वसवे चैव साध्याय रुद्रादित्यसुराय च विषाय मारुतायैव तुभ्यं देवात्मने नमः
अग्नीषोमविधिज्ञाय पशुमन्त्रौषधाय च स्वयम्भुवे ह्य् अजायैव अपूर्वप्रथमाय च प्रजानां पतये चैव तुभ्यं ब्रह्मात्मने नमः
आत्मेशायात्मवश्याय सर्वेशातिशयाय च सर्वभूताङ्गभूताय तुभ्यं भूतात्मने नमः
निर्गुणाय गुणज्ञाय व्याकृतायामृताय च निरुपाख्याय मित्राय तुभ्यं सांख्यात्मने नमः
पृथिव्यै चान्तरिक्षाय दिव्याय च महाय च जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः
अव्यक्ताय च महते भूतादेरिन्द्रियाय च आत्मज्ञाय विशेषाय तुभ्यं सर्वात्मने नमः
नित्याय चात्मलिङ्गाय सूक्ष्मायैवेतराय च बुद्धाय विभवे चैव तुभ्यं मोक्षात्मने नमः
नमस्ते त्रिषु लोकेषु नमस्ते परतस् त्रिषु सत्यान्तेषु महाद्येषु चतुर्षु च नमो ऽस्तु ते
नमः स्तोत्रे मया ह्य् अस्मिन् यदि न व्याहृतं भवेत् मद्भक्त इति ब्रह्मण्य तत्सर्वं क्षन्तुमर्हसि
एवमाभाष्य देवेशम् ईश्वरं नीललोहितम् प्रह्वो ऽभिप्रणतस्तस्मै प्राञ्जलिर्वाग्यतो ऽभवत्
काव्यस्य गात्रं संस्पृश्य हस्तेन प्रीतिमान्भवः निकामं दर्शनं दत्त्वा तत्रैवान्तरधीयत
ततः सो ऽन्तर्हिते तस्मिन् देवेशे ऽनुचरीं तदा तिष्ठन्तीं पार्श्वतो दृष्ट्वा जयन्तीमिदमब्रवीत्
कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता महता तपसा युक्ता किमर्थं मां निषेवसे
अनया संस्तुतो भक्त्या प्रश्रयेण दमेन च स्नेहेन चैव सुश्रोणि प्रीतो ऽस्मि वरवर्णिनि
किमिच्छसि वरारोहे कस्ते कामः समृध्यताम् तत्ते सम्पादयाम्यद्य यद्यपि स्यात्सुदुष्करः
एवमुक्ताब्रवीदेनं तपसा ज्ञातुमर्हसि चिकीर्षितं हि मे ब्रह्मंस् त्वं हि वेत्थ यथातथम्
एवमुक्तो ऽब्रवीदेनां दृष्ट्वा दिव्येन चक्षुषा मया सह त्वं सुश्रोणि दश वर्षाणि भामिनि
सर्वभूतैरदृश्या च संप्रयोगमिहेच्छसि देवि चेन्दीवरश्यामे वरार्हे वामलोचने एवं वृणोषि कामं त्वं मत्तो वै वल्गुभाषिणि
एवं भवतु गच्छामो गृहान्नो मत्तकाशिनि ततः स्वगृहमागत्य जयन्त्याः पाणिमुद्वहन्
तया सहावसद्देव्या दश वर्षाणि भार्गवः अदृश्यः सर्वभूतानां मायया संवृतः प्रभुः
कृतार्थमागतं दृष्ट्वा काव्यं सर्वे दितेः सुताः अभिजग्मुर्गृहं तस्य मुदितास्ते दिदृक्षवः
यदा गता न पश्यन्ति मायया संवृतं गुरुम् लक्षणं तस्य तद्बुद्ध्वा प्रतिजग्मुर्यथागतम्
बृहस्पतिस्तु संरुद्धं काव्यं ज्ञात्वा वरेण तु तुष्ट्यर्थं दश वर्षाणि जयन्त्या हितकाम्यया
बुद्ध्वा तदन्तरं सो ऽपि दैत्यानामिन्द्रनोदितः काव्यस्य रूपमास्थाय असुरान् समुपाह्वयत्
ततस्तानागतान्दृष्ट्वा बृहस्पतिरुवाच ह स्वागतं मम याज्यानां प्राप्तो ऽहं वो हिताय च
अहं वो ऽध्यापयिष्यामि विद्याः प्राप्तास्तु या मया ततस्ते हृष्टमनसो विद्यार्थमुपपेदिरे
पूर्णे काव्यस्तदा तस्मिन् समये दशवार्षिके समयान्ते देवयानी तदोत्पन्ना इति श्रुतिः बुद्धिं चक्रे ततः सो ऽथ याज्यानां प्रत्यवेक्षणे
देवि गच्छाम्यहं द्रष्टुं मम याज्याञ्शुचिस्मिते विभ्रान्तवीक्षिते साध्वि त्रिवर्णायतलोचने
एवमुक्ताब्रवीद् एनं भज भक्तान्महाव्रत एष धर्मः सतां ब्रह्मन् न धर्मं लोपयामि ते
ततो गत्वासुरान्दृष्ट्वा देवाचार्येण धीमता वञ्चितान्काव्यरूपेण ततः काव्यो ऽब्रवीत्तु तान्