यस्मात्प्रवृत्तयश्चास्य संकाशाद् अभिसंधिताः तस्माद्वृत्तेन प्रीतेन तुभ्यं दत्तं स्वयम्भुवा
देवराज्ये बलिर्भाव्य इति मामीश्वरो ऽब्रवीत् तस्माददृश्यो भूतानां कालापेक्षः स तिष्ठति
प्रीतेन चापरो दत्तो वरस्तुभ्यं स्वयम्भुवा तस्मान्निरुत्सुकस्त्वं वै पर्यायं सहितो ऽसुरैः
न हि शक्यं मया तुभ्यं पुरस्ताद् विप्रभाषितुम् ब्रह्मणा प्रतिषिद्धो ऽहं भविष्यं जानता विभो
इमौ च शिष्यौ द्वौ मह्यं समाव् एतौ बृहस्पतेः दैवतैः सह संसृष्टान् सर्वान्वो धारयिष्यतः
इत्युक्ता ह्य् असुराः सर्वे काव्येनाक्लिष्टकर्मणा हृष्टास्तेन ययुः सार्धं प्रह्लादेन महात्मना
अवश्यं भाव्यमर्थं तु श्रुत्वा शुक्रेण भाषितम् सकृदाशंसमानास्तु जयं शुक्रेण भाषितम् दंशिताः सायुधाः सर्वे ततो देवान्समाह्वयन्
देवास्तदासुरान्दृष्ट्वा संग्रामे समुपस्थितान् सर्वे संभृतसम्भारा देवास्तान् समयोधयन्
देवासुरे तदा तस्मिन् वर्तमाने शतं समाः अजयन्नसुरा देवांस् ततो देवा ह्य् अमन्त्रयन्
यज्ञेनोपाह्वयामस् तौ ततो जेष्यामहे ऽसुरान् तदोपामन्त्रयन्देवाः शण्डामर्कौ तु ताव् उभौ
यज्ञे चाहूय तौ प्रोक्तौ त्यजेतामसुरान् द्विजौ वयं युवां भजिष्यामः सह जित्वा तु दानवान्
एवं कृताभिसंधी तौ शण्डामर्कौ सुरास्तथा ततो देवा जयं प्रापुर् दानवाश्च पराजिताः
शण्डामर्कपरित्यक्ता दानवा ह्य् अबलास्तथा एवं दैत्याः पुरा काव्यशापेनाभिहतास्तदा
काव्यशापाभिभूतास्ते निराधाराश्च सर्वशः निरस्यमाना देवैश्च विविशुस्ते रसातलम्
एवं निरुद्यमा देवैः कृताः कृच्छ्रेण दानवाः ततः प्रभृति शापेन भृगोर्नैमित्तिकेन तु
जज्ञे पुनः पुनर्विष्णुर् धर्मे प्रशिथिले प्रभुः कुर्वन्धर्मव्यवस्थानम् असुराणां प्रणाशनम्
प्रह्लादस्य निदेशे तु न स्थास्यन्त्यसुराश्च ये मनुष्यवध्यास्ते सर्वे ब्रह्मेति व्याहरत्प्रभुः
धर्मान्नारायणस्यांशः सम्भूतश् चाक्षुषे ऽन्तरे यज्ञं वै वर्तयामासुर् देवा वैवस्वते ऽन्तरे
प्रादुर्भावे ततस्तस्य ब्रह्मा ह्य् आसीत्पुरोहितः युगाख्यायां चतुर्थ्यां तु आपन्नेषु सुरेषु वै
सम्भूतस्तु समुद्रान्ते हिरण्यकशिपोर्वधे द्वितीये नरसिंहाख्ये रुद्रो ह्य् आसीत्पुरोहितः
बलिसंस्थेषु लोकेषु त्रेतायां सप्तमं प्रति तृतीये वामनस्यार्थे धर्मेण तु पुरोधसा
एतास् तिस्रः स्मृतास्तस्य दिव्याः सम्भूतयो द्विजाः मानुषाः सप्त यान्यास्तु शापजास्ता निबोधत
त्रेतायुगे तु प्रथमे दत्तात्रेयो बभूव ह नष्टे धर्मे चतुर्थांशे मार्कण्डेयपुरःसरः
पञ्चमः पञ्चदश्यां च त्रेतायां संबभूव ह मान्धाता चक्रवर्ती तु तदोत्तङ्कपुरःसरे
एकोनविंश्यां त्रेतायां सर्वक्षत्रान्तकृद्विभुः जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसरः
चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः
अष्टमे द्वापरे विष्णुर् अष्टाविंशे पराशरात् वेदव्यासस्तथा जज्ञे जातूकर्ण्यपुरःसरः
कर्तुं धर्मव्यवस्थानम् असुराणां प्रणाशनम् बुद्धो नवमको जज्ञे तपसा पुष्करेक्षणः देवसुन्दररूपेण द्वैपायनपुरःसरः
तस्मिन्नेव युगे क्षीणे संध्याशिष्टे भविष्यति कल्की तु विष्णुयशसः पाराशर्यपुरःसरः
दशमो भाव्यसम्भूतो याज्ञवल्क्यपुरःसरः सर्वांश्च भूतांस् तिमितान् पाषण्डांश्चैव सर्वशः