बलेश्च ब्रह्मणा दत्तो वरः प्रीतेन धीमतः महायोगित्वमायुश्च कल्पस्य परिमाणकम्
संग्रामे चाप्यजेयत्वं धर्मे चैवोत्तमा मतिः त्रैकाल्यदर्शनं चैव प्राधान्यं प्रसवे तथा
जयं चाप्रतिमं युद्धे धर्मे तत्त्वार्थदर्शनम् चतुरो नियतान्वर्णान् स वै स्थापयिता प्रभुः
तेषां च पञ्च दायादा वङ्गाङ्गाः सुह्मकास्तथा पुण्ड्राः कलिङ्गाश्च तथा अङ्गस्य तु निबोधत
कथं बलेः सुता जाताः पञ्च तस्य महात्मनः किंनाम्नी महिषी तस्य जनिता कतम ऋषिः
कथं चोत्पादितास्तेन तन्नः प्रब्रूहि पृच्छताम् माहात्म्यं च प्रभावं च निखिलेन वदस्व तत्
अथोशिज इति ख्यात आसीद्विद्वानृषिः पुरा पत्नी वै ममता नाम बभूवास्य महात्मनः
उशिजस्य यवीयान्वै भ्रातृपत्नीमकामयत् बृहस्पतिर्महातेजा ममतामेत्य कामतः
उवाच ममता तं तु देवरं वरवर्णिनी अन्तर्वत्न्यस्मि ते भ्रातुर् ज्येष्ठस्य तु विरम्यताम्
अयं तु मे महाभाग गर्भः कुप्येद्बृहस्पते औशिजो भ्रातृजन्यस्ते सोपाङ्गं वेदमुद्गिरन्
अमोघरेतास्त्वं चापि न मां भजितुमर्हसि अस्मिन्न् एवं गते काले यथा वा मन्यसे प्रभो
एवमुक्तस्तथा सम्यग् बृहत्तेजा बृहस्पतिः कामात्मा स महात्मापि न मनः सो ऽभ्यवारयत्
संबभूवैव धर्मात्मा तया सार्धमकामया उत्सृजन्तं तु तद्रेतोवाचं गर्भो ऽभ्यभाषत
भो तात वाचामधिप द्वयोर्नास्तीह संस्थितिः अमोघरेतास्त्वं चापि पूर्वं चाहमिहागतः
सो ऽशपत्तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः पुत्रं ज्येष्ठस्य वै भ्रातुर् गर्भस्थं भगवानृषिः
यस्मात्त्वमीदृशे काले गर्भस्थो ऽपि निषेधसि मामेवमुक्तवांस्तस्मात् तमो दीर्घं प्रवेक्ष्यसि
ततो दीर्घतमा नाम शापादृषिरजायत अतो ऽंशजो बृहत्कीर्तिर् बृहस्पतिरिवौजसा
ऊर्ध्वरेतास्ततो ऽसौ वै वसते भ्रातुराश्रमे स धर्मान्सौरभेयांस्तु वृषभाच्छ्रुतवांस्ततः
तस्य भ्राता पितृव्यो यश् चकार भरणं तदा तस्मिन्निवसतस्तस्य यदृच्छातस्तु वै वृषः
यज्ञार्थमाहृतान्दर्भांश् चचार सुरभीसुतः जग्राह तं दीर्घतमाः शृङ्गयोस्तु चतुष्पदम्
तेनासौ निगृहीतश्च न चचाल पदात्पदम् ततो ऽब्रवीद्वृषस्तं वै मुञ्च मां बलिनां वर
न मयासादितस्तात बलवांस्त्वत्समः क्वचित् मम चान्यः समो वापि न हि मे बलसंख्यया मुञ्च तातेति च पुनः प्रीतस्ते ऽहं वरं वृणु
एवमुक्तो ऽब्रवीदेनं जीवन्मे त्वं क्व यास्यसि एष त्वां न विमोक्ष्यामि परस्वादं चतुष्पदम्
नास्माकं विद्यते तात पातकं स्तेयमेव च भक्ष्याभक्ष्यं तथा चैव पेयापेयं तथैव च
द्विपदां बहवो ह्य् एते धर्म एष गवां स्मृतः कार्याकार्ये न वागम्यागमनं च तथैव च
गवां धर्मं तु वै श्रुत्वा संभ्रान्तस्तु विसृज्य तम् शक्त्यान्नपानदानात्तु गोपतिं संप्रसादयत्
प्रसादिते गते तस्मिन् गोधर्मं भक्तितस्तु सः मनसैव समादध्यौ तन्निष्ठस्तत्परो हि सः
ततो यवीयसः पत्नीं गौतमस्याभ्यपद्यत कृतावलेपां तां मत्वा सो ऽनड्वानिव न क्षमः
गोधर्मं तु परं मत्वा स्नुषां तामभ्यपद्यत निर्भर्त्स्य चैनं रुद्ध्वा च बाहुभ्यां सम्प्रगृह्य च
भाव्यमर्थं तु तं ज्ञात्वा माहात्म्यात्तमुवाच सा विपर्ययं तु त्वं लब्ध्वा अनड्वानिव वर्तसे