उष्णीषिणे सुवक्त्राय बहुरूपाय वेधसे वसुरेताय रुद्राय तपसे चित्रवाससे
ह्रस्वाय मुक्तकेशाय सेनान्ये रोहिताय च कवये राजवृक्षाय तक्षकक्रीडनाय च
सहस्रशिरसे चैव सहस्राक्षाय मीधुषे वराय भव्यरूपाय श्वेताय पुरुषाय च
गिरिशाय नमो ऽर्काय बलिने आज्यपाय च सुतृप्ताय सुवस्त्राय धन्विने भार्गवाय च
निषङ्गिणे च ताराय स्वक्षाय क्षपणाय च ताम्राय चैव भीमाय उग्राय च शिवाय च
महादेवाय शर्वाय विश्वरूपशिवाय च हिरण्याय वरिष्ठाय ज्येष्ठाय मध्यमाय च
वास्तोष्पते पिनाकाय मुक्तये केवलाय च मृगव्याधाय दक्षाय स्थाणवे भीषणाय च
बहुनेत्राय धुर्याय त्रिनेत्रायेश्वराय च कपालिने च वीराय मृत्यवे त्र्यम्बकाय च
बभ्रवे च पिशङ्गाय पिङ्गलायारुणाय च पिनाकिने चेषुमते चित्राय रोहिताय च
दुन्दुभ्यायैकपादाय अजाय बुद्धिदाय च आरण्याय गृहस्थाय यतये ब्रह्मचारिणे
सांख्याय चैव योगाय व्यापिने दीक्षिताय च अनाहताय शर्वाय भव्येशाय यमाय च
रोधसे चेकितानाय ब्रह्मिष्ठाय महर्षये चतुष्पदाय मेध्याय रक्षिणे शीघ्रगाय च
शिखण्डिने करालाय दंष्ट्रिणे विश्ववेधसे भास्वराय प्रतीताय सुदीप्ताय सुमेधसे
क्रूरायाविकृतायैव भीषणाय शिवाय च सौम्याय चैव मुख्याय धार्मिकाय शुभाय च
अवध्यायामृतायैव नित्याय शाश्वताय च व्यापृताय विशिष्टाय भरताय च साक्षिणे
क्षेमाय सहमानाय सत्याय चामृताय च कर्त्रे परशवे चैव शूलिने दिव्यचक्षुषे
सोमपायाज्यपायैव धूमपायोष्मपाय च शुचये परिधानाय सद्योजाताय मृत्यवे
पिशिताशाय सर्वाय मेघाय विद्युताय च व्यावृत्ताय वरिष्ठाय भरिताय तरक्षवे
त्रिपुरघ्नाय तीर्थाया-वक्राय रोमशाय च तिग्मायुधाय व्याख्याय सुसिद्धाय पुलस्तये
रोचमानाय चण्डाय स्फीताय ऋषभाय च व्रतिने युञ्जमानाय शुचये चोर्ध्वरेतसे
असुरघ्नाय स्वाघ्नाय मृत्युघ्ने यज्ञियाय च कृशानवे प्रचेताय वह्नये निर्मलाय च
रक्षोघ्नाय पशुघ्नायाविघ्नाय श्वसिताय च विभ्रान्ताय महान्ताय अर्णवे दुर्गमाय च
कृष्णाय च जयन्ताय लोकानामीश्वराय च अनाश्रिताय वेध्याय समत्वाधिष्ठिताय च
हिरण्यबाहवे चैव व्याप्ताय च महाय च सुकर्मणे प्रसह्याय चेशानाय सुचक्षुषे
क्षिप्रेषवे सदश्वाय शिवाय मोक्षदाय च कपिलाय पिशङ्गाय महादेवाय धीमते
महाकायाय दीप्ताय रोदनाय सहाय च दृढधन्विने कवचिने रथिने च वरूथिने
भृगुनाथाय शुक्राय गह्वरेष्ठाय वेधसे अमोघाय प्रशान्ताय सुमेधाय वृषाय च
नमो ऽस्तु तुभ्यं भगवन् विश्वाय कृत्तिवाससे पशूनां पतये तुभ्यं भूतानां पतये नमः
प्रणवे ऋग्यजुःसाम्ने स्वाहाय च स्वधाय च वषट्कारात्मने चैव तुभ्यं मन्त्रात्मने नमः
त्वष्ट्रे धात्रे तथा कर्त्रे चक्षुःश्रोत्रमयाय च भूतभव्यभवेशाय तुभ्यं कर्मात्मने नमः