यज्ञे चाहूय तौ प्रोक्तौ त्यजेतामसुरान् द्विजौ वयं युवां भजिष्यामः सह जित्वा तु दानवान्
एवं कृताभिसंधी तौ शण्डामर्कौ सुरास्तथा ततो देवा जयं प्रापुर् दानवाश्च पराजिताः
शण्डामर्कपरित्यक्ता दानवा ह्य् अबलास्तथा एवं दैत्याः पुरा काव्यशापेनाभिहतास्तदा
काव्यशापाभिभूतास्ते निराधाराश्च सर्वशः निरस्यमाना देवैश्च विविशुस्ते रसातलम्
एवं निरुद्यमा देवैः कृताः कृच्छ्रेण दानवाः ततः प्रभृति शापेन भृगोर्नैमित्तिकेन तु
जज्ञे पुनः पुनर्विष्णुर् धर्मे प्रशिथिले प्रभुः कुर्वन्धर्मव्यवस्थानम् असुराणां प्रणाशनम्
प्रह्लादस्य निदेशे तु न स्थास्यन्त्यसुराश्च ये मनुष्यवध्यास्ते सर्वे ब्रह्मेति व्याहरत्प्रभुः
धर्मान्नारायणस्यांशः सम्भूतश् चाक्षुषे ऽन्तरे यज्ञं वै वर्तयामासुर् देवा वैवस्वते ऽन्तरे
प्रादुर्भावे ततस्तस्य ब्रह्मा ह्य् आसीत्पुरोहितः युगाख्यायां चतुर्थ्यां तु आपन्नेषु सुरेषु वै
सम्भूतस्तु समुद्रान्ते हिरण्यकशिपोर्वधे द्वितीये नरसिंहाख्ये रुद्रो ह्य् आसीत्पुरोहितः
बलिसंस्थेषु लोकेषु त्रेतायां सप्तमं प्रति तृतीये वामनस्यार्थे धर्मेण तु पुरोधसा
एतास् तिस्रः स्मृतास्तस्य दिव्याः सम्भूतयो द्विजाः मानुषाः सप्त यान्यास्तु शापजास्ता निबोधत
त्रेतायुगे तु प्रथमे दत्तात्रेयो बभूव ह नष्टे धर्मे चतुर्थांशे मार्कण्डेयपुरःसरः
पञ्चमः पञ्चदश्यां च त्रेतायां संबभूव ह मान्धाता चक्रवर्ती तु तदोत्तङ्कपुरःसरे
एकोनविंश्यां त्रेतायां सर्वक्षत्रान्तकृद्विभुः जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसरः
चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः
अष्टमे द्वापरे विष्णुर् अष्टाविंशे पराशरात् वेदव्यासस्तथा जज्ञे जातूकर्ण्यपुरःसरः
कर्तुं धर्मव्यवस्थानम् असुराणां प्रणाशनम् बुद्धो नवमको जज्ञे तपसा पुष्करेक्षणः देवसुन्दररूपेण द्वैपायनपुरःसरः
तस्मिन्नेव युगे क्षीणे संध्याशिष्टे भविष्यति कल्की तु विष्णुयशसः पाराशर्यपुरःसरः
दशमो भाव्यसम्भूतो याज्ञवल्क्यपुरःसरः सर्वांश्च भूतांस् तिमितान् पाषण्डांश्चैव सर्वशः
प्रगृहीतायुधैर् विप्रैर् वृतः शतसहस्रशः
निःशेषाञ्छूद्रराज्ञस्तु तदा स तु करिष्यति ब्रह्मद्विषः सपत्नांस्तु संहृत्यैव च तद्वपुः
पञ्चविंशे स्थितः कल्किश् चरितार्थः ससैनिकः शूद्रान् संशोधयित्वा तु समुद्रान्तं च वै स्वयम्
प्रवृत्तचक्रो बलवान् संहारं तु करिष्यति उत्सादयित्वा वृषलान् प्रायशस्तानधार्मिकान्
ततस्तदा स वै कल्किश् चरितार्थः ससैनिकः प्रजास्तं साधयित्वा तु समृद्धास्तेन वै स्वयम्
अकस्मात्कोपितान्योन्यं भविष्यन्तीह मोहिताः क्षपयित्वा तु ते ऽन्योन्यं भाविनार्थेन चोदिताः
ततः काले व्यतीते तु स देवो ऽन्तरधीयत नृपेष्वथ प्रनष्टेषु प्रजानां संग्रहात्तदा
रक्षणे विनिवृत्ते तु हत्वा चान्योन्यमाहवे परस्परं च हत्वा तु निराक्रन्दाः सुदुःखिताः
पुराणि हित्वा ग्रामांश्च तुल्यत्वे निष्परिग्रहाः प्रनष्टाश्रमधर्माश्च नष्टवर्णाश्रमास्तथा
अट्टशूला नानपदाः शिवशूलाश्चतुष्पथाः प्रमदाः केशशूलाश्च भविष्यन्ति युगक्षये