यदि कृत्स्नो मया धर्मो ज्ञायते चरितो ऽपि वा तेन सत्येन जीवस्व यदि सत्यं वदाम्यहम्
ततस्तां प्रोक्ष्य शीताभिर् अद्भिर् जीवेति सो ऽब्रवीत् ततो ऽभिव्याहृते तस्य देवी संजीविता तदा
ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव साधु साध्विति चक्रुस्ते वचसा सर्वतोदिशम्
एवं प्रत्याहृता तेन देवी सा भृगुणा तदा मिषतां देवतानां हि तदद्भुतम् इवाभवद्
असंभ्रान्तेन भृगुणा पत्नी संजीविता पुनः दृष्ट्वा चेन्द्रो नालभत शर्म काव्यभयात्पुनः प्रजागरे ततश्चेन्द्रो जयन्तीमिदमब्रवीत्
संचिन्त्य मतिमान् वाक्यं स्वां कन्यां पाकशासनः एष काव्यो ह्यमित्राय व्रतं चरति दारुणम् तेनाहं व्याकुलः पुत्रि कृतो मतिमता भृशम्
गच्छ संसाधयस्वैनं श्रमापनयनैः शुभैः तैस्तैर्मनोनुकूलैश्च ह्य् उपचारैर् अतन्द्रिता
काव्यमाराधयस्वैनं यथा तुष्येत स द्विजः गच्छ त्वं तस्य दत्ताऽसि प्रयत्नं कुरु मत्कृते
एवमुक्ता जयन्ती सा वचः संगृह्य वै पितुः अगच्छद्यत्र घोरं स तप आरभ्य तिष्ठति
तं दृष्ट्वा तु पिबन्तं सा कणधूमम् अवाङ्मुखम् यक्षेण पात्यमानं च कुण्डधारेण पातितम्
दृष्ट्वा च तं पात्यमानं देवी काव्यमवस्थितम् स्वरूपं ध्यानशाम्यन्तं दुर्बलं भूतिमास्थितम् पित्रा यथोक्तं वाक्यं सा काव्ये कृतवती तदा
गीर्भिश्चैवानुकूलाभिः स्तुवती वल्गुभाषिणी गात्रसंवाहनैः काले सेवमाना त्वचः सुखैः व्रतचर्यानुकूलाभिर् उवास बहुलाः समाः
पूर्णे धूमव्रते तस्मिन् घोरे वर्षसहस्रके वरेण च्छन्दयामास काव्यं प्रीतो भवस्तदा
एतद्व्रतं त्वयैकेन चीर्णं नान्येन केनचित् तस्माद्वै तपसा बुद्ध्या श्रुतेन च बलेन च
तेजसा च सुरान्सर्वांस् त्वमेको ऽभिभविष्यसि यच्चाभिलषितं ब्रह्मन् विद्यते भृगुनन्दन
प्रपत्स्यसे तु तत्सर्वं नानुवाच्यं तु कस्यचित् सर्वाभिभावी तेन त्वं भविष्यसि द्विजोत्तम
एतान्दत्त्वा वरांस्तस्मै भार्गवाय भवः पुनः प्रजेशत्वं धनेशत्वम् अवध्यत्वं च वै ददौ
एतांल्लब्ध्वा वरान्काव्यः सम्प्रहृष्टतनूरुहः हर्षात्प्रादुर्बभौ तस्य दिव्यस्तोत्रं महेश्वरे तथा तिर्यक्स्थितश्चैव तुष्टुवे नीललोहितम्
नमो ऽस्तु शितिकण्ठाय कनिष्ठाय सुवर्चसे लेलिहानाय काव्याय वत्सरायान्धसः पते
कपर्दिने करालाय हर्यक्ष्णे वरदाय च संस्तुताय सुतीर्थाय देवदेवाय रंहसे
उष्णीषिणे सुवक्त्राय बहुरूपाय वेधसे वसुरेताय रुद्राय तपसे चित्रवाससे
ह्रस्वाय मुक्तकेशाय सेनान्ये रोहिताय च कवये राजवृक्षाय तक्षकक्रीडनाय च
सहस्रशिरसे चैव सहस्राक्षाय मीधुषे वराय भव्यरूपाय श्वेताय पुरुषाय च
गिरिशाय नमो ऽर्काय बलिने आज्यपाय च सुतृप्ताय सुवस्त्राय धन्विने भार्गवाय च
निषङ्गिणे च ताराय स्वक्षाय क्षपणाय च ताम्राय चैव भीमाय उग्राय च शिवाय च
महादेवाय शर्वाय विश्वरूपशिवाय च हिरण्याय वरिष्ठाय ज्येष्ठाय मध्यमाय च
वास्तोष्पते पिनाकाय मुक्तये केवलाय च मृगव्याधाय दक्षाय स्थाणवे भीषणाय च
बहुनेत्राय धुर्याय त्रिनेत्रायेश्वराय च कपालिने च वीराय मृत्यवे त्र्यम्बकाय च
बभ्रवे च पिशङ्गाय पिङ्गलायारुणाय च पिनाकिने चेषुमते चित्राय रोहिताय च
दुन्दुभ्यायैकपादाय अजाय बुद्धिदाय च आरण्याय गृहस्थाय यतये ब्रह्मचारिणे