्पतिम्
गर्भः परिणतश्चायं ब्रह्म व्याहरते गिरा अमोघरेतास्त्वं चापि धर्मं चैवं विगर्हितम्
एवमुक्तो ऽब्रवीदेनां स्वयमेव बृहस्पतिः नोपदेष्टव्यो विनयस् त्वया मे वरवर्णिनि
धर्षमाणः प्रसह्यैनां मैथुनायोपचक्रमे ततो बृहस्पतिं गर्भो धर्षमाणमुवाच ह
संनिविष्टो ह्य् अहं पूर्वम् इह नाम बृहस्पते अमोघरेताश्च भवान् नावकाश इह द्वयोः
एवमुक्तः स गर्भेण कुपितः प्रत्युवाच ह यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति अभिषेधसि तस्मात्त्वं तमो दीर्घं प्रवेक्ष्यसि
ततः कामं संनिवर्त्य तस्यानन्दाद्बृहस्पतेः तद्रेतस्त्वपतद्भूमौ निवृत्तं शिशुको ऽभवत्
सद्योजातं कुमारं तु दृष्ट्वा तं ममताब्रवीत् गमिष्यामि गृहं स्वं वै भरस्वैनं बृहस्पते
एवमुक्त्वा गता सा तु गतायां सो ऽपि तं त्यजत् मातापितृभ्यां त्यक्तं तु दृष्ट्वा तं मरुतः शिशुम् जगृहुस्तं भरद्वाजं मरुतः कृपया स्थिताः
तस्मिन्काले तु भरतो बहुभिर् ऋतुभिर्विभुः पुत्रनैमित्तिकैर्यज्ञैर् अयजत्पुत्रलिप्सया
यदा स यजमानस्तु पुत्रं नासादयत्प्रभुः ततः क्रतुं मरुत्सोमं पुत्रार्थे समुपाहरत्
तेन ते मरुतस्तस्य मरुत्सोमेन तुष्टुवुः उपनिन्युर्भरद्वाजं पुत्रार्थं भरताय वै
दायादो ऽङ्गिरसः सूनोर् औरसस्तु बृहस्पतेः संक्रामितो भरद्वाजो मरुद्भिर्भरतं प्रति
भरतस्तु भरद्वाजं पुत्रं प्राप्य विभुर् ब्रवीत् आदाव् आत्महिताय त्वं कृतार्थो ऽहं त्वया विभो
पूर्वं तु वितथे तस्मिन् कृते वै पुत्रजन्मनि ततस्तु वितथो नाम भरद्वाजो नृपो ऽभवत्
तस्मादपि भरद्वाजाद् ब्राह्मणाः क्षत्रिया भुवि द्व्यामुष्यायणकौलीनाः स्मृतास्ते द्विविधेन च
ततो जाते हि वितथे भरतश्च दिवं ययौ भरद्वाजो दिवं यातो ह्य् अभिषिच्य सुतमृषिः
दायादो वितथस्यासीद् भुवमन्युर् महायशाः महाभूतोपमाः पुत्राश् चत्वारो भुवमन्यवः
बृहत्क्षत्रो महावीर्यो नरो गर्गश्च वीर्यवान् नरस्य संकृतिः पुत्रस् तस्य पुत्रो महायशाः
गुरुधी रन्तिदेवश्च सत्कृत्यां ताव् उभौ स्मृतौ गर्गस्य चैव दायादः शिबिर्विद्वानजायत