इन्द्रास्त्रयस्ते विज्ञेया असुराणां महौजसः दैत्यसंस्थमिदं सर्वम् आसीद्दशयुगं पुनः
त्रैलोक्यमिदमव्यग्रं महेन्द्रेणानुपाल्यते असपत्नमिदं सर्वम् आसीद्दशयुगं पुनः
प्रह्लादस्य हते तस्मिंस् त्रैलोक्ये कालपर्ययात् पर्यायेण तु सम्प्राप्ते त्रैलोक्यं पाकशासने ततो ऽसुरान्परित्यज्य शुक्रो देवानगच्छत
यज्ञे देवानथ गतं दितिजाः काव्यमाह्वयन् किं त्वं नो मिषतां राज्यं त्यक्त्वा यज्ञं पुनर्गतः
स्थातुं न शक्नुमो ह्य् अत्र प्रविशामो रसातलम् एवमुक्तो ऽब्रवीद्दैत्यान् विषण्णान्सान्त्वयन्गिरा
मा भैष्ट धारयिष्यामि तेजसा स्वेन वो ऽसुराः मन्त्राश्चौषधयश्चैव रसा वसु च यत्परम्
कृत्स्नानि मयि तिष्ठन्ति पादस्तेषां सुरेषु वै तत्सर्वं वः प्रदास्यामि युष्मदर्थे धृता मया
ततो देवास्तु तान्दृष्ट्वा वृतान्काव्येन धीमता संमन्त्रयन्ति देवा वै संविज्ञास्तु जिघृक्षया
काव्यो ह्य् एष इदं सर्वं व्यावर्तयति नो बलात् साधु गच्छामहे तूर्णं यावन्नाध्यापयिष्यति
प्रसह्य हत्वा शिष्टांस्तु पातालं प्रापयामहे ततो देवास्तु संरब्धा दानवान् उपसृत्य ह
ततस्ते वध्यमानास्तु काव्यमेवाभिदुद्रुवुः ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैर् अभिद्रुतान्
रक्षां काव्येन संहृत्य देवास्ते ऽप्यसुरार्दिताः काव्यं दृष्ट्वा स्थितं देवा निःशङ्कमसुराञ्जहुः
ततः काव्यो ऽनुचिन्त्याथ ब्राह्मणो वचनं हितम् तानुवाच ततः काव्यः पूर्वं वृत्तमनुस्मरन्
त्रैलोक्यं वो हृतं सर्वं वामनेन त्रिभिः क्रमैः बलिर्बद्धो हतो जम्भो निहतश्च विरोचनः
महासुरा द्वादशसु संग्रामेषु सुरैर् हताः तैस्तैरुपायैर्भूयिष्ठं निहता वः प्रधानतः
किंचिच्छीष्टास्तु यूयं वै युद्धं मास्त्विति मे मतम् नीतिं यां वो ऽभिधास्यामि तिष्ठध्वं कालपर्ययात्
यास्याम्यहं महादेवं मन्त्रार्थं विजयावहम् अप्रतीपांस्ततो मन्त्रान् देवात्प्राप्य महेश्वरात् युध्यामहे पुनर्देवांस् ततः प्राप्स्यथ वै जयम्
ततस्ते कृतसंवादा देवान् ऊचुस्तदासुराः न्यस्तशस्त्रा वयं सर्वे निःसंनाहा रथैर्विना
वयं तपश्चरिष्यामः संवृता वल्कलैर्वने प्रह्लादस्य वचः श्रुत्वा सत्याभिव्याहृतं तु तत्
ततो देवा न्यवर्तन्त विज्वरा मुदिताश्च ते न्यस्तशस्त्रेषु दैत्येषु विनिवृत्तास्तदा सुराः
ततस्तानब्रवीत्काव्यः कंचित्कालमुपास्यथ निरुत्सिक्तास् तपोयुक्ताः कालं कार्यार्थसाधकम्
पितुर्ममाश्रमस्था वै मां प्रतीक्षत दानवाः तत्संदिश्यासुरान्काव्यो महादेवं प्रपद्यत
मन्त्रानिच्छाम्यहं देव ये न सन्ति बृहस्पतौ पराभवाय देवानाम् असुराणां जयाय च
एवमुक्तो ऽब्रवीद्देवो व्रतं त्वं चर भार्गव पूर्णं वर्षसहस्रं तु कणधूममवाक्शिराः यदि पास्यसि भद्रं ते ततो मन्त्रानवाप्स्यसि
तथेति समनुज्ञाप्य शुक्रस्तु भृगुनन्दनः पादौ संस्पृश्य देवस्य बाढमित्यब्रवीद्वचः व्रतं चराम्यहं देव त्वयादिष्टो ऽद्य वै प्रभो
ततो ऽनुसृष्टो देवेन कुण्डधारो ऽस्य धूमकृत् तदा तस्मिन्गते शुक्रे ह्य् असुराणां हिताय वै मन्त्रार्थं तत्र वसति ब्रह्मचर्यं महेश्वरे
तद्बुद्ध्वा नीतिपूर्वं तु राज्ये न्यस्ते तदासुरैः अस्मिंश्छिद्रे तदामर्षाद् देवास्तान्समुपाद्रवन् दंशिताः सायुधाः सर्वे बृहस्पतिपुरःसराः
दृष्ट्वासुरगणा देवान् प्रगृहीतायुधान्पुनः उत्पेतुः सहसा ते वै संत्रस्तास्तान्वचो ऽब्रुवन्
न्यस्ते शस्त्रे ऽभये दत्त आचार्ये व्रतमास्थिते दत्त्वा भवन्तो ह्य् अभयं सम्प्राप्ता नो जिघांसया
अनाचार्या वयं देवास् त्यक्तशस्त्रास्त्ववस्थिताः चीरकृष्णाजिनधरा निष्क्रिया निष्परिग्रहाः