काव्यं मां वो विजानीध्वं तोषितो गिरिशो विभुः वञ्चिता बत यूयं वै सर्वे शृणुत दानवाः
श्रुत्वा तथा ब्रुवाणं तं संभ्रान्तास्ते तदाभवन् प्रेक्षन्तस् ताव् उभौ तत्र स्थितासीनौ सुविस्मिताः
सम्प्रमूढास् ततः सर्वे न प्राबुध्यन्त किंचन अब्रवीत् सम्प्रमूढेषु काव्यस्तानसुरांस्तदा
आचार्यो वो ह्य् अहं काव्यो देवाचार्यो ऽयमङ्गिराः अनुगच्छत मां दैत्यास् त्यजतैनं बृहस्पतिम्
इत्युक्ता ह्य् असुरास्तेन ताव् उभौ समवेक्ष्य च यदासुरा विशेषं तु न जानन्त्युभयोस्तयोः
बृहस्पतिर् उवाचैनान् असम्भ्रान्तस्तपोधनः काव्यो वो ऽहं गुरुर्दैत्या मद्रूपो ऽयं बृहस्पतिः
संमोहयति रूपेण मामकेनैष वो ऽसुराः श्रुत्वा तस्य ततस्ते वै समेत्य तु ततो ऽब्रुवन्
अयं नो दश वर्षाणि सततं शास्ति वै प्रभुः एष वै गुरुरस्माकम् अन्तरेप्सुरयं द्विजः
ततस्ते दानवाः सर्वे प्रणिपत्याभिनन्द्य च वचनं जगृहुस्तस्य चिराभ्यासे न मोहिताः
ऊचुस् तमसुराः सर्वे क्रोधसंरक्तलोचनाः अयं गुरुर् हितो ऽस्माकं गच्छ त्वं नासि नो गुरुः
भार्गवो वाङ्गिरा वापि भगवानेष नो गुरुः स्थिता वयं निदेशे ऽस्य साधु त्वं गच्छ माचिरम्
एवमुक्त्वासुराः सर्वे प्रापद्यन्त बृहस्पतिम् यदा न प्रत्यपद्यन्त काव्येनोक्तं महद्धितम्
चुकोप भार्गवस्तेषाम् अवलेपेन तेन तु बोधिता हि मया यस्मान् न मां भजथ दानवाः
तस्मात्प्रनष्टसंज्ञा वै पराभवमवाप्स्यथ इति व्याहृत्य तान्काव्यो जगामाथ यथागतम्
शप्तांस्तानसुराञ्ज्ञात्वा काव्येन स बृहस्पतिः कृतार्थः स तदा हृष्टः स्वरूपं प्रत्यपद्यत
बुद्ध्यासुरान् हताञ्ज्ञात्वा कृतार्थो ऽन्तरधीयत ततः प्रनष्टे तस्मिंस्तु विभ्रान्ता दानवाभवन्
अहो विवञ्चिताः स्मेति परस्परमथाब्रुवन् पृष्ठतो ऽभिमुखाश्चैव ताडिताङ्गिरसेन तु
वञ्चिताः सोपधानेन स्वे स्वे वस्तुनि मायया ततस्त्वपरितुष्टास्ते तमेव त्वरिता ययुः प्रह्लादमग्रतः कृत्वा काव्यस्यानुपदं पुनः
ततः काव्यं समासाद्य उपतस्थुरवाङ्मुखाः समागतान्पुनर्दृष्ट्वा काव्यो याज्यानुवाच ह
मया संबोधिताः सर्वे यस्मान्मा नाभिनन्दथ ततस्तेनावमानेन गता यूयं पराभवम्
एवं ब्रुवाणं शुक्रं तु बाष्पसंदिग्धया गिरा प्रह्लादस्तं तदोवाच मा नस्त्वं त्यज भार्गव
स्वाश्रयान् भजमानांश्च भक्तांस्त्वं भज भार्गव त्वय्यदृष्टे वयं तेन देवाचार्येण मोहिताः भक्तानर्हसि वै ज्ञातुं तपोदीर्घेण चक्षुषा
यदि नस्त्वं न कुरुषे प्रसादं भृगुनन्दन अपध्यातास् त्वया ह्य् अद्य प्रविशामो रसातलम्
ज्ञात्वा काव्यो यथातत्त्वं कारुण्यादनुकम्पया एवं प्रत्यनुनीतो वै ततः कोपं नियम्य सः उवाचैतान्न भेतव्यं न गन्तव्यं रसातलम्
अवश्यं भाविनो ह्य् अर्थाः प्राप्तव्या मयि जाग्रति न शक्यमन्यथा कर्तुं दिष्टं हि बलवत्तरम्
संज्ञा प्रनष्टा या वो ऽद्य तामेतां प्रतिपत्स्यथ देवाञ्जित्वा सकृच्चापि पातालं प्रतिपत्स्यथ
प्राप्ते पर्यायकाले च हीति ब्रह्माभ्यभाषत मत्प्रसादाच्च त्रैलोक्यं भुक्तं युष्माभिरूर्जितम्
युगाख्या दश सम्पूर्णा देवानाक्रम्य मूर्धनि एतावन्तं च कालं वै ब्रह्मा राज्यमभाषत
राज्यं सावर्णिके तुभ्यं पुनः किल भविष्यति लोकानामीश्वरो भाव्यस् तव पौत्रः पुनर्बलिः
एवं किल मिथः प्रोक्तः पौत्रस्ते विष्णुना स्वयम् वाचा हृतेषु लोकेषु तास्तास्तस्याभवन्किल