ततस्ते वध्यमानास्तु काव्यमेवाभिदुद्रुवुः ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैर् अभिद्रुतान्
रक्षां काव्येन संहृत्य देवास्ते ऽप्यसुरार्दिताः काव्यं दृष्ट्वा स्थितं देवा निःशङ्कमसुराञ्जहुः
ततः काव्यो ऽनुचिन्त्याथ ब्राह्मणो वचनं हितम् तानुवाच ततः काव्यः पूर्वं वृत्तमनुस्मरन्
त्रैलोक्यं वो हृतं सर्वं वामनेन त्रिभिः क्रमैः बलिर्बद्धो हतो जम्भो निहतश्च विरोचनः
महासुरा द्वादशसु संग्रामेषु सुरैर् हताः तैस्तैरुपायैर्भूयिष्ठं निहता वः प्रधानतः
किंचिच्छीष्टास्तु यूयं वै युद्धं मास्त्विति मे मतम् नीतिं यां वो ऽभिधास्यामि तिष्ठध्वं कालपर्ययात्
यास्याम्यहं महादेवं मन्त्रार्थं विजयावहम् अप्रतीपांस्ततो मन्त्रान् देवात्प्राप्य महेश्वरात् युध्यामहे पुनर्देवांस् ततः प्राप्स्यथ वै जयम्
ततस्ते कृतसंवादा देवान् ऊचुस्तदासुराः न्यस्तशस्त्रा वयं सर्वे निःसंनाहा रथैर्विना
वयं तपश्चरिष्यामः संवृता वल्कलैर्वने प्रह्लादस्य वचः श्रुत्वा सत्याभिव्याहृतं तु तत्
ततो देवा न्यवर्तन्त विज्वरा मुदिताश्च ते न्यस्तशस्त्रेषु दैत्येषु विनिवृत्तास्तदा सुराः
ततस्तानब्रवीत्काव्यः कंचित्कालमुपास्यथ निरुत्सिक्तास् तपोयुक्ताः कालं कार्यार्थसाधकम्
पितुर्ममाश्रमस्था वै मां प्रतीक्षत दानवाः तत्संदिश्यासुरान्काव्यो महादेवं प्रपद्यत
मन्त्रानिच्छाम्यहं देव ये न सन्ति बृहस्पतौ पराभवाय देवानाम् असुराणां जयाय च
एवमुक्तो ऽब्रवीद्देवो व्रतं त्वं चर भार्गव पूर्णं वर्षसहस्रं तु कणधूममवाक्शिराः यदि पास्यसि भद्रं ते ततो मन्त्रानवाप्स्यसि
तथेति समनुज्ञाप्य शुक्रस्तु भृगुनन्दनः पादौ संस्पृश्य देवस्य बाढमित्यब्रवीद्वचः व्रतं चराम्यहं देव त्वयादिष्टो ऽद्य वै प्रभो
ततो ऽनुसृष्टो देवेन कुण्डधारो ऽस्य धूमकृत् तदा तस्मिन्गते शुक्रे ह्य् असुराणां हिताय वै मन्त्रार्थं तत्र वसति ब्रह्मचर्यं महेश्वरे
तद्बुद्ध्वा नीतिपूर्वं तु राज्ये न्यस्ते तदासुरैः अस्मिंश्छिद्रे तदामर्षाद् देवास्तान्समुपाद्रवन् दंशिताः सायुधाः सर्वे बृहस्पतिपुरःसराः
दृष्ट्वासुरगणा देवान् प्रगृहीतायुधान्पुनः उत्पेतुः सहसा ते वै संत्रस्तास्तान्वचो ऽब्रुवन्
न्यस्ते शस्त्रे ऽभये दत्त आचार्ये व्रतमास्थिते दत्त्वा भवन्तो ह्य् अभयं सम्प्राप्ता नो जिघांसया
अनाचार्या वयं देवास् त्यक्तशस्त्रास्त्ववस्थिताः चीरकृष्णाजिनधरा निष्क्रिया निष्परिग्रहाः
रणे विजेतुं देवांश्च न शक्ष्यामः कथंचन अयुद्धेन प्रपत्स्यामः शरणं काव्यमातरम्
यापयामः कृच्छ्रमिदं यावदभ्येति नो गुरुः निवृत्ते च तथा शुक्रे योत्स्यामो दंशितायुधाः
एवमुक्त्वा ततो ऽन्योन्यं शरणं काव्यमातरम् प्रापद्यन्त ततो भीतास् तेभ्यो ऽदादभयं तु सा
न भेतव्यं न भेतव्यं भयं त्यजत दानवाः मत्संनिधौ वर्ततां वो न भीर् भवितुमर्हति
तया चाभ्युपपन्नांस्तान् दृष्ट्वा देवास्ततो ऽसुरान् अभिजग्मुः प्रसह्यैतान् अविचार्य बलाबलम्
ततस्तान्बाध्यमानांस्तु देवैर्दृष्ट्वासुरांस्तदा देवी क्रुद्धाब्रवीद्देवान् अनिन्द्रान्वः करोम्यहम्
संभृत्य सर्वसम्भारान् इन्द्रं साभ्यचरत्तदा तस्तम्भ देवी बलवद् योगयुक्ता तपोधना
ततस्तं स्तम्भितं दृष्ट्वा इन्द्रं देवाश्च मूकवत् प्राद्रवन्त ततो भीता इन्द्रं दृष्ट्वा वशीकृतम्
गतेषु सुरसंघेषु शक्रं विष्णुरभाषत मां त्वं प्रविश भद्रं ते नयिष्ये त्वां सुरोत्तम
एवमुक्तस्ततो विष्णुं प्रविवेश पुरंदरः विष्णुना रक्षितं दृष्ट्वा देवी क्रुद्धा वचो ऽब्रवीत्