विधूय मातृजं कायं ब्राह्मण्यं प्राप्तवान्विभुः ततो ऽब्रवीत्पिता तं वै पुत्रवानस्म्यहं त्वया
सत्पुत्रेण तु धर्मज्ञ कृतार्थो ऽहं यशस्विना मुक्त्वात्मानं ततो ऽसौ वै प्राप्तवान्ब्रह्मणः क्षयम्
ब्राह्मण्यं प्राप्य काक्षीवान् सहस्रमसृजत्सुतान् कौष्माण्डा गौतमाश्चैव स्मृताः काक्षीवतः सुताः
इत्येष दीर्घतमसो बलेर्वैरोचनस्य च समागमो वः कथितः संततिश्चोभयोस्तथा
बलिस्तानभिनन्द्याह पञ्च पुत्रानकल्मषान् कृतार्थः सो ऽपि धर्मात्मा योगमायावृतः स्वयम्
अदृश्यः सर्वभूतानां कालापेक्षः स वै प्रभुः तत्राङ्गस्य तु दायादो राजासीद्दधिवाहनः
दधिवाहनपुत्रस्तु राजा दिविरथः स्मृतः आसीद् दिविरथापत्यं विद्वान्धर्मरथो नृपः
स हि धर्मरथः श्रीमांस् तेन विष्णुपदे गिरौ सोमः शुक्रेण वै राज्ञा सह पीतो महात्मना
अथ धर्मरथस्याभूत् पुत्रश्चित्ररथः किल तस्य सत्यरथः पुत्रस् तस्माद्दशरथः किल
लोमपाद इति ख्यातस् तस्य शान्ता सुताभवत् अथ दाशरथिर् वीरश् चतुरङ्गो महायशाः
ऋष्यशृङ्गप्रसादेन जज्ञे स्वकुलवर्धनः चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः
पृथुलाक्षसुतश्चापि चम्पनामा बभूव ह चम्पस्य तु पुरी चम्पा पूर्वं या मालिनी भवत्
पूर्णभद्रप्रसादेन हर्यङ्गो ऽस्य सुतो ऽभवत् यज्ञे विभाण्डकाच्चास्य वारणः शत्रुवारणः
अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम् हर्यङ्गस्य तु दायादो जातो भद्ररथः किल
अथ भद्ररथस्यासीद् बृहत्कर्मा जनेश्वरः बृहद्भानुः सुतस्तस्य तस्माज्जज्ञे महात्मवान्
बृहद्भानुस्तु राजेन्द्रो जनयामास वै सुतम् नाम्ना जयद्रथं नाम तस्माद्बृहद्रथो नृपः
आसीद्बृहद्रथाच्चैव विश्वजिज्जनमेजयः दायादस्तस्य चाङ्गो वै तस्मात्कर्णो ऽभवन्नृपः
कर्णस्य वृषसेनस्तु पृथुसेनस्तथात्मजः एते ऽङ्गस्यात्मजाः सर्वे राजानः कीर्तिता मया विस्तरेणानुपूर्व्याच्च पूरोस्तु शृणुत द्विजाः
कथं सूतात्मजः कर्णः कथमङ्गस्य चात्मजः एतद् इच्छामहे श्रोतुम् अत्यन्तकुशलो ह्य् असि
बृहद्भानुसुतो जज्ञे राजा नाम्ना बृहन्मनाः तस्य पत्नीद्वयं ह्य् आसीच् छैब्यस्य तनये ह्य् उभे यशोदेवी च सत्या च तयोर्वंशं च मे शृणु
जयद्रथं तु राजानं यशोदेवी ह्य् अजीजनत् सा बृहन्मनसः सत्या विजयं नाम विश्रुतम्
विजयस्य बृहत्पुत्रस् तस्य पुत्रो बृहद्रथः बृहद्रथस्य पुत्रस्तु सत्यकर्मा महामनाः
सत्यकर्मणो ऽधिरथः सूतश्चाधिरथः स्मृतः यः कर्णं प्रतिजग्राह तेन कर्णस्तु सूतजः तच्चेदं सर्वमाख्यातं कर्णं प्रति यथोदितम्
पूरोः पुत्रो महातेजा राजा स जनमेजयः प्राचीत्वतः सुतस्तस्य यः प्राचीमकरोद्दिशम्
प्राचीत्वतस्य तनयो मनस्युश्च तथाभवत् राजा पीतायुधो नाम मनस्योरभवत्सुतः
दायादस्तस्य चाप्यासीद् धुन्धुर्नाम महीपतिः धुन्धोर्बहुविधः पुत्रः सम्पातिस्तस्य चात्मजः
सम्पातेस्तु रंहवर्चा भद्राश्वस्तस्य चात्मजः भद्राश्वस्य धृतायां तु दशाप्सरसि सूनवः
औचेयुश्च हृषेयुश्च कक्षेयुश्च सनेयुकः धृतेयुश्च विनेयुश्च स्थलेयुश्चैव सत्तमः
धर्मेयुः संनतेयुश्च पुण्येयुश्चेति ते दश औचेयोर्ज्वलना नाम भार्या वै तक्षकात्मजा
तस्यां स जनयामास अन्तिनारं महीपतिम् अन्तिनारो मनस्विन्यां पुत्राञ्जज्ञे पराञ्छुभान्