रणे विजेतुं देवांश्च न शक्ष्यामः कथंचन अयुद्धेन प्रपत्स्यामः शरणं काव्यमातरम्
यापयामः कृच्छ्रमिदं यावदभ्येति नो गुरुः निवृत्ते च तथा शुक्रे योत्स्यामो दंशितायुधाः
एवमुक्त्वा ततो ऽन्योन्यं शरणं काव्यमातरम् प्रापद्यन्त ततो भीतास् तेभ्यो ऽदादभयं तु सा
न भेतव्यं न भेतव्यं भयं त्यजत दानवाः मत्संनिधौ वर्ततां वो न भीर् भवितुमर्हति
तया चाभ्युपपन्नांस्तान् दृष्ट्वा देवास्ततो ऽसुरान् अभिजग्मुः प्रसह्यैतान् अविचार्य बलाबलम्
ततस्तान्बाध्यमानांस्तु देवैर्दृष्ट्वासुरांस्तदा देवी क्रुद्धाब्रवीद्देवान् अनिन्द्रान्वः करोम्यहम्
संभृत्य सर्वसम्भारान् इन्द्रं साभ्यचरत्तदा तस्तम्भ देवी बलवद् योगयुक्ता तपोधना
ततस्तं स्तम्भितं दृष्ट्वा इन्द्रं देवाश्च मूकवत् प्राद्रवन्त ततो भीता इन्द्रं दृष्ट्वा वशीकृतम्
गतेषु सुरसंघेषु शक्रं विष्णुरभाषत मां त्वं प्रविश भद्रं ते नयिष्ये त्वां सुरोत्तम
एवमुक्तस्ततो विष्णुं प्रविवेश पुरंदरः विष्णुना रक्षितं दृष्ट्वा देवी क्रुद्धा वचो ऽब्रवीत्
एषा त्वां विष्णुना सार्धं दहामि मघवन्बलात् मिषतां सर्वभूतानां दृश्यतां मे तपोबलम्
तया ऽभिभूतौ तौ देवाव् इन्द्राविष्णू बभूवतुः कथं मुच्येव सहितौ विष्णुरिन्द्रम् अभाषत
इन्द्रो ऽब्रवीज्जहि ह्येनां यावन्नौ न दहेत्प्रभो विशेषणाभिभूतो ऽस्मि त्वत्तो ऽहं जहि मा चिरम्
ततः समीक्ष्य विष्णुस्तां स्त्रीवधे कृच्छ्रम् आस्थितः अभिध्याय ततश्चक्रम् आपदुद्धरणे तु तत्
ततस्तु त्वरया युक्तः शीघ्रकारी भयान्वितः ज्ञात्वा विष्णुस्ततस्तस्या क्रूरं देव्याश्चिकीर्षितम् क्रुद्धः स्वमस्त्रमादाय शिरश्चिच्छेद वै भिया
तं दृष्ट्वा स्त्रीवधं घोरं चुक्रोध भृगुरीश्वरः ततो ऽभिशप्तो भृगुणा विष्णुर् भार्यावधे तदा
यस्मात्ते जानतो धर्मप्रवध्या स्त्री निषूदिता तस्मात्त्वं सप्तकृत्वेह मानुषेषूपपत्स्जसे
ततस्तेनाभिशापेन नष्टे धर्मे पुनःपुनः लोकस्य च हितार्थाय जायते मानुयेष्विह
अनुव्याहृत्य विष्णुं स तदादाय शिरस्त्वरन् समानीय ततः कायम् असौ गृह्येदमब्रवीत्
एषा त्वं विष्पुना देवि हता संजीवयाम्यहम् ततस्तां योज्य शिरसा अभिजीवेति सो ऽब्रवीत्
यदि कृत्स्नो मया धर्मो ज्ञायते चरितो ऽपि वा तेन सत्येन जीवस्व यदि सत्यं वदाम्यहम्
ततस्तां प्रोक्ष्य शीताभिर् अद्भिर् जीवेति सो ऽब्रवीत् ततो ऽभिव्याहृते तस्य देवी संजीविता तदा
ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव साधु साध्विति चक्रुस्ते वचसा सर्वतोदिशम्
एवं प्रत्याहृता तेन देवी सा भृगुणा तदा मिषतां देवतानां हि तदद्भुतम् इवाभवद्
असंभ्रान्तेन भृगुणा पत्नी संजीविता पुनः दृष्ट्वा चेन्द्रो नालभत शर्म काव्यभयात्पुनः प्रजागरे ततश्चेन्द्रो जयन्तीमिदमब्रवीत्
संचिन्त्य मतिमान् वाक्यं स्वां कन्यां पाकशासनः एष काव्यो ह्यमित्राय व्रतं चरति दारुणम् तेनाहं व्याकुलः पुत्रि कृतो मतिमता भृशम्
गच्छ संसाधयस्वैनं श्रमापनयनैः शुभैः तैस्तैर्मनोनुकूलैश्च ह्य् उपचारैर् अतन्द्रिता
काव्यमाराधयस्वैनं यथा तुष्येत स द्विजः गच्छ त्वं तस्य दत्ताऽसि प्रयत्नं कुरु मत्कृते
एवमुक्ता जयन्ती सा वचः संगृह्य वै पितुः अगच्छद्यत्र घोरं स तप आरभ्य तिष्ठति
तं दृष्ट्वा तु पिबन्तं सा कणधूमम् अवाङ्मुखम् यक्षेण पात्यमानं च कुण्डधारेण पातितम्