द्रुह्योस्तु तनयौ शूरौ सेतुः केतुस्तथैव च सेतुपुत्रः शरद्वांस्तु गन्धारस्तस्य चात्मजः
ख्यायते यस्य नाम्नासौ गन्धारविषयो महान् आरट्टदेशजास्तस्य तुरगा वाजिनां वराः
गन्धारपुत्रो धर्मस्तु घृतस्तस्यात्मजो ऽभवत् घृताच्च विदुषो जज्ञे प्रचेतास्तस्य चात्मजः
प्रचेतसः पुत्रशतं राजानः सर्व एव ते म्लेच्छराष्ट्राधिपाः सर्वे उदीचीं दिशम् आश्रिताः
अनोश्चैव सुता वीरास् त्रयः परमधार्मिकाः सभानरश्चाक्षुषश्च परमेषुस् तथैव च
सभानरस्य पुत्रस्तु विद्वान्कोलाहलो नृपः कोलाहलस्य धर्मात्मा संजयो नाम विश्रुतः
संजयस्याभवत्पुत्रो वीरो नाम पुरंजयः जनमेजयो महाराज पुरंजयसुतो ऽभवत्
जनमेजयस्य राजर्षेर् महाशालो ऽभवत्सुतः आसीद् इन्द्रसमो राजा प्रतिष्ठितयशाभवत्
महामनाः सुतस्तस्य महाशालस्य धार्मिकः सप्तद्वीपेश्वरो जज्ञे चक्रवर्ती महामनाः
महामनास्तु द्वौ पुत्रौ जनयामास विश्रुतौ उशीनरं च धर्मज्ञं तितिक्षुं चैव ताव् उभौ
उशीनरस्य पत्न्यस्तु पञ्च राजर्षिसम्भवाः भृशा कृशा नवा दर्शा या च देवी दृषद्वती
उशीनरस्य पुत्रास्तु तासु जाताः कुलोद्वहाः तपसा ते तु महता जाता वृद्धस्य धार्मिकाः
भृशायास्तु नृगः पुत्रो नवाया नव एव च कृशायास्तु कृशो जज्ञे दर्शायाः सुव्रतो ऽभवत् दृषद्वत्याः सुतश्चापि शिबिर् औशीनरो नृपः
शिबेस्तु शिबयः पुत्राश् चत्वारो लोकविश्रुताः पृथुदर्भः सुवीरश्च केकयो भद्रकस्तथा
तेषां जनपदाः स्फीताः केकया भद्रकास्तथा सौवीराश्चैव पौराश्च नृगस्य केकयास्तथा
सुव्रतस्य तथाम्बष्ठा कृशस्य वृषला पुरी नवस्य नवराष्ट्रं तु तितिक्षोस्तु प्रजां शृणु
तितिक्षुरभवद्राजा पूर्वस्यां दिशि विश्रुतः बृहद्रथः सुतस्तस्य तस्य सेनो ऽभवत्सुतः
सेनस्य सुतपा जज्ञे सुतपस्तनयो बलिः जातो मानुषयोन्यां तु क्षीणे वंशे प्रजेच्छया
महायोगी तु स बलिर् बद्धो बन्धैर्महात्मना पुत्रानुत्पादयामास क्षेत्रजान्पञ्च पार्थिवान्
अङ्गं स जनयामास वङ्गं सुह्मं तथैव च पुण्ड्रं कलिङ्गं च तथा बालेयं क्षेत्रमुच्यते बालेया ब्राह्मणाश्चैव तस्य वंशकराः प्रभो
बलेश्च ब्रह्मणा दत्तो वरः प्रीतेन धीमतः महायोगित्वमायुश्च कल्पस्य परिमाणकम्
संग्रामे चाप्यजेयत्वं धर्मे चैवोत्तमा मतिः त्रैकाल्यदर्शनं चैव प्राधान्यं प्रसवे तथा
जयं चाप्रतिमं युद्धे धर्मे तत्त्वार्थदर्शनम् चतुरो नियतान्वर्णान् स वै स्थापयिता प्रभुः
तेषां च पञ्च दायादा वङ्गाङ्गाः सुह्मकास्तथा पुण्ड्राः कलिङ्गाश्च तथा अङ्गस्य तु निबोधत
कथं बलेः सुता जाताः पञ्च तस्य महात्मनः किंनाम्नी महिषी तस्य जनिता कतम ऋषिः
कथं चोत्पादितास्तेन तन्नः प्रब्रूहि पृच्छताम् माहात्म्यं च प्रभावं च निखिलेन वदस्व तत्
अथोशिज इति ख्यात आसीद्विद्वानृषिः पुरा पत्नी वै ममता नाम बभूवास्य महात्मनः
उशिजस्य यवीयान्वै भ्रातृपत्नीमकामयत् बृहस्पतिर्महातेजा ममतामेत्य कामतः
उवाच ममता तं तु देवरं वरवर्णिनी अन्तर्वत्न्यस्मि ते भ्रातुर् ज्येष्ठस्य तु विरम्यताम्
अयं तु मे महाभाग गर्भः कुप्येद्बृहस्पते औशिजो भ्रातृजन्यस्ते सोपाङ्गं वेदमुद्गिरन्