पृथिवीतलसम्भूतम् अरुन्धत्याम् अजायत संकल्पायास्तु संकल्पो वसुसृष्टिं निबोधत
ज्योतिष्मन्तस्तु ये देवा व्यापकाः सर्वतो दिशम् वसवस्ते समाख्यातास् तेषां सर्गं निबोधत
आपो ध्रुवश्च सोमश्च धरश्चैवानिलो ऽनलः प्रत्यूषश्च प्रभासश्च वसवो ऽष्टौ प्रकीर्तिताः
आपस्य पुत्राश् चत्वारः शान्तो वै दण्ड एव च शाम्बो ऽथ मणिवक्त्रश्च यज्ञरक्षाधिकारिणः
ध्रुवस्य कालः पुत्रस्तु वर्चाः सोमादजायत द्रविणो हव्यवाहश्च धरपुत्राव् उभौ स्मृतौ
कल्याणिन्यां ततः प्राणो रमणः शिशिरो ऽपि च मनोहरा धरात्पुत्रान् अवापाथ हरेः सुता
शिवा मनोजवं पुत्रम् अविज्ञातगतिं तथा अवाप चानलात् पुत्राव् अग्निप्रायगुणौ पुनः
अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत तस्य शाखो विशाखश्च नैगमेयश् च पृष्ठजाः
अपत्यं कृत्तिकानां तु कार्त्तिकेयस् ततः स्मृतः प्रत्यूषस ऋषिः पुत्रो विभुर् नाम्नाथ देवलः विश्वकर्मा प्रभासस्य पुत्रः शिल्पी प्रजापतिः
प्रासादभवनोद्यानप्रतिमाभूषणादिषु तडागारामकूपेषु स्मृतः सो ऽमरवर्धकिः
अजैकपादहिर्बुध्न्यो विरूपाक्षो ऽथ रैवतः हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः
सावित्रश्च जयन्तश्च पिनाकी चापराजितः एते रुद्राः समाख्याता एकादश गणेश्वराः
एतेषां मानसानां तु त्रिशूलवरधारिणाम् कोटयश्चतुरशीतिस् तत्पुत्राश् चाक्षया मताः
दिक्षु सर्वासु ये रक्षां प्रकुर्वन्ति गणेश्वराः पुत्रपौत्रसुताश्चैते सुरभीगर्भसम्भवाः
कश्यपस्य प्रवक्ष्यामि पत्नीभ्यः पुत्रपौत्रकान् अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा
सुरभिर् विनता तद्वत् ताम्रा क्रोधवशा इरा कद्रूर्विश्वा मुनिस् तद्वत् तासां पुत्रान् निबोधत
तुषिता नाम ये देवाश् चाक्षुषस्यान्तरे मनोः वैवस्वते ऽन्तरे चैते आदित्या द्वादश स्मृताः
इन्द्रो धाता भगस् त्वष्टा मित्रो ऽथ वरुणो यमः विवस्वान्सविता पूषा अंशुमान् विष्णुर् एव च
एते सहस्रकिरणा आदित्या द्वादश स्मृताः मारीचात्कश्यपादाप पुत्रानदितिरुत्तमान्
भृशाश्वस्य ऋषेः पुत्रा देवप्रहरणाः स्मृताः एते देवगणा विप्राः प्रतिमन्वन्तरेषु च
उत्पद्यन्ते प्रलीयन्ते कल्पे कल्पे तथैव च दितिः पुत्रद्वयं लेभे कश्यपाद् इति नः श्रुतम्
हिरण्यकशिपुं चैव हिरण्याक्षं तथैव च हिरण्यकशिपोस्तद्वज् जातं पुत्रचतुष्टयम्
प्रह्लादश् चानुह्लादश्च संह्लादो ह्लाद एव च प्रह्लादपुत्र आयुष्मान् शिबिर् बाष्कल एव च
विरोचनश् चतुर्थश्च स बलिं पुत्रमाप्तवान् बलेः पुत्रशतं त्व् आसीद् बाणज्येष्ठं ततो द्विजाः
धृतराष्ट्रस् तथा सूर्यश् चन्द्रश्चन्द्रांशुतापनः निकुम्भनाभो गुर्वक्षः कुक्षिभीमो विभीषणः
एवमाद्यास् तु बहवो बाणज्येष्ठा गुणाधिकाः बाणः सहस्रबाहुश् च सर्वास्त्रगणसंयुतः
तपसा तोषितो यस्य पुरे वसति शूलभृत् महाकालत्वम् अगमत् साम्यं यश्च पिनाकिनः
हिरण्याक्षस्य पुत्रो ऽभूद् उलूकः शकुनिस्तथा भूतसंतापनश् चैव महानाभस्तथैव च
एतेभ्यः पुत्रपौत्राणां कोटयः सप्तसप्ततिः महाबला महाकाया नानारूपा महौजसः
दनुः पुत्रशतं लेभे कश्यपाद् बलदर्पितम् विप्रचित्तिः प्रधानो ऽभूद् येषां मध्ये महाबलः