बलिसंस्थेषु लोकेषु त्रेतायां सप्तमं प्रति तृतीये वामनस्यार्थे धर्मेण तु पुरोधसा
एतास् तिस्रः स्मृतास्तस्य दिव्याः सम्भूतयो द्विजाः मानुषाः सप्त यान्यास्तु शापजास्ता निबोधत
त्रेतायुगे तु प्रथमे दत्तात्रेयो बभूव ह नष्टे धर्मे चतुर्थांशे मार्कण्डेयपुरःसरः
पञ्चमः पञ्चदश्यां च त्रेतायां संबभूव ह मान्धाता चक्रवर्ती तु तदोत्तङ्कपुरःसरे
एकोनविंश्यां त्रेतायां सर्वक्षत्रान्तकृद्विभुः जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसरः
चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः
अष्टमे द्वापरे विष्णुर् अष्टाविंशे पराशरात् वेदव्यासस्तथा जज्ञे जातूकर्ण्यपुरःसरः
कर्तुं धर्मव्यवस्थानम् असुराणां प्रणाशनम् बुद्धो नवमको जज्ञे तपसा पुष्करेक्षणः देवसुन्दररूपेण द्वैपायनपुरःसरः
तस्मिन्नेव युगे क्षीणे संध्याशिष्टे भविष्यति कल्की तु विष्णुयशसः पाराशर्यपुरःसरः
दशमो भाव्यसम्भूतो याज्ञवल्क्यपुरःसरः सर्वांश्च भूतांस् तिमितान् पाषण्डांश्चैव सर्वशः
प्रगृहीतायुधैर् विप्रैर् वृतः शतसहस्रशः
निःशेषाञ्छूद्रराज्ञस्तु तदा स तु करिष्यति ब्रह्मद्विषः सपत्नांस्तु संहृत्यैव च तद्वपुः
पञ्चविंशे स्थितः कल्किश् चरितार्थः ससैनिकः शूद्रान् संशोधयित्वा तु समुद्रान्तं च वै स्वयम्
प्रवृत्तचक्रो बलवान् संहारं तु करिष्यति उत्सादयित्वा वृषलान् प्रायशस्तानधार्मिकान्
ततस्तदा स वै कल्किश् चरितार्थः ससैनिकः प्रजास्तं साधयित्वा तु समृद्धास्तेन वै स्वयम्
अकस्मात्कोपितान्योन्यं भविष्यन्तीह मोहिताः क्षपयित्वा तु ते ऽन्योन्यं भाविनार्थेन चोदिताः
ततः काले व्यतीते तु स देवो ऽन्तरधीयत नृपेष्वथ प्रनष्टेषु प्रजानां संग्रहात्तदा
रक्षणे विनिवृत्ते तु हत्वा चान्योन्यमाहवे परस्परं च हत्वा तु निराक्रन्दाः सुदुःखिताः
पुराणि हित्वा ग्रामांश्च तुल्यत्वे निष्परिग्रहाः प्रनष्टाश्रमधर्माश्च नष्टवर्णाश्रमास्तथा
अट्टशूला नानपदाः शिवशूलाश्चतुष्पथाः प्रमदाः केशशूलाश्च भविष्यन्ति युगक्षये
ह्रस्वदेहायुषश्चैव भविष्यन्ति वनौकसः सरित्पर्वतवासिन्यो मूलपत्त्रफलाशनाः
चीरचर्माजिनधराः संकरं घोरमाश्रिताः उत्पातदुःखाः स्वल्पार्था बहुबाधाश्च ताः प्रजाः
एवं कष्टमनुप्राप्ताः काले संध्यंशके तदा ततः क्षयं गमिष्यन्ति सार्धं कलियुगेन तु
क्षीणे कलियुगे तस्मिंस् ततः कृतमवर्तत इत्येतत्कीर्तितं सम्यग् देवासुरविचेष्टितम्
यदुवंशप्रसङ्गेन समासाद्वैष्णवं यशः तुर्वसोस्तु प्रवक्ष्यामि पूरोर् द्रुह्योस्तथा ह्य् अनोः
तुर्वसोस्तु सुतो गर्भो गोभानुस्तस्य चात्मजः गोभानोस्तु सुतो वीरस् त्रिसारिरपराजितः
करंधमस्तु त्रैसारिर् भरतस्तस्य चात्मजः दुष्यन्तः पौरवस्यापि तस्य पुत्रो ह्य् अकल्मषः
एवं ययातिशापेन जरासंक्रमणे पुरा तुर्वसोः पौरवं वंशं प्रविवेश पुरा किल
दुष्यन्तस्य तु दायादो वरूथो नाम पार्थिवः वरूथात्तु तथाण्डीरः संधानस्तस्य चात्मजः
पाण्ड्यश्च केरलश्चैव चोलः कर्णस्तथैव च तेषां जनपदाः स्फीताः पाण्ड्याश्चोलाः सकेरलाः