भविष्यन्ति कुमारास्तु पञ्च देवसुतोपमाः तेजस्विनः सुवृत्ताश्च यज्वानो धार्मिकाश्च ते
तदंशस्तु सुदेष्णाया ज्येष्ठः पुत्रो व्यजायत अङ्गस्तथा कलिङ्गश्च पुण्ड्रः सुह्मस्तथैव च
वङ्गराजस्तु पञ्चैते बलेः पुत्राश्च क्षेत्रजाः इत्येते दीर्घतमसा बलेर्दत्ताः सुतास्तथा
प्रतिष्ठामागतानां हि ब्राह्मण्यं कारयंस्ततः ततो मानुषयोन्यां स जनयामास वै प्रजाः
ततस्तं दीर्घतमसं सुरभिर्वाक्यमब्रवीत् विचार्य यस्माद्गोधर्मं प्रमाणं ते कृतं विभो
शक्त्या चानन्ययास्मासु तेन प्रीतास्मि ते ऽनघ तस्मात्तुभ्यं तमो दीर्घम् आघ्रायापनुदामि वै
बार्हस्पत्यस्तथैवैष पाप्मा वै तिष्ठति त्वयि जरां मृत्युं तमश्चैव आघ्रायापनुदामि ते
सद्यः स घ्रातमात्रस्तु असितो मुनिसत्तमः आयुष्मांश्च वपुष्मांश्च चक्षुष्मांश्च ततो ऽभवत्
गो ऽभ्याहते तमसि वै गौतमस्तु ततो ऽभवत् काक्षीवांस्तु ततो गत्वा सह पित्रा गिरिव्रजम्
दृष्ट्वा स्पृष्ट्वा पितुर्वै स ह्य् उपविष्टश्चिरं तपः ततः कालेन महता तपसा भावितस्तु सः
विधूय मातृजं कायं ब्राह्मण्यं प्राप्तवान्विभुः ततो ऽब्रवीत्पिता तं वै पुत्रवानस्म्यहं त्वया
सत्पुत्रेण तु धर्मज्ञ कृतार्थो ऽहं यशस्विना मुक्त्वात्मानं ततो ऽसौ वै प्राप्तवान्ब्रह्मणः क्षयम्
ब्राह्मण्यं प्राप्य काक्षीवान् सहस्रमसृजत्सुतान् कौष्माण्डा गौतमाश्चैव स्मृताः काक्षीवतः सुताः
इत्येष दीर्घतमसो बलेर्वैरोचनस्य च समागमो वः कथितः संततिश्चोभयोस्तथा
बलिस्तानभिनन्द्याह पञ्च पुत्रानकल्मषान् कृतार्थः सो ऽपि धर्मात्मा योगमायावृतः स्वयम्
अदृश्यः सर्वभूतानां कालापेक्षः स वै प्रभुः तत्राङ्गस्य तु दायादो राजासीद्दधिवाहनः
दधिवाहनपुत्रस्तु राजा दिविरथः स्मृतः आसीद् दिविरथापत्यं विद्वान्धर्मरथो नृपः
स हि धर्मरथः श्रीमांस् तेन विष्णुपदे गिरौ सोमः शुक्रेण वै राज्ञा सह पीतो महात्मना
अथ धर्मरथस्याभूत् पुत्रश्चित्ररथः किल तस्य सत्यरथः पुत्रस् तस्माद्दशरथः किल
लोमपाद इति ख्यातस् तस्य शान्ता सुताभवत् अथ दाशरथिर् वीरश् चतुरङ्गो महायशाः
ऋष्यशृङ्गप्रसादेन जज्ञे स्वकुलवर्धनः चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः
पृथुलाक्षसुतश्चापि चम्पनामा बभूव ह चम्पस्य तु पुरी चम्पा पूर्वं या मालिनी भवत्
पूर्णभद्रप्रसादेन हर्यङ्गो ऽस्य सुतो ऽभवत् यज्ञे विभाण्डकाच्चास्य वारणः शत्रुवारणः
अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम् हर्यङ्गस्य तु दायादो जातो भद्ररथः किल
अथ भद्ररथस्यासीद् बृहत्कर्मा जनेश्वरः बृहद्भानुः सुतस्तस्य तस्माज्जज्ञे महात्मवान्
बृहद्भानुस्तु राजेन्द्रो जनयामास वै सुतम् नाम्ना जयद्रथं नाम तस्माद्बृहद्रथो नृपः
आसीद्बृहद्रथाच्चैव विश्वजिज्जनमेजयः दायादस्तस्य चाङ्गो वै तस्मात्कर्णो ऽभवन्नृपः
कर्णस्य वृषसेनस्तु पृथुसेनस्तथात्मजः एते ऽङ्गस्यात्मजाः सर्वे राजानः कीर्तिता मया विस्तरेणानुपूर्व्याच्च पूरोस्तु शृणुत द्विजाः
कथं सूतात्मजः कर्णः कथमङ्गस्य चात्मजः एतद् इच्छामहे श्रोतुम् अत्यन्तकुशलो ह्य् असि
बृहद्भानुसुतो जज्ञे राजा नाम्ना बृहन्मनाः तस्य पत्नीद्वयं ह्य् आसीच् छैब्यस्य तनये ह्य् उभे यशोदेवी च सत्या च तयोर्वंशं च मे शृणु