अजैकपादहिर्बुध्न्यो विरूपाक्षो ऽथ रैवतः हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः
सावित्रश्च जयन्तश्च पिनाकी चापराजितः एते रुद्राः समाख्याता एकादश गणेश्वराः
एतेषां मानसानां तु त्रिशूलवरधारिणाम् कोटयश्चतुरशीतिस् तत्पुत्राश् चाक्षया मताः
दिक्षु सर्वासु ये रक्षां प्रकुर्वन्ति गणेश्वराः पुत्रपौत्रसुताश्चैते सुरभीगर्भसम्भवाः
कश्यपस्य प्रवक्ष्यामि पत्नीभ्यः पुत्रपौत्रकान् अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा
सुरभिर् विनता तद्वत् ताम्रा क्रोधवशा इरा कद्रूर्विश्वा मुनिस् तद्वत् तासां पुत्रान् निबोधत
तुषिता नाम ये देवाश् चाक्षुषस्यान्तरे मनोः वैवस्वते ऽन्तरे चैते आदित्या द्वादश स्मृताः
इन्द्रो धाता भगस् त्वष्टा मित्रो ऽथ वरुणो यमः विवस्वान्सविता पूषा अंशुमान् विष्णुर् एव च
एते सहस्रकिरणा आदित्या द्वादश स्मृताः मारीचात्कश्यपादाप पुत्रानदितिरुत्तमान्
भृशाश्वस्य ऋषेः पुत्रा देवप्रहरणाः स्मृताः एते देवगणा विप्राः प्रतिमन्वन्तरेषु च
उत्पद्यन्ते प्रलीयन्ते कल्पे कल्पे तथैव च दितिः पुत्रद्वयं लेभे कश्यपाद् इति नः श्रुतम्
हिरण्यकशिपुं चैव हिरण्याक्षं तथैव च हिरण्यकशिपोस्तद्वज् जातं पुत्रचतुष्टयम्
प्रह्लादश् चानुह्लादश्च संह्लादो ह्लाद एव च प्रह्लादपुत्र आयुष्मान् शिबिर् बाष्कल एव च
विरोचनश् चतुर्थश्च स बलिं पुत्रमाप्तवान् बलेः पुत्रशतं त्व् आसीद् बाणज्येष्ठं ततो द्विजाः
धृतराष्ट्रस् तथा सूर्यश् चन्द्रश्चन्द्रांशुतापनः निकुम्भनाभो गुर्वक्षः कुक्षिभीमो विभीषणः
एवमाद्यास् तु बहवो बाणज्येष्ठा गुणाधिकाः बाणः सहस्रबाहुश् च सर्वास्त्रगणसंयुतः
तपसा तोषितो यस्य पुरे वसति शूलभृत् महाकालत्वम् अगमत् साम्यं यश्च पिनाकिनः
हिरण्याक्षस्य पुत्रो ऽभूद् उलूकः शकुनिस्तथा भूतसंतापनश् चैव महानाभस्तथैव च
एतेभ्यः पुत्रपौत्राणां कोटयः सप्तसप्ततिः महाबला महाकाया नानारूपा महौजसः
दनुः पुत्रशतं लेभे कश्यपाद् बलदर्पितम् विप्रचित्तिः प्रधानो ऽभूद् येषां मध्ये महाबलः
द्विमूर्धा शकुनिश्चैव तथा शङ्कुशिरोधरः अयोमुखः शम्बरश् च कपिशो नामतस्तथा
मारीचिर् मेघवांश्चैव इरा गर्भशिरास् तथा विद्रावणश्च केतुश्च केतुवीर्यः शतह्रदः
इन्द्रजित् सप्तजिच्चैव वज्रनाभस्तथैव च एकचक्रो महाबाहुर् वज्राक्षस् तारकस् तथा
असिलोमा पुलोमा च बिन्दुर्बाणो महासुरः स्वर्भानुर्वृषपर्वा च एवमाद्या दनोः सुताः
स्वर्भानोस्तु प्रभा कन्या शची चैव पुलोमजा उपदानवी मयस्यासीत् तथा मन्दोदरी कुहूः
शर्मिष्ठा सुन्दरी चैव चन्द्रा च वृषपर्वणः पुलोमा कालका चैव वैश्वानरसुते हि ते
बह्वपत्ये महासत्त्वे मारीचस्य परिग्रहे तयोः षष्टिसहस्राणि दानवानामभूत्पुरा
पौलोमान्कालकेयांश्च मारीचो ऽजनयत्पुरा अवध्या ये ऽमराणां वै हिरण्यपुरवासिनः
चतुर्मुखाल्लब्धवरास् ते हता विजयेन तु विप्रचित्तिः सैंहिकेयान् सिंहिकायाम् अजीजनत्
हिरण्यकशिपोर्ये वै भागिनेयास् त्रयोदश व्यंसः कल्पश्च राजेन्द्र नलो वातापिरेव च